Re: भूतशुद्धौ बीजषु प्रश्नः

2 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Aug 4, 2023, 4:07:06 AM8/4/23
to tantro...@googlegroups.com, kalpa-...@googlegroups.com, cheto-de...@googlegroups.com, Hindu-vidyA हिन्दुविद्या
काचन कल्पना लेखिताधः - सा नूनम् पूर्विकैः काश्चिद् उक्ता स्यात्। कुत्रेति सूचयन्तु -
image.png

आ॒का॒शाद् वा॒युः । वा॒योर् अ॒ग्निः । अ॒ग्नेर् आपः॑ । अ॒द्भ्यः पृ॑थि॒वी ।
पृ॒थि॒व्या ओष॑धयः । ओष॑धी॒भ्यो ऽन्न᳚म् । अन्ना॒त् पुरु॑षः ।

इति यद् आम्नातम् 8 अवलम्ब्य भूत-शुद्धि-कर्म-द्रुमो वृद्धः,
तस्यैवाधुनिकविज्ञानावलम्बनेन25 कल्पनान्तरम् इदं रोचेत केभ्यश्चन -

आकाशे महास्फोटात्(=big bang इत्यस्मात्) परं प्रकीर्णाः परमाणवो वायु-रूपाः,
ततो गुरुत्वाकर्षणाणुसंयोगादि-क्रियाभिस् ताराणाम् अग्नि-रूपाणाम् उत्पत्तिः,
ततस् तत्परितस् तथैवाल्पतरतापेन द्रवाणां(=molten) ग्रहाणां जल-निभ-रूपाणम् उत्पत्तिः,
तत औष्ण्य-ह्रासेन स्थिरतराणां शिलानां पृथिव्य्-आत्मकानां सम्भवः,
ततः परम्परया +ओषधयो, अन्नम्, पुरुषश् च
+इति सृष्टि-क्रमः।

पुनः -
ताराणां वार्धक्ये (रक्तदैत्यावस्थया(=red giant) यथा) पृथिव्य्-आत्मकानां द्रवीभावः,
द्रवी-भूतानां जल-निभानां ग्रहाणां पुनस् ताप-वृद्ध्या ऽऽग्नी-भावः,
ज्वलतां पृथिव्यादीणां ग्रहाणां वाय्व्-अवस्थया लयः,
ततस् तस्यापि विकिरणाद् आकाश-रूपोऽवशेष
इति संहार-क्रमः।






On Wed, 2 Aug 2023 at 15:40, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:
भोस् सज्जनाः। 

अयं कश्चन प्रबन्धो रचितः - 

वैष्णवादि-भूत-शुद्धि-परम्पराः

(जाले पठितुम् - http://rb.gy/hj5xi । )


स्वाभिप्रायान् परिष्कारांश् च सूचयत। 

On Sat, 22 Apr 2023 at 10:11, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:

हरिभक्तिविलासानुसारेणैवम् बीजानि मन्त्रेषु -

- ओं षंं नमः पराय वासुदेवाय परमेष्ठ्यात्मने नमः
- ओं यं नमः पराय सङ्कर्षणाय पुमात्मने नमः
- ओं लं नमः पराय प्रद्युम्नाय विश्वात्मने नमः
- ओं वं नमः पराय +अनिरुद्धाय निवृत्त्यात्मने नमः
- ओं ळं नमः पराय नारायणाय सर्वात्मने नमः

स्वाभिप्रायः -
बीजैः सह साधु सङ्गच्छन्त इति गुणः - सङ्कर्षण इति वायुबीजेन साधु सङ्गच्छते, प्रद्युम्न इत्य् अग्निबीजेन ।
मूर्धन्यवर्णो ऽन्तय् औष्ठ्यात् परम् आयाति,
अग्निबीजं न साधु प्रयुक्तम्
इति च दोषः।



On Tue, 24 Jan 2023 at 08:32, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:
+शब्दशास्त्रविदो येषां स्युर् विचारा अत्र।

रुचिरा सम्भावना 🙏

तर्हि कण्ठ्यसम्बन्धेन खम् (←बीजरूपेणापि प्रयोगोऽस्ति?), हम्; तत्सामीप्यात् षकारः।
ताल्वाः यकारः।
ओष्ठाद् वकारः।
मूर्ध्नो दन्तमूलाद् वा रेफः।
दन्तेभ्यो लकारः।


On Tue, 24 Jan 2023 at 08:05, Sthaneshwar Timalsina <samvid...@gmail.com> wrote:
atra hakārasya sthāne ṣakāraprayogaḥ śuklayājuṣānām iva bhaved iti manye| vayaṃ śukla-mādhyandinīyāḥ ṣakārasya khakāravaduccāraṇaṃ kurmaḥ| kha-kārasya ākāśavācakatvaṃ tu sārvatrikam|
ST

On Mon, Jan 23, 2023 at 4:45 PM विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:
भूतशुद्धौ संहारक्रमेण सृष्टिक्रमेण च मन्त्रा न्यस्यन्ते।
सृष्टिक्रमे - आत्मन आकाशः, आकाशाद्वायुः, वायोरग्निः, अग्रेरापः, अद्भ्यः पृथिवी - इति तत्तद्-बीज-प्रयोगः।
पाञ्चरात्रिका अत्र- षौं यां रां वां लां इति क्रमशः। (षाम् इत्य् अपि पाठो दृष्टः। शैवास् तु केचिद् आकाशवर्णम् हम् इत्य् आहुः। )
स्वराणां किं वैशिष्ट्यम्?? षकारस्यैवौकारः कुतः?
अभिनवगुप्तस् तु आ इत्य् आनन्दबीजम् ब्रूते।

अन्यत्र कर्मसु शोषणे दाहने प्लावने च ह्रस्वस्वराः कुतः?
यथा - यं वायवे नमः - शोषणं, रं- अग्नये नमः - दाहनं, वं अमृताय नमः - प्लावनम् ।

--
--
Vishvas /विश्वासः

--
You received this message because you are subscribed to the Google Groups "tantrollAsaH" group.
To unsubscribe from this group and stop receiving emails from it, send an email to tantrollasah...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/tantrollasah/CAFY6qgG6yCZzvujJHpEqDyOVKQnKMTYa0TuW1f%2Bx_bdRLzb9mQ%40mail.gmail.com.


