आत्मनां सङ्ग्रहेणापर आत्मा?

44 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Dec 21, 2024, 2:51:26 AM12/21/24
to चेतो-देव-जीवादि-तत्त्व-विचारः
(bcc: मणिः, येन पुरा कदाचित् साम्प्रते संवादे mind-stuff-त आत्म-विवेकः काङ्क्षितः। )

को नाम आत्मा? (प्रत्यक्त्व-युक्तो विधिकल्प = self-aware algorithm इति रोचते सद्यः। )

प्रत्यक्त्वम्, आनुकूल्यम्, एकत्वम्, शरीराभिमानिता - इत्य् आत्मलिङ्गानि गृह्णीमश् चेत् बहु किमपि गृह्यते। यथा -

**कोशाख्यानि** (=cells) शरीराणि वर्तन्ते सात्मानि।  
तेषाम् एव **सङ्ग्रहेण** परस्-पर-सहकारेण च महत्-तरं शरीरम् अपि जायेत - मनुष्यादीनाम् इव।
अत्र तत्-तद्-आत्मानाम् अपि सङ्ग्रहेण महत्तर आत्मा जायते,
यस्य स्वीये बहुकोशके शरीरे तादृशम् एवाभिमानं यथैक-कोशस्य।
एकत्वानुकूलत्व-प्रत्यक्त्वादि-गुणास् तस्मिन्न् अप्य् आत्मनि बहु-कोश-शरीर-व्यापके दृश्यन्ते।
तादृशैक्यादि-गुण-विघटनेन हि बहु-कोशकस्य शरीरस्य "मृत्युर्" अभिज्ञायते -
यद्य् अपि तत्र तत्र कोशा जीवेयुः - एकत्वादि-लक्षण-लक्षितात्मवन्तः।

पुनर् बहु-कोशक-शरीराणाम् अपि **समाजस्**
तत्-स्तरे शरीरत्वम्, आत्मत्वं चाप्नुयात्।
यावद् एव +एकत्वानुकूलत्व-प्रत्यक्त्वादि-भावनास् तद्-घटकात्मसु बलवान्,
तावद् एव समाजस्यास्य सात्म-शरीरत्वं प्रतिष्ठितम्।  


भवतां कोऽभिप्रायः?


--
--
Vishvas /विश्वासः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Dec 21, 2024, 8:46:42 PM12/21/24
to Mani Varadarajan, चेतो-देव-जीवादि-तत्त्व-विचारः


On Sun, 22 Dec 2024 at 02:12, Mani Varadarajan <mani...@gmail.com> wrote:
भो: मान्य विश्वास! भवता नैयोगिकप्रक्रिया+अनुसर्यते इति भाति । अपि सम्यग् अवगतं मया?

नैयोगिकशब्दो नाधिगतः … साङ्गणक इत्य् अर्थः?

 
यदि चेत्, यथार्षसंप्रदायं, स्वानुभूति-मूलक-प्रक्रिया विमृष्टा किम्?


आम्।
प्रत्यक्त्वम्, आनुकूल्यम्, एकत्वम् इत्य् आत्मनो गुणाः सर्वैर् अप्य् अङ्गीक्रियन्ते प्रायेण (श्रीवैष्णवैर् अपि)। पुनर् अणुत्वे सति चेतनत्वम् आत्मलक्षणं मन्यते बुधाः। तत्त्वमुक्ताकलापादौ परेषाम् अपि विचाराः सङ्कलिता अवलोकिताः (अनुबन्धे दर्श्यन्ते)। किञ्च तेषु काश्चन समस्या वर्तन्ते - यथा शरीरात् कोशं निष्कास्य रक्षामश् चेत्, स जीवतीति व्यवहारः। किं तस्यात्मा न वर्तते? पुनस् ततो नूतनम् एव शरीरं निर्मातुं शक्यम् (cloning द्वारा)। कथं तत्रात्माविर्भवति?  

