Fwd: ​Quantum mechanics => world is mithyA?

45 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jan 16, 2023, 9:04:32 PM1/16/23
to cheto-de...@googlegroups.com

---------- Forwarded message ---------
From: विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>
Date: Fri, 23 Dec 2022 at 12:53
Subject: Quantum mechanics => world is mithyA?
To: Hindu-vidyA हिन्दुविद्या <hindu...@googlegroups.com>, Friends of CAHC <friend...@googlegroups.com>

"Quantum mechanics  => world is mithyA?" - A very good discussion (kannaDa) - https://www.youtube.com/watch?v=ZfA-b9wlEbc
--
--
Vishvas /विश्वासः

--
--
Vishvas /विश्वासः

V Subrahmanian

unread,
Jan 17, 2023, 3:09:18 AM1/17/23
to विश्वासो वासुकिजः (Vishvas Vasuki), cheto-de...@googlegroups.com
Someone shared this video:

In fact there are dozens of such videos, sometimes contradicting each other. 

regards
subrahmanian.v 

--
You received this message because you are subscribed to the Google Groups "चेतो-देव-जीवादि-तत्त्व-विचारः" group.
To unsubscribe from this group and stop receiving emails from it, send an email to cheto-deva-jiv...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/cheto-deva-jivadi/CAFY6qgGY9tYXRORo_37bM0s%2B1yWG3gPLTeijmpX1pnqdCeS3MA%40mail.gmail.com.

V Subrahmanian

unread,
Jan 18, 2023, 3:29:27 PM1/18/23
to विश्वासो वासुकिजः (Vishvas Vasuki), cheto-de...@googlegroups.com
I wish to know what the word 'universe' means in the context of the 2022 Physics Nobel prize. 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jan 18, 2023, 11:29:37 PM1/18/23
to V Subrahmanian, cheto-de...@googlegroups.com
On Thu, 19 Jan 2023 at 01:59, V Subrahmanian <v.subra...@gmail.com> wrote:
I wish to know what the word 'universe' means in the context of the 2022 Physics Nobel prize. 

"जगन्नाम किम्" इत्यत्र,
२०२२-तमे वर्षे प्रशस्तात् quantum-entanglement-प्रयोगात्  
वेदान्तदृष्ट्या न किञ्चिद् अपि नूतनं ज्ञातं, 
न "मिथ्यात्वं विज्ञान-सिद्धं" इति जातम् (मिथ्यात्वलक्षणव्यभिचारात् स्पष्टात्),
न चापि सर्वत्र चेतस् ततम् इति प्रतिष्ठापितम् (पूर्वम् एव +उपशतवर्षेभ्यः प्रेक्षक/observer-आदि-विषयेषु भूतविज्ञानिभिर् विचार्यमाणत्वात्)।

quantum-physics-क्षेत्रस्य observer-विचारस् तु स्वतस् तत्त्वजिज्ञासुभिर् अध्येतुम् उचित एव।

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jan 19, 2023, 2:08:12 AM1/19/23
to V Subrahmanian, cheto-de...@googlegroups.com

On Thu, 19 Jan 2023 at 11:58, V Subrahmanian <v.subra...@gmail.com> wrote:

अत्र विद्यमानेषु   https://www.youtube.com/results?search_query=The+universe+is+no+locally+real+   बहुषु लघुचलनचित्रेषु 'universe' इति शब्दप्रयोगः कृतो वर्तते | तत्र तेषां तच्छब्देन किमभिप्रेतः इति मम जिज्ञासा | किमर्थं तत्पदप्रयोगः क्रियते ? 'Local' 'Real' इत्येतयोः पदयोरत्रास्मिन् क्षेत्रे  विशिष्टार्थः अभिप्रेतः तैः इतिवत् अस्य शब्दस्यापि कश्चिद्विशिष्टार्थो भवेद्वा इति मम चोद्याशयः | यद्येवं तत् किमिति |

तावद् एव चिज् जिज्ञासितम्, https://www.youtube.com/watch?v=txlCvCSefYQ इत्यस्मिन्न् आदिम-निमेष-द्वयं द्रष्टुम् अलम्। एतच्च सूत्रारम्भे दर्शितायाम् अपि चर्चायां स्पष्टीकृतम्।

