प्रस्थानत्रयभाष्यकर्तृत्वं शङ्करकृतम् इति निर्विवाद-प्रायम्।
श्वेताश्वतरोपनिषद्-भाष्यं शङ्करकृतम् इत्यत्र विश्वासो नास्ति।
एवं नृसिंहतापिन्युपनिषदि।
Btw, none of the immediate disciples have quoted any stotra of Bhagavadpada. Even the commentary claimed to be written by Suresvara on Dakshinamurthy stotram was first cited only in the 13th century or later and not before. So, there is no solid evidence for Sankara being the author of any of the stotras attributed to him (be it this or Bhaja Govindam or the laharis or bhujangams). There is only a Vishnu stava supposedly written by Sankara to make his mother reach Vaikuntha on her death - which seems to be referred before even 11th century in kerala, the state of his birth. Interestingly this stava is recited by mallu Hindus on the antima dina of pitrkarma post death.
- रविलोचनः
प्रपञ्चसाराख्यो ग्रन्थः शङ्करविरचित इत्य् आग्रहो हास्यस्थानम्, प्रामाणिकैश् शाङ्करैर् अपि तिरस्कृतः। येन
“यजन्ते पूजयन्ति सात्त्विकाः सत्त्वनिष्ठाः देवान्; यक्षरक्षांसि राजसाः; प्रेतान् भूतगणांश्च सप्तमातृकादींश्च अन्ये यजन्ते तामसाः जनाः॥”
इति गीताभाष्ये स्पष्टं लिखितम्, तेन प्रपञ्चसारो रचित इति मूढो मन्येत।
Arthur Avalon (TW) प्रभृतयो बहुशतमानोभ्योऽनन्तरं वर्तमानानां वचनान्य् अवलम्बतय् इति न तन्-न्याये विश्वासो जायते।
यदि स्वीकृतम्, अन्योक्तरीत्या शङ्करेण भाष्यादि बौद्धादिमोहनाय रचितम्, तस्यान्तरङ्गो ऽभिप्रायो ऽन्यत्र ज्ञेय इति फलति।
यो भगवद्गीताभाष्ये न क्वापि तादृशान् विष्णुपारम्यवादनिन्दनश्लोकान् प्रादर्शयत्, स विष्णुसहस्रनामभाष्योपक्रमे तथा चेष्टितुम् आरभत इति किञ्चिद् अविस्रम्भास्पदम्।
“कं जलं रश्मिभिः पिबन् कपिः” इति व्याख्यानं विद्यते।
तद् भट्टभास्करस्यारण्यकभाष्यम् अनुसरति, रामानुज-प्रथितं च।
शङ्करेण च्छान्दोग्योपनिषद्-भाष्ये तद् उपेक्ष्यान्यथैव व्याख्यातम्।
--
You received this message because you are subscribed to the Google Groups "Hindu-vidyA हिन्दुविद्या" group.
To unsubscribe from this group and stop receiving emails from it, send an email to hindu-vidya...@googlegroups.com.
To view this discussion visit https://groups.google.com/d/msgid/hindu-vidya/CAFY6qgFRuSbrqQuh_B9D1izA0A4B5G9qSt5fFtCb5caETNBMhg%40mail.gmail.com.