स्वानुभूतिस् त्व् इयत् (पूर्वोक्ताद् अधिकम्) - 

इदम् अन्तर् इदम् बाह्यम्
इति भेदाच् छरीरजात्।
स्व-स्वीय-रक्षणे जीव-
मूलासक्तिस् स्फुटा मयि॥

स्वरूप-स्थिति-वृत्तादौ
यतो भूयो नियाम्यता।
अ-नित्यं देह-लोकादि
नित्य-ब्रह्म-कलेवरम्।
तद्-भोगाय जगत् सर्वं
जीव-भोगो न साम्प्रतः।
तद्-भोगैक-रसो जीवो
नित्य-भोगी, न हीतरः॥ 
इति स्व-भाव–शस्त्राभ्यां
शेषत्वं शेष शिक्षय


अनुबन्धः - 

“इच्छा-द्वेष-प्रयत्न-सुख-दुःख-ज्ञानान्य् आत्मनो लिङ्गम्” इति गौतमः १.१.१० ।

तर्क-सङ्ग्रहे -

“ज्ञानाधिकरणम् आत्मा।
स द्विविधः - परमात्मा जीवात्मा च ।
तत्रेश्वरः सर्वज्ञः परमात्मैक एव ।
जीवः प्रतिशरीरं भिन्नो विभुर्नित्यश्च”

इति किञ्चित् पदार्थान्तरम् ऊचुः,
ज्ञानं तस्य गुण इति।
लाघवेप्सुषु नव्य-विज्ञान-प्रभावितेष्व् अस्मास्व् एवं प्रतीतिर् न जायते प्रायेण।
अन्येषु प्रतीतिस् तु तादृशी भवितुम् अर्हति।


चार्वाकास्तु -

“ब्राह्मणोऽहं, गौरोऽहं, स्थूलोऽहं, जानामी"त्य्-आदि सामानाधिकरण्य-प्रतीतेः
ब्राह्मणत्वादिधर्मवति शरीर एव ज्ञान-सुखाद्य्-आश्रयत्वं सिद्ध्यतीति
शरीरम् एवात्मा।
पञ्चभूतसङ्घाते सक्रियावस्थायां चैतन्याभास

इति।


अन्ये केचिन् मन-आत्म-वादिनः
मनः शरीरस्याभ्यन्तरवृत्तिर् एवेति तु वयम्।


अपरे प्राणात्म-वादिनः।
तन्मते - शरीरक्रिया एवात्मा।


बौद्धेषु योगाचारास् तु -

क्षणिक-विज्ञानम् एवात्मा (ततो ऽनात्मवादः) ।
तद् द्विविधं - प्रवृत्तिविज्ञानम् आलयविज्ञानं च।
“तत्रायं घट” इत्य्-आदि प्रवृत्तिविज्ञानं “सुषुप्ताव् अहम्” इत्-यालयविज्ञानम् ।
सुखादिकम् अस्यैव विकारः।

इति।

सौत्रान्तिकास् तु ज्ञानाकारानुमेय-क्षणिक-बाह्यार्थ एवात्मेतीच्छन्ति ।


वैभाषिका क्षणभङ्गुर-वादिनस् तु क्षणिक-बाह्यार्थ एवात्मेतीच्छन्ति।
अन्ये केचित् पुत्रनिभा सम्बन्धिन एवात्मेति।

एतादृश्यस् तु प्रतीतयो ऽल्पा इति वयम्।(5)


जैनमते -

“देहातिरिक्तो देहपरिमाण आत्मा,
स च दीप-प्रभावत् सङ्कोच-विकास-शाली”


सांख्याः, तद्-अनुसारिणः वेदान्त्य्-एकदेशिनश् च ज्ञानात्म-वादिनः ।
प्रत्यवमर्शात्मा, प्रकाशः, परा वाग् (प्रत्यय-युक्त्या अ-हम्!) इति त्रिक-शास्त्रेषु विरूपाक्ष-पञ्चाशिकायाम्।


जीवश् चैतन्यम् अणुर् ज्ञातृ-धर्म आत्मेति विशिष्टाद्वैतिनः।
(स्वस्मै स्वयम् इन्द्रियादि विना प्रकाशमानं ज्ञानमात्रम् आत्मेति युक्ति-मात्रावलम्बनेन लघुः,
तथापि श्रुत्य्-अनुरोधेन ज्ञानवान् धर्मीष्यते वेदान्तदेशिकादिभिः। )


Mani Varadarajan

unread,
Dec 21, 2024, 8:46:49 PM12/21/24
to विश्वासो वासुकिजः (Vishvas Vasuki), चेतो-देव-जीवादि-तत्त्व-विचारः
भो: मान्य विश्वास! भवता नैयोगिकप्रक्रिया+अनुसर्यते इति भाति । अपि सम्यग् अवगतं मया? यदि चेत्, यथार्षसंप्रदायं, स्वानुभूति-मूलक-प्रक्रिया विमृष्टा किम्?