भवदीयः  

V Subrahmanian

unread,
Jan 19, 2023, 2:45:03 AM1/19/23
to विश्वासो वासुकिजः (Vishvas Vasuki), cheto-de...@googlegroups.com
भवद्दर्शितचित्रादहमिदमवगतवान् - यूनिवर्स् अणुस्तरे रियल् वा अन्यथा वा इति चर्चा बहोः कालात्प्रचलन् वर्तते | तत्र पक्षद्वयमस्ति - ऐन्स्टीन् महोदयः रियल् इति अभिप्रैति | तत्प्रतिपक्षभूताः नील्स् बोर् इत्यादयः क्वान्टंपक्षपातिनः नेति प्रतिपादयन्ति | अत्र गतसंवत्सरीयनोबेल् विज्ञानिनः यन्निर्णीतवन्तः तत् आद्यपक्षं विघटयन् द्वितीयपक्षं समर्थयति इति | एतेन अणुस्तरे, न स्थूलजगत्स्तरे, यूनिवर्स् न रियल् इति पर्यवस्यति | इयं सम्यग्वा ममावगतिः ? 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jan 19, 2023, 2:56:45 AM1/19/23
to V Subrahmanian, cheto-de...@googlegroups.com
On Thu, 19 Jan 2023 at 13:15, V Subrahmanian <v.subra...@gmail.com> wrote:

साधु - किञ्च तस्मिन्न् अप्य् अणुस्तरे, "unreal" नाम वेदान्तप्रतिपादितमिथ्यात्वम् इति न भ्रान्तव्यम्। भिन्न एवार्थः।

V Subrahmanian

unread,
Jan 19, 2023, 3:03:49 AM1/19/23
to विश्वासो वासुकिजः (Vishvas Vasuki), cheto-de...@googlegroups.com
On Thu, Jan 19, 2023 at 1:26 PM विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:

On Thu, 19 Jan 2023 at 13:15, V Subrahmanian <v.subra...@gmail.com> wrote:
भवद्दर्शितचित्रादहमिदमवगतवान् - यूनिवर्स् अणुस्तरे रियल् वा अन्यथा वा इति चर्चा बहोः कालात्प्रचलन् वर्तते | तत्र पक्षद्वयमस्ति - ऐन्स्टीन् महोदयः रियल् इति अभिप्रैति | तत्प्रतिपक्षभूताः नील्स् बोर् इत्यादयः क्वान्टंपक्षपातिनः नेति प्रतिपादयन्ति | अत्र गतसंवत्सरीयनोबेल् विज्ञानिनः यन्निर्णीतवन्तः तत् आद्यपक्षं विघटयन् द्वितीयपक्षं समर्थयति इति | एतेन अणुस्तरे, न स्थूलजगत्स्तरे, यूनिवर्स् न रियल् इति पर्यवस्यति | इयं सम्यग्वा ममावगतिः ? 

साधु - किञ्च तस्मिन्न् अप्य् अणुस्तरे, "unreal" नाम वेदान्तप्रतिपादितमिथ्यात्वम् इति न भ्रान्तव्यम्। भिन्न एवार्थः।

तत्र कोऽयं भेद इति सरलया रीत्या विव्रियताम् |  

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jan 19, 2023, 3:29:36 AM1/19/23
to V Subrahmanian, cheto-de...@googlegroups.com
On Thu, 19 Jan 2023 at 13:33, V Subrahmanian <v.subra...@gmail.com> wrote:

साधु - किञ्च तस्मिन्न् अप्य् अणुस्तरे, "unreal" नाम वेदान्तप्रतिपादितमिथ्यात्वम् इति न भ्रान्तव्यम्। भिन्न एवार्थः।

तत्र कोऽयं भेद इति सरलया रीत्या विव्रियताम् |  

त्रिकालाबाध्य-विलक्षणत्वे सति
क्वचिद् उपाधौ सत्त्वेन प्रतीयमानत्वं 
मिथ्यात्वम्।

इति शास्त्रीयं सर्व-वादि-सम्मतं लक्षणम्।
न हि तस्यात्रान्वयः।
न हि कश्चनाणुः परमाणुर् अपि वा त्रिकालाबाध्यलक्षणः (यथा matter-energy transformation सुविदितम्)।
न च भ्रान्त्या सर्प इति प्रतीयमानो रज्जुर् इति ज्ञायमानः।

https://youtu.be/ZfA-b9wlEbc?t=5070 इत्यत्र सरलकन्नड्या प्रतिपादितम् आर्येण प्रतोषेण। https://youtu.be/ZfA-b9wlEbc?t=3804 इत्यत्राप्य् आरभ्य द्रष्टुम् उचितम् एव।

V Subrahmanian

unread,
Jan 25, 2023, 1:43:43 AM1/25/23
to विश्वासो वासुकिजः (Vishvas Vasuki), cheto-de...@googlegroups.com

इदं  ऐन्स्टीन्वाक्यं इति प्रसिद्धिरस्ति:     https://www.sfgate.com/opinion/chopra/article/Why-Einstein-Was-Wrong-About-the-Moon-14927364.php

The moon was out and Einstein asked Pais, ‘Do you really believe the moon is not there when you are not looking at it?’”

