bhagavadgItA sandhi-vichCheda-anvaya-sahitA (10/12/12)

15 views
Skip to first unread message

gita-anva...@googlegroups.com

unread,
Oct 11, 2012, 9:42:16 PM10/11/12
to gita-anva...@googlegroups.com


सर्वभूतेषु येनैकं भावमव्ययमीक्षते .
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् .. १८.२०..

सर्व-भूतेषु येन एकम् भावम् अव्ययम् ईक्षते .
अविभक्तम् विभक्तेषु तत् ज्ञानम् विद्धि सात्त्विकम् .. १८.२०..

येन (जीवः) विभक्तेषु सर्व-भूतेषु अविभक्तम्, एकम्
अव्ययम् भावम् ईक्षते, तत् ज्ञानम् सात्त्विकम् विद्धि .



--------------------------------------------------------------
पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् .
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् .. १८.२१..

पृथक्त्वेन तु यत् ज्ञानम् नाना-भावान् पृथक्-विधान् .
वेत्ति सर्वेषु भूतेषु तत् ज्ञानम् विद्धि राजसम् .. १८.२१..

यत् ज्ञानम् पृथक्त्वेन सर्वेषु भूतेषु तु पृथक्-विधान्
नाना-भावान् वेत्ति, तत् ज्ञानम् राजसम् विद्धि .



--------------------------------------------------------------
यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् .
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् .. १८.२२..

यत् तु कृत्स्नवत् एकस्मिन् कार्ये सक्तम् अहैतुकम् .
अतत्त्वार्थवत् अल्पम् च तत् तामसम् उदाहृतम् .. १८.२२..

यत् तु एकस्मिन् कार्ये कृत्स्नवत् सक्तम् अहैतुकम्
अतत्त्वार्थवत् अल्पम् च, तत्(ज्ञानं) तामसम् उदाहृतम् .



--------------------------------------------------------------
नियतं सङ्गरहितमरागद्वेषतः कृतम् .
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते .. १८.२३..

नियतम् सङ्ग-रहितम् अराग-द्वेषतः कृतम् .
अफल-प्रेप्सुना कर्म यत् तत् सात्त्विकम् उच्यते .. १८.२३..

अफल-प्रेप्सुना यत् नियतम् कर्म सङ्ग-रहितम् अराग-द्वेषतः
कृतम्, तत् सात्त्विकम् उच्यते .



--------------------------------------------------------------
यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः .
क्रियते बहुलायासं तद्राजसमुदाहृतम् .. १८.२४..

यत् तु काम-ईप्सुना कर्म साहंकारेण वा पुनः .
क्रियते बहुल आयासम् तत् राजसम् उदाहृतम् .. १८.२४..

पुनः यत् तु काम-ईप्सुना, साहंकारेण वा बहुल आयासम्
कर्म क्रियते, तत् राजसम् उदाहृतम् .



--------------------------------------------------------------
अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् .
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते .. १८.२५..

अनुबन्धम् क्षयम् हिंसाम् अनपेक्ष्य च पौरुषम् .
मोहात् आरभ्यते कर्म यत् तत् तामसम् उच्यते .. १८.२५..

अनुबन्धम् क्षयम् हिंसाम् पौरुषम् च अनपेक्ष्य
यत् कर्म मोहात् आरभ्यते, तत् तामसम् उच्यते .



--------------------------------------------------------------

624
Reply all
Reply to author
Forward
0 new messages