bhagavadgItA sandhi-vichCheda-anvaya-sahitA (10/20/12)

83 views
Skip to first unread message

gita-anva...@googlegroups.com

unread,
Oct 19, 2012, 9:42:16 PM10/19/12
to gita-anva...@googlegroups.com


य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति .
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः .. १८.६८..

यः इदम् परमम् गुह्यम् मद्भक्तेषु अभिधास्यति .
भक्तिम् मयि पराम् कृत्वा माम् एव एष्यति असंशयः .. १८.६८..

यः इदम् परमम् गुह्यम् (ज्ञानं) मद्भक्तेषु अभिधास्यति,
(सः) मयि पराम् भक्तिम् कृत्वा, असंशयः (सन्) माम्
एव एष्यति .



--------------------------------------------------------------
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः .
भविता न च मे तस्मादन्यः प्रियतरो भुवि .. १८.६९..

न च तस्मात् मनुष्येषु कश्चित् मे प्रिय-कृत्तमः .
भविता न च मे तस्मात् अन्यः प्रियतरः भुवि .. १८.६९..

मनुष्येषु च कश्चित् तस्मात् प्रिय-कृत्तमः मे न (अस्ति)\;
तस्मात् अन्यः भुवि प्रियतरः च मे न भविता .



--------------------------------------------------------------
अध्येष्यते च य इमं धर्म्यं संवादमावयोः .
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः .. १८.७०..

अध्येष्यते च यः इमम् धर्म्यम् संवादम् आवयोः .
ज्ञान-यज्ञेन तेन अहम् इष्टः स्याम् इति मे मतिः .. १८.७०..

यः च आवयोः इमम् धर्म्यम् संवादम् अध्येष्यते, तेन
ज्ञान-यज्ञेन अहम् इष्टः स्याम् इति मे मतिः .



--------------------------------------------------------------
श्रद्धावाननसूयश्च शृणुयादपि यो नरः .
सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् .. १८.७१..

श्रद्धावान् अनसूयः च शृणुयात् अपि यः नरः .
सः अपि मुक्तः शुभान् लोकान् प्राप्नुयात् पुण्य-कर्मणाम् .. १८.७१..

श्रद्धावान् अनसूयः च यः नरः (इदं) शृणुयात् अपि सः
मुक्तः (सन्) पुण्य-कर्मणाम् शुभान् लोकान् अपि प्राप्नुयात् .



--------------------------------------------------------------
कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा .
कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय .. १८.७२..

कच्चित् एतत् श्रुतम् पार्थ त्वया एकाग्रेण चेतसा .
कच्चित् अज्ञान-सम्मोहः प्रनष्टः ते धनञ्जय .. १८.७२..

हे पार्थ! त्वया एतत् एकाग्रेण चेतसा श्रुतम् कच्चित्
हे धनञ्जय! ते अज्ञान-सम्मोहः प्रनष्टः कच्चित्



--------------------------------------------------------------
अर्जुन उवाच .
अर्जुनः उवाच .
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत .
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव .. १८.७३..

नष्टः मोहः स्मृतिः लब्धा त्वत् प्रसादात् मया अच्युत .
स्थितः अस्मि गत-सन्देहः करिष्ये वचनम् तव .. १८.७३..

हे अच्युत! त्वत् प्रसादात् (मे) मोहः नष्टः,
मया स्मृतिः लब्धा, (अहं) गत-सन्देहः स्थितः अस्मि,
(इदानीं) तव वचनम् करिष्ये .



--------------------------------------------------------------

672
Reply all
Reply to author
Forward
0 new messages