On Fri, Dec 20, 2024 at 11:51 PM विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Dec 21, 2024, 9:16:51 PM12/21/24
to Mani Varadarajan, चेतो-देव-जीवादि-तत्त्व-विचारः
-शरीरय् आत्मनि प्रत्यक्त्वस्य कानि लिङ्गानि?  
स्व-शरीर-रक्षणे वृत्तिः, "इयन् मच्छरीरम्, इतो ने"ति च व्यवहारः। एतद् एक-कोशक-जीवेऽपि दृश्यते।

प्राचीन-काले कोश-विज्ञानं नावर्तत। Schleiden & Schwann इति शूल-पुरुष-बुधाभ्याम् अस्मद्-आदि-शरीराणां कोशैर् घटितत्वम् अवगतम्; ततः पश्चाद् एव शरीरगत-कोशस्य बही रक्षणम्, ततो बहुकोशशरीरादि-वर्धनं जातम्।

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jan 2, 2025, 12:20:58 AMJan 2
to चेतो-देव-जीवादि-तत्त्व-विचारः
https://en.wikipedia.org/wiki/Abby_and_Brittany_Hensel इत्यादयोऽपि द्विशिरस्कशरीराः प्रसिद्धा वर्तन्ते, येनैकस्मिन् शरीर एक एवात्मेति प्राचां मतं न तिष्ठेत्।

लोकेश

unread,
Jan 2, 2025, 10:08:59 PMJan 2
to चेतो-देव-जीवादि-तत्त्व-विचारः
> प्रत्यक्त्वम्, आनुकूल्यम्, एकत्वम्, शरीराभिमानिता - इत्य् आत्मलिङ्गानि

प्रत्यक्त्वं नाम किम्?

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jan 2, 2025, 11:32:11 PMJan 2
to लोकेश, चेतो-देव-जीवादि-तत्त्व-विचारः
On Fri, 3 Jan 2025 at 08:39, लोकेश <lokeshh...@gmail.com> wrote:
> प्रत्यक्त्वम्, आनुकूल्यम्, एकत्वम्, शरीराभिमानिता - इत्य् आत्मलिङ्गानि

प्रत्यक्त्वं नाम किम्?

**अजडत्वम्**/ **स्वयं-प्रकाशत्वं** च  
(इन्द्रिय-जन्यादि-)ज्ञानान्तरं विनैव भानम्।  

स्वस्मै स्वयम्-प्रकाशमानत्वं प्रत्यक्त्वम्। 

"अहम्"-प्रतीतिर् ईदृशी। 

 
--
You received this message because you are subscribed to the Google Groups "चेतो-देव-जीवादि-तत्त्व-विचारः" group.
To unsubscribe from this group and stop receiving emails from it, send an email to cheto-deva-jiv...@googlegroups.com.
To view this discussion visit https://groups.google.com/d/msgid/cheto-deva-jivadi/d1b43f5e-375f-4635-beb5-3e62d153e067n%40googlegroups.com.

लोकेश

unread,
Jan 3, 2025, 12:24:22 AMJan 3
to विश्वासो वासुकिजः (Vishvas Vasuki), चेतो-देव-जीवादि-तत्त्व-विचारः
धन्यवादः।

**कोशाख्यानि** (=cells) शरीराणि वर्तन्ते सात्मानि।

कोशः इति cell अर्थे प्रयुक्तः भवता। अहं चिन्तयामि जीवाणुः अधिकसम्यक् शब्दः भाति तस्मै। शब्दकाशे काशाख्यशब्दस्य cell इति अर्थः न दृश्यते।

सात्मनि इति सप्तमी-एकवचनप्रयोगो वा प्रथमा-बहुवचनप्रयोगः?

