कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् .
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् .. १८.४४..
कृषि-गौरक्ष्य-वाणिज्यम् वैश्य-कर्म स्वभावजम् .
परिचर्या-आत्मकम् कर्म शूद्रस्य अपि स्वभावजम् .. १८.४४..
कृषि-गौरक्ष्य-वाणिज्यम् स्वभावजम् वैश्य-कर्म (अस्ति)
अपि (च) शूद्रस्य परिचर्या-आत्मकम् कर्म स्वभावजम् (अस्ति) .
--------------------------------------------------------------
स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः .
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु .. १८.४५..
स्वे स्वे कर्मणि अभिरतः संसिद्धिम् लभते नरः .
स्वकर्म-निरतः सिद्धिम् यथा विन्दति तत् शृणु .. १८.४५..
स्वे स्वे कर्मणि अभिरतः नरः संसिद्धिम् लभते .
स्वकर्म-निरतः (नरः) यथा सिद्धिम् विन्दति, तत् शृणु .
--------------------------------------------------------------
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् .
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः .. १८.४६..
यतः प्रवृत्तिः भूतानाम् येन सर्वम् इदम् ततम् .
स्वकर्मणा तम् अभ्यर्च्य सिद्धिम् विन्दति मानवः .. १८.४६..
यतः भूतानाम् प्रवृत्तिः (अस्ति), येन इदम् सर्वम् ततम्
(अस्ति) तम् (ईश्वरं) स्वकर्मणा अभ्यर्च्य मानवः सिद्धिम् विन्दति .
--------------------------------------------------------------
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् .
स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् .. १८.४७..
श्रेयान् स्वधर्मः विगुणः पर-धर्मात् स्वनुष्ठितात् .
स्वभाव-नियतम् कर्म कुर्वन् न आप्नोति किल्बिषम् .. १८.४७..
विगुणः स्वधर्मः स्वनुष्ठितात् पर-धर्मात् श्रेयान् (अस्ति),
स्वभाव-नियतम् कर्म कुर्वन् (नरः) किल्बिषम् न आप्नोति .
--------------------------------------------------------------
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् .
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः .. १८.४८..
सहजम् कर्म कौन्तेय सदोषम् अपि न त्यजेत् .
सर्वारम्भाः हि दोषेण धूमेन अग्निः इव आवृताः .. १८.४८..
हे कौन्तेय! सहजम् कर्म सदोषम् अपि न त्यजेत्,
धूमेन अग्निः इव हि सर्वारम्भाः दोषेण आवृताः (सन्ति) .
--------------------------------------------------------------
असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः .
नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति .. १८.४९..
असक्त-बुद्धिः सर्वत्र जित-आत्मा विगत-स्पृहः .
नैष्कर्म्य-सिद्धिम् परमाम् संन्यासेन अधिगच्छति .. १८.४९..
सर्वत्र असक्त-बुद्धिः जित-आत्मा, विगत-स्पृहः (नरः)
परमाम् नैष्कर्म्य-सिद्धिम् संन्यासेन अधिगच्छति .
--------------------------------------------------------------
648