विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् .
परिणामे विषमिव तत्सुखं राजसं स्मृतम् .. १८.३८..
विषय-इन्द्रिय-संयोगात् यत् तत् अग्रे अमृत-उपमम् .
परिणामे विषम् इव तत् सुखम् राजसम् स्मृतम् .. १८.३८..
यत् विषय-इन्द्रिय-संयोगात् अग्रे अमृत-उपमम्, तत्
परिणामे (च) विषम् इव (अस्ति) तत् सुखम् राजसम् स्मृतम् .
--------------------------------------------------------------
यदग्रे चानुबन्धे च सुखं मोहनमात्मनः .
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् .. १८.३९..
यत् अग्रे च अनुबन्धे च सुखम् मोहनम् आत्मनः .
निद्रा-आलस्य-प्रमाद-उत्थम् तत् तामसम् उदाहृतम् .. १८.३९..
यत् अग्रे च अनुबन्धे च आत्मनः मोहनम् निद्रा-आलस्य-प्रमाद-उत्थम्,
तत् सुखम् तामसम् उदाहृतम् .
--------------------------------------------------------------
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः .
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः .. १८.४०..
न तत् अस्ति पृथिव्याम् वा दिवि देवेषु वा पुनः .
सत्त्वम् प्रकृतिजैः मुक्तम् यत् एभिः स्यात् त्रिभिः गुणैः .. १८.४०..
यत् सत्त्वम् एभिः प्रकृतिजैः त्रिभिः गुणैः मुक्तम् स्यात्, तत्
पृथिव्याम् वा दिवि वा पुनः देवेषु (वा) न अस्ति .
--------------------------------------------------------------
ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप .
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः .. १८.४१..
ब्राह्मण-क्षत्रिय-विशाम् शूद्राणाम् च परन्तप .
कर्माणि प्रविभक्तानि स्वभाव-प्रभवैः गुणैः .. १८.४१..
हे परन्तप! ब्राह्मण-क्षत्रिय-विशाम् शूद्राणाम् च
कर्माणि स्वभाव-प्रभवैः गुणैः प्रविभक्तानि (सन्ति) .
--------------------------------------------------------------
शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च .
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् .. १८.४२..
शमः दमः तपः शौचम् क्षान्तिः आर्जवम् एव च .
ज्ञानम् विज्ञानम् आस्तिक्यम् ब्रह्म-कर्म स्वभावजम् .. १८.४२..
शमः, दमः, तपः, शौचम्, क्षान्तिः, आर्जवम्, ज्ञानम्,
विज्ञानम्, आस्तिक्यम् एव च (इति) स्वभावजम् ब्रह्म-कर्म (अस्ति) .
--------------------------------------------------------------
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् .
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् .. १८.४३..
शौर्यम् तेजः धृतिः दाक्ष्यम् युद्धे च अपि अपलायनम् .
दानम् ईश्वर-भावः च क्षात्रम् कर्म स्वभावजम् .. १८.४३..
शौर्यम्, तेजः, धृतिः, दाक्ष्यम्, युद्धे अपि च अपलायनम्,
दानम्, ईश्वर-भावः च (इति) स्वभावजम् क्षात्रम् कर्म (अस्ति) .
--------------------------------------------------------------
642