प्रथमाबहुचनप्रयोगश्चेत् जीवाणूनां प्रत्यक्त्वं न वर्तते। अतः आत्मत्वं कथं तत्र?

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jan 3, 2025, 12:39:49 AMJan 3
to लोकेश, चेतो-देव-जीवादि-तत्त्व-विचारः
On Fri, 3 Jan 2025 at 10:54, लोकेश <lokeshh...@gmail.com> wrote:
धन्यवादः।

**कोशाख्यानि** (=cells) शरीराणि वर्तन्ते सात्मानि।

कोशः इति cell अर्थे प्रयुक्तः भवता। अहं चिन्तयामि जीवाणुः अधिकसम्यक् शब्दः भाति तस्मै। शब्दकाशे काशाख्यशब्दस्य cell इति अर्थः न दृश्यते।

कोश = box, room (=cell), bucket इत्यादयोऽर्था वर्तन्ते। ते सङ्गच्छन्तेऽत्र। 
(cell membrane)-परिधियुक्तं किञ्चन पिण्डम् उच्यते खलु।  
जीवाणुशब्दो न रोचते - यतः, सूक्ष्मता तेन बुध्यते, न च क्वचित् तद् दृश्यते (यथा कुक्कुटाण्डय् एककोशविशेषे)। 
 
सात्मनि इति सप्तमी-एकवचनप्रयोगो वा प्रथमा-बहुवचनप्रयोगः?

अत्र भवता टङ्कनदोषः कृतः - सात्मानीति मया प्रयुक्तम्। 

 
प्रथमाबहुचनप्रयोगश्चेत् जीवाणूनां प्रत्यक्त्वं न वर्तते। अतः आत्मत्वं कथं तत्र?

अस्तीति ब्रुवे। यतस् स्व-रक्षा-प्रमुखस् तद्-व्यवहारस् तादृशः। स्फुटम् "इदम् अन्तः/मयि, इदम् बहिः" इति ज्ञानं तद्-व्यवहारेणानुमातुं शक्यम्।  

लोकेश

unread,
Jan 3, 2025, 12:57:49 AMJan 3
to चेतो-देव-जीवादि-तत्त्व-विचारः
अत्र भवता टङ्कनदोषः कृतः - सात्मानीति मया प्रयुक्तम्। 

सत्यम्। भ्रमितः अभवम्। 

जीवाणुशब्दो न रोचते - यतः, सूक्ष्मता तेन बुध्यते, न च क्वचित् तद् दृश्यते (यथा कुक्कुटाण्डय् एककोशविशेषे)। 

अणुशब्देन सूक्ष्मता बुध्यते ननु।

विज्ञानपाठ्यक्रमे हिन्दीभाषया जीवाणु इति शब्दः प्रयुज्यते। तर्हि मम पूर्वपरिचयः अनेन शब्देन।

कोश अपि सम्यक् स्यात्। समस्या नास्ति।

अस्तीति ब्रुवे। यतस् स्व-रक्षा-प्रमुखस् तद्-व्यवहारस् तादृशः। स्फुटम् "इदम् अन्तः/मयि, इदम् बहिः" इति ज्ञानं तद्-व्यवहारेणानुमातुं शक्यम्।  

मम अवगमनं भिन्नम्। जीवाणुः जडवत् कार्यं करोति। तस्य किमपि ज्ञानं नास्ति। सर्वं रसायनैः (chemicals) नियन्त्रितः भवति। 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jan 3, 2025, 1:06:49 AMJan 3
to लोकेश, चेतो-देव-जीवादि-तत्त्व-विचारः
On Fri, 3 Jan 2025 at 11:27, लोकेश <lokeshh...@gmail.com> wrote:

अस्तीति ब्रुवे। यतस् स्व-रक्षा-प्रमुखस् तद्-व्यवहारस् तादृशः। स्फुटम् "इदम् अन्तः/मयि, इदम् बहिः" इति ज्ञानं तद्-व्यवहारेणानुमातुं शक्यम्।  

