शङ्करमते परमेश्वर-शब्देन निर्गुणब्रह्मोक्तिः??

1 view
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jun 13, 2025, 9:29:59 PMJun 13
to चेतो-देव-जीवादि-तत्त्व-विचारः
https://groups.google.com/g/cheto-deva-jIvAdi/c/OddU5LVP2Us/m/4lqaqXD8BAAJ इत्य्-अनेनापरस्य स्मारितोऽस्मि। 
गत-सप्ताहे तथा-कथित-शाङ्कराः श्रीसुब्रह्मण्यनीताः
कुपिता मयि मां तत्-समूहान् निरकासयन्,
यतो निर्गुणब्रह्मण इच्छा, पारम्यम्, ऐश्वर्यं च न भवितुम् अर्हन्तीति मयोक्तम्। 
एतावत् सर्वे ऽपि ये ऽस्मिन् विषये पृष्टास् तद्-आग्रहं श्रुत्वा ऽहसन्।  
अप्य् अत्र कश्चिद् विवदिषति तत्?



विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jun 14, 2025, 4:15:21 AMJun 14
to चेतो-देव-जीवादि-तत्त्व-विचारः
श्रीमता रविलोचनेनेदम् प्रेषितम् - "some yrs ago when I contested the claims of S and N in fb ...  I think I was making a fairly sensible argument only. Not very tough to comprehend" इत्य् उक्त्वा। सर्वं चारु - हन्त ताभ्याम् महात्मभ्याम् तादृशैर् अन्यैश् चैतेषु वर्षेषु नैवाधिगतम् इति ज्ञायते। एतैर् बहुभ्यो दशकेभ्यः शाङ्करभाष्याण्य् अधीत्य तत्-"प्रचारश्" च क्रियमाणो ज्ञायते। न वेद्मि स्वगोष्ठाव् अस्य को प्रभाव इति - परेषु तु विनोदस्यैवाकरः।
--
--
Vishvas /विश्वासः

Reply all
Reply to author
Forward
0 new messages