अत्र जिज्ञास्यते - यदि अयमाक्षेपः क्वाण्टंवादिनं प्रति कृतः क्वाण्टंवादाननुरूपः  इति तद्वादिनः मन्यन्ते, तर्हि केनापि तद्वादिना 'ऐन्स्टीन्कृताक्षेपः न अस्मत्सिद्धान्ते  सङ्गच्छते यतो हि वयं तन्नाभ्युपगच्छामः| अपि च स अस्मत्सिद्धान्तानभिज्ञतया आक्षिपति' इति प्रत्युक्तो वा (refuted) स आक्षेपः?  

भवदीयः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jan 25, 2023, 2:02:17 AM1/25/23
to V Subrahmanian, cheto-de...@googlegroups.com
On Wed, 25 Jan 2023 at 12:13, V Subrahmanian <v.subra...@gmail.com> wrote:

इदं  ऐन्स्टीन्वाक्यं इति प्रसिद्धिरस्ति:     https://www.sfgate.com/opinion/chopra/article/Why-Einstein-Was-Wrong-About-the-Moon-14927364.php

The moon was out and Einstein asked Pais, ‘Do you really believe the moon is not there when you are not looking at it?’”

अत्र जिज्ञास्यते - यदि अयमाक्षेपः क्वाण्टंवादिनं प्रति कृतः क्वाण्टंवादाननुरूपः  इति तद्वादिनः मन्यन्ते, तर्हि केनापि तद्वादिना 'ऐन्स्टीन्कृताक्षेपः न अस्मत्सिद्धान्ते  सङ्गच्छते यतो हि वयं तन्नाभ्युपगच्छामः| अपि च स अस्मत्सिद्धान्तानभिज्ञतया आक्षिपति' इति प्रत्युक्तो वा (refuted) स आक्षेपः?  

भूतशास्त्रस्य वास्तविकी भाषा गणितमयम्, नाङ्ग्लिकी। तथा सत्य् एतादृशवाक्यानां स्वेङ्गित-सूचनामात्र-प्रयोजनानां निरसनं न जातुचिद् ऐन्ष्टैनमहोदयेनाप्य् अपेक्ष्यते स्म। आस्ताम् - भुवि सर्वे प्राणिनो मरन्ति चेद् अपि, न चेद् अपि कश्चिच् चन्द्रम् ईक्षितुं जीवो व्यवस्थितः, तथापि चन्द्रो वर्तितुम् प्रभवत्य् एवेति सर्वैः क्वाण्टंवादिभिर् अप्य् अभ्य् उपगतम्।

अनेनेङ्गितेन विवक्षितं यत्, तेनैवैन्ष्टैन्-महाशयेन सुविस्तृताक्षेपात्मक-पत्त्रिकया लेखितं, तच्च निरस्तम् इति बहुविध-entanglement-चलच्चित्रप्रेक्षकेन भवतापि ज्ञातचरम् एव।

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Mar 24, 2023, 10:31:46 AM3/24/23
to cheto-de...@googlegroups.com
अस्याश् चर्चाया मूले भ्रमास्पदम् इदम् प्रकाशितं सम्भाषणसन्देश इति भाति (dec 2022) -

जगतः मिथ्यात्वं विज्ञानसिद्धम्    

* जगदीशः

          धुनिकेन विज्ञानेन यत् उच्यते तत् अन्तिमसत्यम् इति भावयन्ति जनाः । किन्तु अत्र वास्तविकता कियता प्रमाणेन अस्ति इति तु विचारणीयम् ।

वैद्यविज्ञानम् एव पश्यत । रोगाभिज्ञानाय विविधानि परीक्षणानि क्रियन्ते । किन्तु प्रयोगालयद्वयस्य वृत्तं किं समानम् एव भवितुम् अर्हेत् ? प्रायः इत्येव उत्तरम् । यन्त्राणि आधुनिकानि । (एकेन एव निर्माणगारेण निर्मितानि अपि भवितुम् अर्हन्ति तानि ।) परीक्षणविधिः अपि समानः । परीक्षकाः अपि प्राप्तशिक्षणाः । तैः प्राप्तं शिक्षणम् अपि समानम् । तथापि वृत्ते (Report) तु न एकरूपता । आस्तां तावात् वृत्तस्य कथा । यत् वृत्तं प्राप्येत तत् अवलम्ब्य सर्वे वैद्याः (आधुनिकाः) समानानि एव औषधानि यच्छन्ति किम् ? औषधसेवनक्रमविधौ समानता भवति किम् ?

