अत्र भवद्-अभिप्रायाणां स्वागतम् -
ज्ञानस्य करणानि -
अदुष्टं प्रत्यक्षम्, ऊहः, अनुमानं चेति।
अनुमानम् पूर्व-द्वयम् एवोत्थम्भयतीति न तावत् पृथग् गणना।
जीवान्तर-प्रयुक्तानीमानि तद्-वाग्-आदिभिर् लभामहे।
केचन जीवा विशिष्यैषु कुशलाः - स्वभावतो दैवतो वा।
तद् इदं विश्वस्त-सम्प्रदाय इति ज्ञान-करणान्तरं गण्यताम् - वस्तुतः पूर्वोक्तानाम् एव प्रकारान्तरम्।
अस्य नामान्तरेषु - शब्द, आप्त-वचनम्।
अनुमानस्य स्वयं साधयितुम् बहुदा शक्यत्वात्,
प्रत्यक्षय् ऊहे च विशिष्योपकरोति विश्वस्त-सम्प्रदायः।
प्रत्यक्ष-प्रमाणे स्वानुभूतयः **उपलब्धि**-शब्द-वाच्या अपि गृह्यन्ते।
स्वप्न-योगि-दृष्ट्य्-आद्य् ऊहे ऽन्तर् भवति।
ऊहम् अपि कामं प्रत्यक्षे ऽन्तर्भावयेत्,
यद्य् अपि स परेषां प्रत्ययाय न स्यात्तराम्।
एवम् अनुमान-शब्दयोस् तन्-मूलकत्वात् स्व-तन्त्र-प्रमाणत्वं नास्ति ।
किञ्च, प्रत्यक्षम् अप्य् अदुष्टं स्यात्।
ततो ज्ञान-प्राप्तौ (न तु सत्-कार्यान्तरेषु) -
रुद्राक्षाद्य्-आविर्-भावनाद्य् ऐन्द्रजालिकं "प्रकट-विद्या"ख्यं वा नेत्रादि-वञ्चनम् वारणीयम्।