अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् .
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् .. १७.१२..
अभिसन्धाय तु फलम् दम्भार्थम् अपि च एव यत् .
इज्यते भरत-श्रेष्ठ तम् यज्ञम् विद्धि राजसम् .. १७.१२..
हे भरत-श्रेष्ठ! फलम् तु अभिसन्धाय, अपि च दम्भार्थम्
एव यत् इज्यते, तम् यज्ञम् राजसम् विद्धि .
--------------------------------------------------------------
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् .
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते .. १७.१३..
विधि-हीनम् असृष्ट-अन्नम् मन्त्र-हीनम् अदक्षिणम् .
श्रद्धा-विरहितम् यज्ञम् तामसम् परिचक्षते .. १७.१३..
विधि-हीनम्, असृष्ट-अन्नम्, मन्त्र-हीनम्, अदक्षिणम्,
श्रद्धा-विरहितम्, (च) यज्ञम् तामसम् परिचक्षते .
--------------------------------------------------------------
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् .
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते .. १७.१४..
देव-द्विज-गुरु-प्राज्ञ-पूजनम् शौचम् आर्जवम् .
ब्रह्मचर्यम् अहिंसा च शारीरम् तपः उच्यते .. १७.१४..
देव-द्विज-गुरु-प्राज्ञ-पूजनम्, शौचम्, आर्जवम्,
ब्रह्मचर्यम्, अहिंसा च (इति) शारीरम् तपः उच्यते .
--------------------------------------------------------------
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् .
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते .. १७.१५..
अनुद्वेगकरम् वाक्यम् सत्यम् प्रिय-हितम् च यत् .
स्वाध्याय-अभ्यसनम् च एव वाङ्मयम् तपः उच्यते .. १७.१५..
यत् अनुद्वेगकरम् सत्यम् प्रिय-हितम् वाक्यम् च
(यत्) स्वाध्याय-अभ्यसनम् च, (तत्) एव
वाङ्मयम् तपः (इति) उच्यते .
--------------------------------------------------------------
मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः .
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते .. १७.१६..
मनः-प्रसादः सौम्यत्वम् मौनम् आत्म-विनिग्रहः .
भाव-संशुद्धिः इति एतत् तपः मानसम् उच्यते .. १७.१६..
मनः-प्रसादः सौम्यत्वम्, मौनम्, आत्म-विनिग्रहः,
भाव-संशुद्धिः इति एतत् मानसम् तपः उच्यते .
--------------------------------------------------------------
श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः .
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते .. १७.१७..
श्रद्धया परया तप्तम् तपः तत् त्रिविधम् नरैः .
अफल-आकाङ्क्षिभिः युक्तैः सात्त्विकम् परिचक्षते .. १७.१७..
अफल-आकाङ्क्षिभिः युक्तैः नरैः परया श्रद्धया तप्तम्
(यत्) त्रिविधम् तपः, तत् सात्त्विकम् परिचक्षते .
--------------------------------------------------------------
588