मम अवगमनं भिन्नम्। जीवाणुः जडवत् कार्यं करोति। तस्य किमपि ज्ञानं नास्ति। सर्वं रसायनैः (chemicals) नियन्त्रितः भवति। 

भवच्छरीरस्य किं न रसैर् नियन्त्रणम्? यथैव कोशः कार्यं साधयति, तथैव कोशसमूहो भवान्। यथा भवति ज्ञानं परमाणु-घटितम्, तथैव कोशे। 
भवान् यदा वर्णान् विन्यस्यति कागदे - हन्त तत्रापि परमाणुविन्यासविशेषो हि (तद्-भाषानुरोधेन) "ज्ञानम्"। 

 

लोकेश

unread,
Jan 3, 2025, 1:22:38 AMJan 3
to चेतो-देव-जीवादि-तत्त्व-विचारः
भवच्छरीरस्य किं न रसैर् नियन्त्रणम्?

यदि मम हस्तः शरीरात् भिन्नः अभविष्यत् तदा तत्र मम हस्त एवम् न चन्तयेत् यत् अहं शरीराद् भिन्नः अभवम्। किन्तु मस्तिष्क अवश्यं चिन्तयेत् यत् मम हस्तः कर्तितः। अनेन मस्तिष्के प्रत्यक्त्वम् अवश्यं सिध्यति परन्तु हस्ते न।

भवान् यदा वर्णान् विन्यस्यति कागदे - हन्त तत्रापि परमाणुविन्यासविशेषो हि (तद्-भाषानुरोधेन) "ज्ञानम्"। 

अस्य अभिप्रायो न अज्ञासिषम्।

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jan 3, 2025, 2:56:16 AMJan 3
to लोकेश, चेतो-देव-जीवादि-तत्त्व-विचारः
On Fri, 3 Jan 2025 at 11:52, लोकेश <lokeshh...@gmail.com> wrote:
भवच्छरीरस्य किं न रसैर् नियन्त्रणम्?

यदि मम हस्तः शरीरात् भिन्नः अभविष्यत् तदा तत्र मम हस्त एवम् न चन्तयेत् यत् अहं शरीराद् भिन्नः अभवम्। किन्तु मस्तिष्क अवश्यं चिन्तयेत् यत् मम हस्तः कर्तितः। अनेन मस्तिष्के प्रत्यक्त्वम् अवश्यं सिध्यति परन्तु हस्ते न।

भवान् प्रत्यक्त्वं वाचा व्यक्तं स्याद् इति मन्यते - यत्र "अहं", "मम" इति शब्दैर् वाक्यरचना स्यात्, तत्र प्रत्यक्त्वम् इति । 
किञ्च, मूके गवि शुनि वा का गतिः? तस्य वाक्यरचना न भवति। किञ्च, तद्-व्यवहारेण तु "अहं", "मम" +इति ज्ञानं किञ्चिद् अस्तीत्य् अनुमामः। न खलु वाग्व्यवहार एव व्यवहारः।  
एवम् एव, यत्र परस्पर-सहकारेण स्व-स्वीय-रक्षादि-व्यवहारो दृश्यते, तत्र तत्र प्रत्यक्त्वम् अस्तीति विज्ञेयम्। 
शरीरात् शरीरं नीयमाने हृदये नेत्रे वाप्य् अस्तीति तेन ज्ञायताम्। ननु सूक्ष्मकृमिभिर् आक्रान्ते, तत्राल्पापि प्रतिक्रिया दृश्येत। 

भवान् यदा वर्णान् विन्यस्यति कागदे - हन्त तत्रापि परमाणुविन्यासविशेषो हि (तद्-भाषानुरोधेन) "ज्ञानम्"। 

अस्य अभिप्रायो न अज्ञासिषम्।

कोशेषु, बहुकोशेषु शरीरेषु, कागदे, सङ्गणकयन्त्रे - सर्वत्र ज्ञानस्य वाक्यबद्धता सजातीयैवेति। 


 

लोकेश

unread,
Jan 3, 2025, 3:19:10 AMJan 3
to चेतो-देव-जीवादि-तत्त्व-विचारः
भवान् प्रत्यक्त्वं वाचा व्यक्तं स्याद् इति मन्यते - यत्र "अहं", "मम" इति शब्दैर् वाक्यरचना स्यात्, तत्र प्रत्यक्त्वम् इति । 

