अधर्मं धर्ममिति या मन्यते तमसावृता .
सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी .. १८.३२..
अधर्मम् धर्मम् इति या मन्यते तमसा आवृता .
सर्व-अर्थान् विपरीतान् च बुद्धिः सा पार्थ तामसी .. १८.३२..
हे पार्थ! या तमसा आवृता (बुद्धिः) अधर्मम् धर्मम्
सर्व-अर्थान् विपरीतान् च इति मन्यते, सा बुद्धिः तामसी (स्मृता) .
--------------------------------------------------------------
धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः .
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी .. १८.३३..
धृत्या यया धारयते मनः-प्राण-इन्द्रिय-क्रियाः .
योगेन अव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी .. १८.३३..
हे पार्थ! (नरः) यया अव्यभिचारिण्या धृत्या
मनः-प्राण-इन्द्रिय-क्रियाः योगेन धारयते, सा धृतिः सात्त्विकी (अस्ति) .
--------------------------------------------------------------
यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन .
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी .. १८.३४..
यया तु धर्म-काम-अर्थान् धृत्या धारयते अर्जुन .
प्रसङ्गेन फल-आकाङ्क्षी धृतिः सा पार्थ राजसी .. १८.३४..
हे अर्जुन! यया धृत्या प्रसङ्गेन फल-आकाङ्क्षी तु (सन्)
धर्म-काम-अर्थान् (नरः) धारयते, हे पार्थ! सा
धृतिः राजसी (अस्ति) .
--------------------------------------------------------------
यया स्वप्नं भयं शोकं विषादं मदमेव च .
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी .. १८.३५..
यया स्वप्नम् भयम् शोकम् विषादम् मदम् एव च .
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी .. १८.३५..
हे पार्थ! दुर्मेधा (नरः) यया स्वप्नम्, भयम्, शोकम्,
विषादम्, मदम् एव च न विमुञ्चति, सा धृतिः तामसी (मता) .
--------------------------------------------------------------
सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ .
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति .. १८.३६..
सुखम् तु इदानीम् त्रिविधम् शृणु मे भरतर्षभ .
अभ्यासात् रमते यत्र दुःखान्तम् च निगच्छति .. १८.३६..
हे भरतर्षभ! इदानीम् तु त्रिविधम् सुखम् मे शृणु,
यत्र (सुखे जीवः) अभ्यासात् रमते, दुःखान्तम् च निगच्छति .
--------------------------------------------------------------
यत्तदग्रे विषमिव परिणामेऽमृतोपमम् .
तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् .. १८.३७..
यत् तत् अग्रे विषम् इव परिणामे अमृत-उपमम् .
तत् सुखम् सात्त्विकम् प्रोक्तम् आत्म-बुद्धि-प्रसादजम् .. १८.३७..
यत् अग्रे विषम् इव, परिणामे अमृत-उपमम् तत्
आत्म-बुद्धि-प्रसादजम् (अस्ति), तत् सुखम् सात्त्विकम् प्रोक्तम् .
--------------------------------------------------------------
636