bhagavadgItA sandhi-vichCheda-anvaya-sahitA (10/19/12)

30 views
Skip to first unread message

gita-anva...@googlegroups.com

unread,
Oct 18, 2012, 9:42:16 PM10/18/12
to gita-anva...@googlegroups.com


तमेव शरणं गच्छ सर्वभावेन भारत .
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् .. १८.६२..

तम् एव शरणम् गच्छ सर्व-भावेन भारत .
तत् प्रसादात् पराम् शान्तिम् स्थानम् प्राप्स्यसि शाश्वतम् .. १८.६२..

हे भारत! (त्वं) तम् एव सर्व-भावेन शरणम् गच्छ .
तत् प्रसादात् पराम् शान्तिम् शाश्वतम् स्थानम् (च) प्राप्स्यसि .



--------------------------------------------------------------
इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया .
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु .. १८.६३..

इति ते ज्ञानम् आख्यातम् गुह्यात् गुह्यतरं मया .
विमृश्य एतत् अशेषेण यथा इच्छसि तथा कुरु .. १८.६३..

इति गुह्यात् गुह्यतरं ज्ञानम् मया ते आख्यातम्,
एतत् अशेषेण विमृश्य, यथा इच्छसि तथा कुरु .



--------------------------------------------------------------
सर्वगुह्यतमं भूयः शृणु मे परमं वचः .
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् .. १८.६४..

सर्व-गुह्यतमम् भूयः शृणु मे परमम् वचः .
इष्टः असि मे दृढम् इति ततः वक्ष्यामि ते हितम् .. १८.६४..

सर्व-गुह्यतमम् परमम् वचः मे भूयः शृणु . मे दृढम्
इष्टः असि, इति ततः ते हितम् वक्ष्यामि .



--------------------------------------------------------------
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु .
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे .. १८.६५..

मन्मनाः भव मद्भक्तः मद्याजी माम् नमस्कुरु .
माम् एव एष्यसि सत्यम् ते प्रतिजाने प्रियः असि मे .. १८.६५..

मन्मनाः, मद्भक्तः, मद्याजी (च) भव, माम्
नमस्कुरु (एवं कृत्वा त्वं) माम् एव एष्यसि . (इति) ते
सत्यम् प्रतिजाने, (यतः त्वं) मे प्रियः असि .



--------------------------------------------------------------
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज .
अहं त्वा सर्वपापेभ्यो मोक्ष्ययिष्यामि मा शुचः .. १८.६६..

सर्व-धर्मान् परित्यज्य माम् एकम् शरणम् व्रज .
अहम् त्वा सर्व-पापेभ्यः मोक्ष्ययिष्यामि मा शुचः .. १८.६६..

(त्वं) सर्व-धर्मान् परित्यज्य माम् एकम् शरणम् व्रज ,
अहम् त्वा सर्व-पापेभ्यः मोक्ष्ययिष्यामि, (त्वं) मा शुचः .



--------------------------------------------------------------
इदं ते नातपस्काय नाभक्ताय कदाचन .
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति .. १८.६७..

इदम् ते न अतपस्काय न अभक्ताय कदाचन .
न च अशुश्रूषवे वाच्यम् न च माम् यः अभ्यसूयति .. १८.६७..

इदम् ते न अतपस्काय, (च) न अभक्ताय, न च अशुश्रूषवे,
न च यः माम् अभ्यसूयति (तस्मै) कदाचन वाच्यम् .



--------------------------------------------------------------

666
Reply all
Reply to author
Forward
0 new messages