वाग्व्यवहारात् प्रत्यक्त्वं नेष्टं मया किन्तु चिन्तनात्। मस्तिष्के चिन्तनं संभवति न तु हस्ते।


कोशेषु, बहुकोशेषु शरीरेषु, कागदे, सङ्गणकयन्त्रे - सर्वत्र ज्ञानस्य वाक्यबद्धता सजातीयैवेति। 

वाक्यस्य तात्पर्यम् अज्ञासिषम् अधुना। धन्यवादः। किन्तु अस्य प्रकृते कथम् अन्वय इति अत्र अधुनापि संशयः। कागदे अक्षराकाराः सन्ति। तस्मात् अपरमनुष्यस्य ज्ञानविशेषः संभवति। सत्यम्। किन्तु तस्मात् कागदः चेतनः न भवति। 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jan 3, 2025, 4:56:45 AMJan 3
to लोकेश, चेतो-देव-जीवादि-तत्त्व-विचारः
On Fri, 3 Jan 2025 at 13:49, लोकेश <lokeshh...@gmail.com> wrote:
भवान् प्रत्यक्त्वं वाचा व्यक्तं स्याद् इति मन्यते - यत्र "अहं", "मम" इति शब्दैर् वाक्यरचना स्यात्, तत्र प्रत्यक्त्वम् इति । 

वाग्व्यवहारात् प्रत्यक्त्वं नेष्टं मया किन्तु चिन्तनात्। मस्तिष्के चिन्तनं संभवति न तु हस्ते।

किंरूपम् इदं चिन्तनं यद् अनुमिनोति कृमिणि, पशौ वा?
जलम्। पिबामि। दण्डधरः। धावामि। 

एवं कृत्ते ऽपि कोशे कुतो नानुमीयते? - 
आहारः। अन्तः प्रवेशयामि। मलम्। बहिर् नुदामि। द्विर् भवामि। 

(विकृत्ते कोशसङ्ग्रहे सम्भूय घटिता ऽहन्ता वर्तते न वेति विचारः पश्चाद् भवतु।) 

 
कोशेषु, बहुकोशेषु शरीरेषु, कागदे, सङ्गणकयन्त्रे - सर्वत्र ज्ञानस्य वाक्यबद्धता सजातीयैवेति। 

वाक्यस्य तात्पर्यम् अज्ञासिषम् अधुना। धन्यवादः। किन्तु अस्य प्रकृते कथम् अन्वय इति अत्र अधुनापि संशयः।

"तस्य किमपि ज्ञानं नास्ति। सर्वं रसायनैः (chemicals) नियन्त्रितः भवति। " इति कोशविषये भवल्लेखितं निराकर्तुम् इदम्। अस्त्येव ज्ञानं तत्रापीति सङ्गतिः। 

 
कागदे अक्षराकाराः सन्ति। तस्मात् अपरमनुष्यस्य ज्ञानविशेषः संभवति। सत्यम्। किन्तु तस्मात् कागदः चेतनः न भवति। 

बाढम् - ज्ञानाश्रयत्वे सत्य् अपि प्रत्यक्त्वं नानुमातुम् उपलभ्यत इति। 


 

लोकेश

unread,
Jan 3, 2025, 5:29:53 AMJan 3
to चेतो-देव-जीवादि-तत्त्व-विचारः
"तस्य किमपि ज्ञानं नास्ति। सर्वं रसायनैः (chemicals) नियन्त्रितः भवति। " इति कोशविषये भवल्लेखितं निराकर्तुम् इदम्। अस्त्येव ज्ञानं तत्रापीति सङ्गतिः। 

निराकरणं कथम् अभवदत्र? त्वं स्वयम् अग्रे स्वीकारम् अकार्षीः - "बाढम् - ज्ञानाश्रयत्वे सत्य् अपि प्रत्यक्त्वं नानुमातुम् उपलभ्यत इति।" इत्यनेन।


किंरूपम् इदं चिन्तनं यद् अनुमिनोति कृमिणि, पशौ वा?

