दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता .
मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव .. १६.५..
दैवी सम्पत् विमोक्षाय निबन्धाय आसुरी मता .
मा शुचः सम्पदम् दैवीम् अभिजातः असि पाण्डव .. १६.५..
दैवी सम्पत् विमोक्षाय, आसुरी (सम्पत् च) निबन्धाय मता .
हे पाण्डव! (त्वं) दैवीम् सम्पदम् अभिजातः असि, मा शुचः .
--------------------------------------------------------------
द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च .
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु .. १६.६..
द्वौ भूत-सर्गौ लोके अस्मिन् दैवः आसुरः एव च .
दैवः विस्तरशः प्रोक्तः आसुरम् पार्थ मे शृणु .. १६.६..
हे पार्थ! अस्मिन् लोके दैवः आसुरः च एव द्वौ
भूत-सर्गौ (स्तः तत्र) दैवः विस्तरशः प्रोक्तः आसुरम् मे शृणु .
--------------------------------------------------------------
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः .
न शौचं नापि चाचारो न सत्यं तेषु विद्यते .. १६.७..
प्रवृत्तिम् च निवृत्तिम् च जनाः न विदुः आसुराः .
न शौचम् न अपि च आचारः न सत्यम् तेषु विद्यते .. १६.७..
आसुराः जनाः प्रवृत्तिम् च निवृत्तिम् च न विदुः, तेषु च
न शौचम्, न आचारः, न अपि सत्यम् विद्यते .
--------------------------------------------------------------
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् .
अपरस्परसम्भूतं किमन्यत्कामहैतुकम् .. १६.८..
असत्यम् अप्रतिष्ठम् ते जगत् आहुः अनीश्वरम् .
अपरस्पर-सम्भूतं किम् अन्यत् काम-हैतुकम् .. १६.८..
(इदं) जगत् असत्यम्, अप्रतिष्ठम्, अनीश्वरम्, अपरस्पर-सम्भूतं
काम-हैतुकम् (च अस्ति) अन्यत् किम् (इति) ते आहुः .
--------------------------------------------------------------
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः .
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः .. १६.९..
एताम् दृष्टिम् अवष्टभ्य नष्ट-आत्मानः अल्प-बुद्धयः .
प्रभवन्ति उग्र-कर्माणः क्षयाय जगतः अहिताः .. १६.९..
एताम् दृष्टिम् अवष्टभ्य नष्ट-आत्मानः, अल्प-बुद्धयः,
उग्र-कर्माणः, अहिताः जगतः क्षयाय प्रभवन्ति .
--------------------------------------------------------------
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः .
मोहाद्गृहीत्वा सद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः .. १६.१०..
कामम् आश्रित्य दुष्पूरम् दम्भ-मान-मद-अन्विताः .
मोहात् गृहीत्वा असत् ग्राहान् प्रवर्तन्ते अशुचि-व्रताः .. १६.१०..
दुष्पूरम् कामम् आश्रित्य, मोहात् असत् ग्राहान् गृहीत्वा,
अशुचि-व्रताः दम्भ-मान-मद-अन्विताः प्रवर्तन्ते .
--------------------------------------------------------------
558