--
--
Vishvas /विश्वासः



--
--
Vishvas /विश्वासः



--
--
Vishvas /विश्वासः



--
--
Vishvas /विश्वासः

T Ganesan

unread,
Aug 7, 2023, 8:40:28 AM8/7/23
to विश्वासो वासुकिजः (Vishvas Vasuki), tantro...@googlegroups.com, kalpa-...@googlegroups.com, cheto-de...@googlegroups.com, Hindu-vidyA हिन्दुविद्या
सुप्रभातम् ॥
सर्वेषामेतेषां विवादप्रश्नानां उत्तराणि यथाशीघ्रं दास्यामि। अनुसन्धानकार्यान्तरेषु व्यापृतत्वात् झटिति वादे प्रवेष्टुमशक्तऽधुना  । अन्यथा मा चिन्तयतु ।

गणेशः



--
Dr. T. GANESAN
DIRECTOR
CENTER FOR SHAIVA STUDIES

24-A, AUROBINDO STREET
PONDICHERRY
605001

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 10, 2023, 8:45:02 AM10/10/23
to tantro...@googlegroups.com, kalpa-...@googlegroups.com, cheto-de...@googlegroups.com, Hindu-vidyA हिन्दुविद्या
वैष्णवपरम्परासु भूतशुद्धाव् अधुनैवम् अभिप्रायः- 

पञ्चोपनिषन्मन्त्रेषु "पर"-शब्देन तत्-तद्-भूतानां साधिपतीनां  
नित्यविभूतौ वैकुण्ठे स्वाभाविकतया वर्तमानत्वम् अभिप्रेतम्।  
भगवद्-अर्चना-योग्यम् अप्राकृतं शरीरं पराकाशाद्य्-अप्राकृत-पञ्च-भूतमयं कल्पनीयम्।  
तेषां तु पञ्च भूतानां नित्यानां न भवति सृष्टिः संहारो वा।  
ते च वैकुण्ठे भवन्ति प्रायेण, तथापि लीलाविभूताव् आविशन्ति कदाचित्।  
तद् विधातुम् अप्राकृतभूतानि पञ्चोपनिषन्मन्त्रैर् न्यस्येरन्, तत्-पूर्वं च पुनर् वैकुण्ठम् प्रति प्रेष्येरन्।  
एवं भूतशुद्धाव् अप्राकृतशरीरस्यैव कल्पना स्यात् - न जातु प्राकृतशरीरस्य नाशो वा सृष्टिर् वा कल्पयितुं योग्या।


अयं विचारश् चानेन चोदितः (वेदान्तकारिकावली बुच्चि-वेंकटाचार्यकृता) - 

> तच्च किंद्रव्यात्मकम् इत्यत्राह - पञ्चोपनिषदिति ।  
पञ्चोपनिषन्-मन्त्र-प्रतिपादित--पराकाशाद्य्-अप्राकृत-पञ्च-भूतमयी ।  
सा चेश्वरादीनां परमपदनिलयानां तत्तदिच्छानुरोधेन शरीरेन्द्रिय-विषयादिरूपेणावतिष्ठते ।
>
> तत्रेयान् विशेषः - यत्प्राकृतानि भूतानि महद्-आदिभ्य उत्पद्यन्ते ।  
अप्राकृतानि तु न तथा ।  
तानि स्वत एव प्रतिष्ठितानि ।  
अतो नित्यानि ।


विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 2, 2025, 11:26:28 PM (2 days ago) Sep 2
to tantro...@googlegroups.com, kalpa-...@googlegroups.com, cheto-de...@googlegroups.com, Hindu-vidyA हिन्दुविद्या, Friends of CAHC
(bcc - jayant, +friendsofcahc)

Alternate / व्यवस्थान्तरम् -

- पृथ्वी - अणुकेन्द्रकम् (Quarks)
- आपः - गुरुकरम् (Higgs Boson)
- तेजः - (Leptons, esp. electrons)
- वायुः - कर्षकाणि (Other Gauge Bosons)
- आकाशः - graviton

परिष्कारा बोधनीयाः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 3, 2025, 12:07:11 AM (2 days ago) Sep 3
to tantro...@googlegroups.com, kalpa-...@googlegroups.com, cheto-de...@googlegroups.com, Hindu-vidyA हिन्दुविद्या, Friends of CAHC
v2 (not entirely satisifed with AkAsha)

* पृथ्वी - घनकरम् (Quarks, Higgs Boson)
* आपः - रसमूलम् (Leptons, esp. electrons)
* तेजः - रूपमूलम् (photon)
* वायुः - स्पर्शकम् (Other Gauge Bosons)
* आकाशः - graviton
Reply all
Reply to author
Forward
0 new messages