कः अनुमिनोति? 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jan 3, 2025, 5:51:29 AMJan 3
to लोकेश, चेतो-देव-जीवादि-तत्त्व-विचारः
On Fri, 3 Jan 2025 at 15:59, लोकेश <lokeshh...@gmail.com> wrote:
"तस्य किमपि ज्ञानं नास्ति। सर्वं रसायनैः (chemicals) नियन्त्रितः भवति। " इति कोशविषये भवल्लेखितं निराकर्तुम् इदम्। अस्त्येव ज्ञानं तत्रापीति सङ्गतिः। 

निराकरणं कथम् अभवदत्र? त्वं स्वयम् अग्रे स्वीकारम् अकार्षीः - "बाढम् - ज्ञानाश्रयत्वे सत्य् अपि प्रत्यक्त्वं नानुमातुम् उपलभ्यत इति।" इत्यनेन।

ज्ञानाभावो ननु निराकृतः? कागदे प्रत्यक्त्वं नास्तीत्येवोक्ते, ज्ञानाभावो नोक्तः खलु?

 

किंरूपम् इदं चिन्तनं यद् अनुमिनोति कृमिणि, पशौ वा?

कः अनुमिनोति? 


भवान् इत्य् अध्याहार्यम्। यः कश्चित् तत्-समर्थ इति वा। 


विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Mar 31, 2025, 12:39:02 PMMar 31
to चेतो-देव-जीवादि-तत्त्व-विचारः
अथवा प्राणात्म-वादोऽयम्। शास्त्रीयात्मनय् अवकाशं कल्पयितुम् अपरः प्रयासः - 

किञ्च, शास्त्र-ज्ञेयो जीवात्मेति पृथग् अस्माद् विद्यते।
स हि शाश्वत उच्यते, शरीर-धारक इति च।

तद्-अवकाशः

किञ्च शरीर-चालने क्वास्यावकाशः,
यतः शरीराभिमानान्ता बुद्धि-पूर्वका व्यापारास्
तं विनैव सिद्ध्यन्ति
यन्त्र-चालिता पुत्तलिकेव?
तत्रोच्यते -
यद् ब्रह्माण्ड-गत-क्रियास्व् अनिश्चितता (randomness) काचित् प्रत्यक्षादिसिद्धा,
तस्यास् सूक्ष्म प्रभावणे ऽस्त्य् अवकाश आत्मनः।
अयं हस्त-क्षेपः शास्त्रोक्तः प्रमाणान्तरैर् नैतावन् निराकृतः।
तत्र दृष्टान्ताः -

यथा हस्ति-चालको ऽस्व-रुहो वा
स्व-वाहनं न पदे पदे प्रेरयति -
“स्व-पादम् अग्रे निधेहि।”, “सद्यः खाद”, “पिब”, “श्वस” इत्यादिभिः,
प्रत्युत कदाचिद् एव सफलम् आदिशति,
यथा - “वेगं वर्धय”, “उपविश” इत्यादीभिः
तथा ऽऽत्मनः शरीरे बुद्धिमति प्रभावः।

२०२५ इति वर्षे विमानानि वाहनानि च बहूनि
प्रायेण स्वत एव चाल्यन्ते स्म (autopilot-विधिना),
यत्र चालक-हस्त-क्षेपो प्रायेण नापेक्षितः।
किञ्च तदा तदा स्थूलान् मार्ग-परिवर्तनादीन् आदेशान् चालको दातुं शक्नोति स्म। एवम् आत्मनः शरीरे बुद्धिमति प्रभावः।


कथं शात्रीय आत्मा
प्राणान् प्रभावयेत्?

इति चेत्,
अभौतिकान्य् आहङ्कारिकानीन्द्रियाण्य् उक्तानि शास्त्रेषु।
तद् आधारेण +ऽऽत्मनो ऽस्य ज्ञान-क्रियाः।

एवं भौतिक-शरीरान् निष्क्रमणे प्रयुज्यमानं
सूक्ष्मं शरीरम् अभौतिकम् अपि शास्त्रोक्तं गृह्यताम्।


Reply all
Reply to author
Forward
0 new messages