परमतानां तत्-तत्-स्थाने ऽङ्गीकारः

11 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Mar 1, 2023, 8:05:37 PM3/1/23
to Hindu-vidyA हिन्दुविद्या, cheto-de...@googlegroups.com
परमतानाम् सीमितो ऽप्य् अङ्गीकारो दृश्यते प्राचीनेषु। तेषाम् अस्मिन् सूत्रे सङ्ग्रहो ऽस्तु।

साङ्ख्यं योगः पञ्चरात्रं
वेदाः पाशुपतं तथा ।
आत्मप्रमाणान्येतानि
न हन्तव्यानि हेतुभिः


(म. भा. शा. ३५०-६३) ॥ इति श्रीभाष्यकारेण रामानुजेन +उच्यत इति ज्ञायते 9:18 इत्यस्मात्। तत्रैव तेनैव "अनुक्तम् अविरुद्धम् अन्यतो ग्राह्यम्" इत्यपि न्यायः प्रयुक्त इति ज्ञायते।

शाङ्करा एवं वदन्ति -

> 'स्वसिद्धान्त-व्यवस्थासु  
> द्वैतिनो दृढनिश्चयाः ।  
> परस्परं विरुद्ध्यन्ते,  
> तेनायं न विरुद्ध्यते ॥' (मां. का. 3-17)

(अन्तिमपादे तु वरदाचार्यः  - "परं तु, 'भावाभावौ निषेद्धुं तद्-उभय-विधिवद् व्याहतत्वाद् अशक्यम्' इति न्यायेन भेदाभेदयोः  परस्पराभाव-रूपत्वेनान्यतरेणान्यतर-निषेधासंभवात् (नैवम्)")

अभिनवगुप्तः -

**शास्त्रं** च **परमेश्वर-भाषितम्** एव प्रमाणम्  -  
अपर-शास्त्रोक्तानाम् अर्थानां तत्र वैविक्त्येन +++(अस्माभिः शैवैर्)+++ +अभ्युपगमात्,  
तद्-अर्थातिरिक्त-युक्ति-सिद्ध-निरूपणाच् च।

(तत्र मुकुन्दरामः - "अपर-शास्त्रोक्तानाम् अर्थानां = बौद्ध-वैष्णवादिभिः स्वस्वाम्नायेष्व् अनुशिष्टानाम् । ते च +अर्था अपरशास्त्रोक्ता बौद्ध-वैष्णवादि-शास्त्राभिहिताः।")


एवम् अन्यान्य् अपि वाक्यानि ज्ञातानि चेत् सूचयन्तु।


--
--
Vishvas /विश्वासः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Mar 1, 2023, 8:34:42 PM3/1/23
to Ramanujachar P, cheto-de...@googlegroups.com, Hindu-vidyA हिन्दुविद्या
साधु ज्ञापितम् 🙏

On Thu, 2 Mar 2023 at 06:53, Ramanujachar P <ramanu...@gmail.com> wrote:
प्रज्ञा विवेकं लभते भिन्नैरागमदर्शनैः । कियद्वा शक्यमुन्नेतुं स्वतर्कमनुधावता ॥
इति भर्तृहरिः वाक्यपदीये ।

--
You received this message because you are subscribed to the Google Groups "Hindu-vidyA हिन्दुविद्या" group.
To unsubscribe from this group and stop receiving emails from it, send an email to hindu-vidya...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/hindu-vidya/CAFY6qgGm34Z%2BN70AtL0aO4H0Vtmnh60bsSGGb-NtTMvfyjgnQg%40mail.gmail.com.


--
Dr. P. Ramanujan
Parankushachar Institute of Vedic Studies (Regd.)
Bengaluru

V Subrahmanian

unread,
Mar 2, 2023, 12:51:19 AM3/2/23
to विश्वासो वासुकिजः (Vishvas Vasuki), Ramanujachar P, cheto-de...@googlegroups.com, Hindu-vidyA हिन्दुविद्या
'परमतम् अप्रतिषिद्धं अनुमतम् भवति' इति       न्यायशास्त्रवाक्यं अद्वैते अङ्गीकृतम्  सूत्रभाष्ये।

अस्य उदाहरणानि अपि प्रस्थानत्रयभाष्ये वाक्यानि सन्ति यत्र तन्मतनामकथनपूर्वकम् तत्प्रमेयांगीकार: ।

You received this message because you are subscribed to the Google Groups "चेतो-देव-जीवादि-तत्त्व-विचारः" group.
To unsubscribe from this group and stop receiving emails from it, send an email to cheto-deva-jiv...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/cheto-deva-jivadi/CAFY6qgGUcx_FaOTM8x9o-aXQ3iHgo0nXO8JRgnTT4mXDtduMmQ%40mail.gmail.com.

