अस्मिन् सूत्रे तादृशान्य् उदाहरणानि सङ्ग्ऋह्यन्ते यत्र
आचार्ये ऽत्य्-अभिमानेन तत्-स्खालित्यानङ्गीकारः
सूत्र-कृति श्रीकृष्णद्वैपायने
साक्षाद् भगवदवतारत्वम् एव तेषाम् अभिमतम्॥
> ननु तर्हि व्यासस्यावेशावतारत्वं मुमुक्षुभिर् अनुपास्यत्वं च
तैर् एव कथम् उक्तम्
इति चेत्, सत्यम्॥
न तत् कृष्ण-द्वैपायन-विषयम्, अपि तु विष्णु[13]-पुराणोक्ताष्टाविंशति-संख्याक-व्यासान्तर-विषयम्॥ +++(5)+++
> ननु च सहस्रनामभाष्ये-
>
> > "तत्र प्रादुर्भावाः केचित् साक्षात्, यथा मत्स्यकूर्मादयः॥ अन्ये तु ऋष्यादिविशिष्टपुरुषाधिष्ठानेन; यथा भार्गवरामकृष्णद्वैपायनादयः" (पृ. 182)
>
> इति कृष्णद्वैपायनस्यैवावेशावतारत्वम् उक्तम्,
> तस्य का गतिर्
इति चेत्,
तच् च कल्पभेदेनावतीर्ण-कृष्णद्वैपायन-विषयं बोध्यम्,
अन्यथा आचार्योक्ति-विरोधात्॥
यथा तत्त्व-त्रय-व्याख्याने बुद्धस्य साक्षाद्-अवतारत्वम् आचार्यहृदये प्रतिपादितम्॥
विष्वक्सेन-संहितादिषु तस्यावेशावतारत्वम् उक्तम्॥
उभयोर् विरोधः कल्पभेदेन परिहरणीय
इति व्याख्यातम्,
तद्वद् इहापीति[14] संतोष्टव्यम् आयुष्मता ॥