अत्र सर्वत्र अपि आधुनिकं विज्ञानम् एव अवलम्ब्यते । तथापि परिणामभेदः तु महान् । एवं तर्हि विज्ञानं प्रयोगसिद्धम् अन्तिमसत्यम् एव वदति इत्येतत् किं वस्तुस्थितिद्योतकम् ? अलं तावत् वैद्यकीयक्षेत्रचर्चया । प्रकृतम् अनुसराम तावत् ।

विज्ञानेन पूर्वं यत् प्रतिपाद्यते स्म तदेव अद्यापि प्रतिपाद्यते इति तु बहुत्र न । प्रकाशः सरलरेखया चलतिइति अवदत् न्यूटनः । किन्तु अनन्तरकाले ज्ञातः अंशः - सः तरङ्गरूपेण प्रसरति, न तु सरलरेखयाइति । अद्यत्वे तु तत्रापि विमतिः दर्श्यते बहुभिः वैज्ञानिकैः ।

अणुः अविभाज्यःइति आसीत् विश्वासः एकस्मिन् कालखण्डे । अग्रे ज्ञातम् - अणौ अपि भागाः सन्ति इति । इलेक्ट्रान्, प्रोटान्, न्यूट्रान् इत्येते त्रयः भागाःइति अनन्तरकाले सिद्धम् । ततोऽग्रे निर्णीतम् - इलेक्ट्रान्प्रभृतयः अपि तरङ्गरूपाः, तरङ्गपरिणामतः अणुः दृष्टिगोचरतां यातिइति । अद्यत्वे विज्ञानिनः वदन्ति - वस्तुनि विद्यमाना रिक्तता एव अन्तिमं रूपम् इति ।

इण्डियानाविश्वविद्यालयीयः विज्ञानप्राध्यापकः प्रा.कश्यपवसवादः वदति - Scientists realised that the world is not made out of rigid firm objects like billiard balls and bricks. At the atomic and sub-atomic level, it consists of empty space. So the solid nature of objects we see around is only apparent. As one goes deeper and deeper, one keeps on finding vacuum all the way

Brhman is the only truth; the world is a false illusion. I believe he realized that all of this disintegrates and thus cannot be a fundamental reality. Similarly in Physics one sees only the material objects and does not see the strange quantum fuzzy world underlying all the matter. 

तदीयस्य कथनस्य सारः तु - एतत् विश्वं घनरूपैः वस्तुभिः निर्मितं न । अणुपरमाणुस्तरः यदि विविच्येत तर्हि अवगम्यते यत् अनेकैः तरङ्गैः उपेताः ते परमाण्वादयः अन्तस्सारहीनाः इति । घनरूपेण प्रतिभासमानाः अपि ते शून्यरूपाः एव इति तु अन्तिमस्तरीयः निर्णयः ।

जगन्मिथ्याइति तु अस्मदीयानां शास्त्राणां प्रमुखं तत्त्वम् । जगतः मिथ्यात्वं तु सर्वाणि अपि दर्शनानि अङ्गीकुर्वन्ति । आत्यन्तिकं सत्यं तु शून्यरूपम् इति अद्वैतसिद्धान्तः कथयति । अतः एव आत्यन्तिकसत्यस्य अनिर्वचनीयत्वम् अपि उच्यते ।

घट्टकुटीप्रभातन्यायः इति कश्चन लौकिक-न्यायः । घट्टकुटी नाम नगरप्रवेशस्थले करसङ्ग्रहाय परिकल्पितं स्थानम् । कश्चन वस्तुस्वामी घट्टकुट्यां करं दातुम् अनिच्छन् मार्गान्तरम् आश्रित्य समग्रायां रात्रौ बहुधा अटित्वा प्रभाते तु उपस्थितः आसीत् घट्टकुट्याः पुरतः एव इति काचित् कथा श्रूयते । अतः एव घट्टकुटीप्रभातन्यायनामकः लौकिक-न्यायः एव प्राचीनैः परिकल्पितः । आधुनिक-विज्ञानेन अपि एवमेव क्रियमाणः अस्ति इति वक्तुं शक्यम् । प्राचीनसिद्धान्तम् अनभ्युपगच्छद्भिः विज्ञानिभिः अनेकविधानि संशोधनानि कृतानि । किन्तु अन्ते तैः अपि जगतः मिथ्यात्वम् एव अङ्गीक्रियमाणम् अस्ति, यच्च आ बहोः कालात् पूर्वम् एव भारतीयैः दर्शनैः प्रतिपादितम् ।

Reply all
Reply to author
Forward
0 new messages