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Mar 2, 2023, 2:15:22 AM3/2/23
to Hindu-vidyA हिन्दुविद्या, cheto-de...@googlegroups.com
On Thu, 2 Mar 2023 at 06:34, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:
 
शाङ्करा एवं वदन्ति -

> 'स्वसिद्धान्त-व्यवस्थासु  
> द्वैतिनो दृढनिश्चयाः ।  
> परस्परं विरुद्ध्यन्ते,  
> तेनायं न विरुद्ध्यते ॥' (मां. का. 3-17)

(अन्तिमपादे तु वरदाचार्यः  - "परं तु, 'भावाभावौ निषेद्धुं तद्-उभय-विधिवद् व्याहतत्वाद् अशक्यम्' इति न्यायेन भेदाभेदयोः  परस्पराभाव-रूपत्वेनान्यतरेणान्यतर-निषेधासंभवात् (नैवम्)")


image.png
इति पुनर् एतद् वाक्यं परामृष्टम्।

तत्र "अन्यतरेणान्यतर-निषेधासंभवात् " इत्यस्य स्थाने "अन्यतरेणान्यतरानिषेधासंभवात् " इति शोधनं युज्यतय् इति भाति। भवतां को ऽभिप्रायः?

 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jan 3, 2024, 8:55:43 AM1/3/24
to Hindu-vidyA हिन्दुविद्या, cheto-de...@googlegroups.com
शैवागमानुसारिणो भिन्नैर् दर्शनैर् जीवानां भिन्न-स्तरीयोत्क्रान्तीर् अङ्गीकुर्वन्तीति ज्ञायते। 
किञ्च क्वचित् "**कौल-यामलादि-शास्त्राणां** हिंसा-मैथुन-सङ्गमस्य सम्भवात्  
**पिशाचादि-पद-प्राप्तिः** स्यात्।" इत्य् अप्य् उक्तम्!

On Thu, 2 Mar 2023 at 06:34, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Mar 11, 2025, 1:55:27 AMMar 11
to Hindu-vidyA हिन्दुविद्या, cheto-de...@googlegroups.com
रामानुजः - 

*yogapāśupatayoś ceśvarasya kevalanimittakāraṇatā, parāvaratattvaviparītakalpanā, vedabahiṣkṛtācāro nirākṛtaḥ; na yogasvarūpam, paśupatisvarūpaṃ ca*/ *ataḥ ‘sāṅkhyaṃ yogaḥ paṃcarātraṃ vedāḥ pāśupataṃ tathā*/ *ātmapramāṇāny etāni na hantavyāni hetubhiḥ’ iti tattadabhihitatattat-svarūpamātram aṅgīkāryam; jinasugatābhihitatattvavat sarvaṃ na bahiṣkāryam ity ucyate*/

And in Yoga and Pāśupata, it is the Lord’s being merely the instrumental cause \[of creation\], the contradictory notions regarding the true essence of the totality of existence, and the conduct outlawed by the Veda that are rejected. It is not \[that\] Yoga and Paśupati \[are rejected\] *per se*. Thus it is said, ‘Sāṃkhya, Yoga, Pañcarātra, the Vedas, and Pāśupata: these are the valid means of knowledge with regard to *ātman*, and they cannot be destroyed by logical arguments.’ \[Therefore\] the bare essentials of each of the \[world-views\] set forth in these various \[systems\] are to be accepted. It is said \[therefore\] that not everything \[in these systems\] is to be rejected, as is the case with the \[schemes of\] reality set forth by the Jina and the Buddha.” \( *Śrībhāṣya* 334.18-335.2\)
Reply all
Reply to author
Forward
0 new messages