Source: [TW](https://vriitrahan.wordpress.com/2020/12/11/nilaka%E1%B9%87%E1%B9%ADha-somayaji-s-wisdom/)
> पञ्चसिद्धन्तास् तावत्
क्वचित्काले प्रमाणम् एव इत्य् अवगन्तव्यम् ।
अपि च यः सिद्धान्तः दर्शनाविसंवादी भवति
सोऽन्वेषणीयः ।
दर्शन-संवादश् च
तदानीन्तनैः परीक्षकैः
ग्रहणादौ विज्ञातव्यः ।
> “The 5 siddhānta-s till now were authoritative in some time indeed. Such a thing must be understood. [althought they might not be authoritative now] And the siddhānta that is uncontradictory to observation, that must be sought for. And then the conformity of observation must be verified by the succeeding [contemporary] examiners in the beginning of eclipses.”
> गणितोन्नीतस्य चन्द्रादेः देश-विशेषान्वयस्य प्रत्यक्षेण संवादः ,
ततो निश्चितान्वयस्य परस्य गणित-लिङ्गोपदेशः ,
ततस् तस्याप्तोपदेशावगतान्वयस्य अनुमानं संवादः ,
परस्मै चोपदेशः इति सम्प्रदायाविच्छेदात् प्रामाण्यम् ।
> “The correlation of the calculated Moon and others, with actual observation at a particular place, the revision of calculation on the basis of such correlation, logical inference therefrom being transmitted as tradition, it being again correlated [with observation and again revised] and communicated down to others—this is how tradition is continued without interruption, and hence its [continued] authoritativeness.”
अनुमानं प्रवर्तमानं
विशेषतो दृष्टं वा
सामान्यतो दृष्टं वा ।
नाद्य इत्याह चन्द्रेति ।
चन्द्र-बिम्ब-पर-भागादिषु व्यवधान-विप्रकर्षादिभिर् अस्मद्-आदीन्द्रिय-ग्रहणानर्हेषु नानुमानम्
व्यवधानं - तिरोहितत्वम् ।
विप्रकर्षः - दूरस्थत्वम् ।
चन्द्रबिम्बस्य पर-भागः
दृश्यमानाद् अन्यः पश्चाद्भागः कश्चिद् अस्तीति मत्यां सत्याम् अपि
तत्रत्य-विशेषा नानुमातुं शक्या
इति भावः ।
तस्य पक्षाश्रय--हेतु-धर्म--व्यापकान्वय-मात्रातिरिक्तेषु प्रवृत्त्य्-अयोगात्,
पक्षेति ।
पक्षरूपो य आश्रयः,
हेतुरूपो यस्तद्धर्मः,
व्यापकेन साध्येन सह तस्यान्वयो यः,
तद्-अतिरिक्तेषु न प्रवृत्तिः;
व्याप्ति-पक्ष-धर्मत्वोभय-विशिष्ट-हेतु-साध्य-साधकत्वम् एव तस्येति भावः ।
न द्वितीय इत्याह - साध्यसामान्यस्येति ।
साध्य-सामान्यस्य तु
विवक्षित-विशेष-विरुद्ध-व्याप्तत्वेन तद्-आकर्षकत्वायोगात् ।
विवक्षित-विशेष-विरुद्धेति ।
सामान्य-मुख-व्याप्त्या सामान्यम् एव सिध्येत् ।
करण-सामान्ये
शर-परशु-कलशादौ उपलभ्यमानाः विशेषाः
भवद्-अभिमत-विशेष-विरुद्धाः ।
"अयं विधिः", "अयम् अर्थः", "इदं कर्मैवं रूपम्", "इयम् अत्र देवता", "इदं द्रव्यम्", "अयम् अत्राधिकारी", "इयम् इतिकर्तव्यता" इत्यादि स्व-बुद्ध्या निश्चिनुयात् ।
व्याख्यातॄणां मतभेदाद् +धेतून् निरूपयेद् - "अस्य सम्यग् ज्ञानम्, अस्य भ्रान्तिर्" इति ॥ ४.९२ ॥
(स्रोतः - https://x.com/sharmasatyan/status/1876857407256539647)
Or, in connection with the ritualistic section of the Veda also, he should ponder over the real meaning of the texts; that is, in his own mind he should determine that ‘this is an Injunction,’ ‘this its meaning;’ ‘this the action prescribed,’ ‘this is the form of the act,’ ‘this is the Deity of this sacrifice,’ ‘this the material to be employed,’ ‘such and such a person is entitled to its performance,’ ‘such and such is the procedure to be adopted,’ and so forth. He should also ponder over the diverse explanations provided by the Commentators, and with the help of reason, he should decide whose explanation is correct and whose wrong.
> “परश्-शत-परिक्षोदात्
> परस्ताद् अपि वादिभिः ।
> **उपलम्भ**-बले **स्थेयं**
> किम् आदौ तन् न **गृह्यते**॥"
(वेङ्कटनाथः न्यायसिद्धाञ्जनम् जड. परि. ४)
> प्रत्यक्षेणानुमित्या वा
यस् तूपायो न बुध्यते।
तं विदन्ति तु वेदेन
तस्माद् वेदस्य वेदता ॥
शिष्योऽपि पूर्वपक्षस्थस्तदेवात्ममतं ब्रूवन् ।
नैव दुष्यत्यसत्येन स्थिरत्वार्थं हि तद्वचः ॥
"When a student presents an opponent's argument (Purvapakṣa) as his own [even challenging his Guru], he is not at fault and commits no sin. In fact, [his words serve a higher purpose, for the stronger the objection raised, the more powerful and comprehensive the refutation must be] thus serving the very purpose of making the Siddhanta exceptionally firm and unshakable"
~Bhāgavatatātparyanirṇaya, Śri Madhvacharya