ममैवांशो जीवलोके जीवभूतः सनातनः .
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति .. १५.७..
मम एव अंशः जीव-लोके जीव-भूतः सनातनः .
मनः-षष्ठानि-इन्द्रियाणि प्रकृति-स्थानि कर्षति .. १५.७..
(अस्मिन्) जीव-लोके मम एव सनातनः अंशः जीव-भूतः
(अस्ति, सः) प्रकृति-स्थानि मनः-षष्ठानि-इन्द्रियाणि कर्षति .
--------------------------------------------------------------
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः .
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् .. १५.८..
शरीरम् यत् अवाप्नोति यत् च अपि उत्क्रामति ईश्वरः .
गृहीत्वा एतानि संयाति वायुः गन्धान् इव आशयात् .. १५.८..
यत् (एषः) ईश्वरः शरीरम् अवाप्नोति, अपि च यत् उत्क्रामति
(तत्) वायुः आशयात् गन्धान् इव, एतानि गृहीत्वा संयाति .
--------------------------------------------------------------
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च .
अधिष्ठाय मनश्चायं विषयानुपसेवते .. १५.९..
श्रोत्रम् चक्षुः स्पर्शनम् च रसनम् घ्राणम् एव च .
अधिष्ठाय मनः च अयम् विषयान् उपसेवते .. १५.९..
अयम् (जीवः) श्रोत्रम् चक्षुः स्पर्शनम् च, रसनम्
घ्राणम् मनः च एव अधिष्ठाय विषयान् उपसेवते .
--------------------------------------------------------------
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् .
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः .. १५.१०..
उत्क्रामन्तम् स्थितम् वा अपि भुञ्जानम् वा गुण-अन्वितम् .
विमूढाः न अनुपश्यन्ति पश्यन्ति ज्ञान-चक्षुषः .. १५.१०..
उत्क्रामन्तम् स्थितम् वा, भुञ्जानम् गुण-अन्वितम् वा अपि
विमूढाः न अनुपश्यन्ति, ज्ञान-चक्षुषः पश्यन्ति .
--------------------------------------------------------------
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् .
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः .. १५.११..
यतन्तः योगिनः च एनम् पश्यन्ति आत्मनि अवस्थितम् .
यतन्तः अपि अकृत-आत्मानः न एनम् पश्यन्ति अचेतसः .. १५.११..
यतन्तः योगिनः आत्मनि अवस्थितम् एनम् पश्यन्ति, अचेतसः
अकृत-आत्मानः च यतन्तः अपि एनम् न पश्यन्ति .
--------------------------------------------------------------
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् .
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् .. १५.१२..
यत् आदित्य-गतं तेजः जगत् भासयते अखिलम् .
यत् चन्द्रमसि यत् च अग्नौ तत् तेजः विद्धि मामकम् .. १५.१२..
यत् आदित्य-गतं तेजः अखिलम् जगत् भासयते, यत् च चन्द्रमसि,
यत् च अग्नौ (स्थितं अस्ति), तत् मामकम् तेजः (अस्ति इति त्वं) विद्धि .
--------------------------------------------------------------
540