अत्र पद्यबन्धः कश्चन - इतो ऽपि परिष्कार्यम् https://vishvasa.github.io/kAvyam/laxyam/padyam/vishvAsaH/saMyamaH/sharIra-sharIri-bhAvaH/
जीव-भोगो न साम्प्रतः।
तद्-भोगैक-रसो जीवो
नित्यभोगी, न हीतरः॥
इति स्व-भाव–शस्त्राभ्यां (→पूर्वनिपातः साभिप्रायः)
On Sun, 25 Jun 2023 at 12:16, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:अत्र पद्यबन्धः कश्चन - इतो ऽपि परिष्कार्यम् https://vishvasa.github.io/kAvyam/laxyam/padyam/vishvAsaH/saMyamaH/sharIra-sharIri-bhAvaH/इत्थं संयुक्तम् -तद्-भोगाय जगत् सर्वंजीव-भोगो न साम्प्रतः।
तद्-भोगैक-रसो जीवो
नित्यभोगी, न हीतरः॥इति स्व-भाव–शस्त्राभ्यां (→पूर्वनिपातः साभिप्रायः)
शेषत्वं शेष(→रामानुजोऽपि) शिक्षय॥
सृष्टिर् देवानां मूलभूतं कर्म।
जीव-साधरणेन, जड-वस्तुभिर् इव लीला-रसम् आप्तुम् इच्छन्ति देवाः।
यथा व्याघ्रे व्याघ्रत्वम् आविर्-भाव्य
तद् आस्वादयन्ति।
पुनर् मनुष्येषु बुद्धिमत्सु विशिष्टापेक्षा भवन्ति - मानुषौन्नत्यम् इत्यादि।
काश्चनाकृतीर् न स्वयम् एव साक्षाद् उत्पादयति देव-गणः स्व-सृष्टौ -
अपि तु जीवैर् उत्पादयति।
यथा -
विचित्र-नीडं सीवक-पक्षिणः,
मनुष्यकृतानि द्यौर्यानं, सङ्गणकम्, ग्रन्थाः, trans-uranium अणवः,
सर्पस्य सर्पणम्, उदात्त-चरितानि च राम-निभेषु, नृत्य-गीतादि ।
एवं देवापेक्षा जीवेषु तादृश-विशिष्टाकृत्य्-उत्पत्तिर् अपीति गृहीतव्यम्।
ऋत-नियमानां सङ्क्षेपो विस्तारश् च स्व-वाक्यैर् निबध्नन्ति जीवा अबुद्धिमन्तोऽपि -
स्वमस्तिष्कादौ व्यापारेषु च लेखितानि काव्यानीव।
यथा ध्वनि-तरङ्गैश् चर्म-चटेन वस्तु-विन्यासावगतिः,
कैश्चन षट्-पदैर् अतिनील-वर्ण-वीक्षणम्,
कवि-कृत-सुभाषितानि च
तत्-तज्-ज्ञेष्व् अपि मनुष्येषु वस्मयं जनयति, तद्वद् देवेष्व् अपि।
एवं सङ्कुचितम् अपि यथार्थ-बुद्धि-मात्रम् अपि देवैर् भोग्यम् भवति।
अत्र मनुष्या विशिष्टाः -
न च खलु क्षुद्र-जन्तवो ब्रह्माण्ड-सूक्ष्माणि सुपरीक्षित-विचारैक-गम्यानि बोद्धुं शक्नुवन्ति,
यद्य् अपि मनुष्येभ्यो ऽगोचरान् शब्द-गन्ध-रूपादीन्
ते ऽबुद्ध्वाऽपि भगवत्-परत इव संगृह्णन्ति।