सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः .
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् .. १८.५६..
सर्व-कर्माणि अपि सदा कुर्वाणः मद्व्यपाश्रयः .
मत्प्रसादात् अवाप्नोति शाश्वतम् पदम् अव्ययम् .. १८.५६..
मद्व्यपाश्रयः सदा सर्व-कर्माणि अपि कुर्वाणः
मत्-प्रसादात् शाश्वतम् अव्ययम् पदम् अवाप्नोति .
--------------------------------------------------------------
चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः .
बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव .. १८.५७..
चेतसा सर्व-कर्माणि मयि संन्यस्य मत्परः .
बुद्धि-योगम् उपाश्रित्य मच्चित्तः सततम् भव .. १८.५७..
(त्वं) सर्व-कर्माणि चेतसा मयि संन्यस्य, मत्परः
(सन्), बुद्धि-योगम् उपाश्रित्य,सततम् मच्चित्तः भव .
--------------------------------------------------------------
मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि .
अथ चेत्त्वमहंकारान्न श्रोष्यसि विनङ्क्ष्यसि .. १८.५८..
मच्चित्तः सर्व-दुर्गाणि मत्प्रसादात् तरिष्यसि .
अथ चेत् त्वम् अहंकारात् न श्रोष्यसि विनङ्क्ष्यसि .. १८.५८..
(त्वम्) मत्चित्तः (सन्) सर्व-दुर्गाणि मत्प्रसादात्
तरिष्यसि . अथ त्वम् अहंकारात् न श्रोष्यसि चेत्, विनङ्क्ष्यसि .
--------------------------------------------------------------
यदहंकारमाश्रित्य न योत्स्य इति मन्यसे .
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति .. १८.५९..
यत् अहंकारम् आश्रित्य न योत्स्ये इति मन्यसे .
मिथ्या एषः व्यवसायः ते प्रकृतिः त्वाम् नियोक्ष्यति .. १८.५९..
यत् अहंकारम् आश्रित्य 'न योत्स्ये' इति मन्यसे, (तत्) एषः
ते व्यवसायः मिथ्या (एव अस्ति), प्रकृतिः त्वाम् नियोक्ष्यति .
--------------------------------------------------------------
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा .
कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् .. १८.६०..
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा .
कर्तुम् न इच्छसि यत् मोहात् करिष्यसि अवशः अपि तत् .. १८.६०..
हे कौन्तेय! (यतः) स्वभावजेन स्वेन कर्मणा निबद्धः
(त्वं) यत् मोहात् कर्तुम् न इच्छसि, तत् अवशः (सन्)
अपि करिष्यसि .
--------------------------------------------------------------
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति .
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया .. १८.६१..
ईश्वरः सर्व-भूतानाम् हृत्-देशे अर्जुन तिष्ठति .
भ्रामयन् सर्व-भूतानि यन्त्र-आरूढानि मायया .. १८.६१..
हे अर्जुन! यन्त्र-आरूढानि सर्व-भूतानि मायया
भ्रामयन् ईश्वरः सर्व-भूतानाम् हृत्-देशे तिष्ठति .
--------------------------------------------------------------
660