कापालिक-कालामुख-विभ्रमः प्राचीन-श्रीवैष्णवेषु?

4 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 15, 2024, 12:42:44 AM10/15/24
to tantro...@googlegroups.com, Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
कापालिक-कालामुखयोर् मध्ये कश्चन विभ्रमो ऽवर्तत वा प्राचीनेषु श्रीवैष्णवेषु? यतः कपालपानादि कालामुखानाम् उक्तं दृश्यते तत्-कृतिषु, यथा -

यामुनार्यस्य +आगम-प्रामाण्ये कापालिकेषु - 

मुद्रिका-षट्क-विज्ञानात्
पुनस् तस्यैव धारणात् ।
अपवर्ग-फल-प्राप्तिर्
न ब्रह्मावगमाद् इति ॥


तथाऽहुः ।

मुद्रिका-षट्क-तत्त्व-ज्ञः
पर-मुद्रा-विशारदः ।
भगासन-स्थम् आत्मानं
ध्यात्वा निर्वाणम् ऋच्छति ॥


तथा -

कर्णिकां रुचकञ्(=हारं) चैव
कुण्डलञ् च शिखा-मणिम् ।
भस्म यज्ञो-पवीतञ्
च मुद्रा-षट्कं प्रचक्षते ॥

कपालम् अथ खट्वाङ्गम्
उपमुद्रे प्रकीर्तिते ।
आभिर् मुद्रित-देहस् तु
 भूय इह जायते ॥


कालामुखेषु - 
एवं कालामुखा अपि
समस्त-शास्त्र-प्रतिषिद्ध–कपाल-भोजन–शव-भस्म-स्नान–
तत्-प्राशन–लगुड-धारण–सुरा-कुम्भ-स्थापन–तत्-स्थ-देवतार्चनादेर् एव
दृष्टादृष्टाभीष्ट-सिद्धिम् अभिदधानाः श्रुति-बहिष्कृता एव ।


रामानुजार्यश् च - 

यथाहुः कापालाः – **मुद्रिकाषट्कतत्त्वज्ञः परमुद्राविशारदः। भगासनस्थमात्मानं ध्यात्वा निर्वाणमृच्छति। कण्ठिका रुचकं चैव कुण्डलं च शिखामणिः। भस्म यज्ञोपवीतं च मुद्राषट्कं प्रचक्षते ॥ आभिर्मुद्रितदेहस्तु न भूय इह जायते** (शैवागमः) इत्यादिकम्। तथा कालामुखा अपि कपालपात्र-भोजनशवभस्मस्नानतत्प्राशनलगुडधारसुराकुम्भस्थापनतदाधारदेवपूजादिकं ऐहिकामुष्मिकसकल-फलसाधनमभिदधति। **रुद्राक्षकङ्कणं हस्ते जटा चैका च मस्तके। कपालं भस्मना स्नानम्** (शैवागमः) इत्यादि च प्रसिद्धं शैवागमेषु।




--
--
Vishvas /विश्वासः

T Ganesan

unread,
Oct 15, 2024, 1:17:29 AM10/15/24
to विश्वासो वासुकिजः (Vishvas Vasuki), tantro...@googlegroups.com, Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
शिवाय नमः ॥
यामुनादिरामानुजपर्यन्ताः सर्वे शिवद्वेषकामलाः तेन दृढतरं तिरस्कृतद्रुष्टयः तत्कारणेन कुदृष्टयः वैष्णवाः कापालिककालामुखशैवसम्प्रदायमतीव  निकृष्टत्वेन अवैदिकत्वेन च स्वग्रन्थेषु वर्णयन्ति । आधुनिका अपि तादृशवैष्णवा तामेव पद्धतिमनुसरन्ति । इत्युक्त्वाधुना विरमामि । 
अमुं विषयमधिकृत्य पश्चात् किंचिद्विशदतया विचिकित्सामः । इति शिवम् ॥

--
You received this message because you are subscribed to the Google Groups "tantrollAsaH" group.
To unsubscribe from this group and stop receiving emails from it, send an email to tantrollasah...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/tantrollasah/CAFY6qgEqMJNX75yUonmLd%2BiR%3D0vTHhb-fg_jtXCwiuZoCLOubQ%40mail.gmail.com.


--
Dr. T. GANESAN
DIRECTOR
CENTER FOR SHAIVA STUDIES

24-A, AUROBINDO STREET
PONDICHERRY
605001

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 15, 2024, 5:23:39 AM10/15/24
to T Ganesan, tantro...@googlegroups.com, Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
On Tue, 15 Oct 2024 at 10:47, T Ganesan <gan...@shaivastudies.in> wrote:
शिवाय नमः ॥
यामुनादिरामानुजपर्यन्ताः सर्वे शिवद्वेषकामलाः तेन दृढतरं तिरस्कृतद्रुष्टयः तत्कारणेन कुदृष्टयः वैष्णवाः

प्रायेण भवता शैवद्वेषो विवक्षितो, न शिवद्वेषः। यतः शिवं देवं जीवं मन्यमाना अपि,  बह्व् अमन्यन्त इति तत्-कृतिषु, तत्बहुमतेषूपनिषदादिषु च भाति।  

 
कापालिककालामुखशैवसम्प्रदायमतीव  निकृष्टत्वेन अवैदिकत्वेन च स्वग्रन्थेषु वर्णयन्ति । आधुनिका अपि तादृशवैष्णवा तामेव पद्धतिमनुसरन्ति । इत्युक्त्वाधुना विरमामि । 
अमुं विषयमधिकृत्य पश्चात् किंचिद्विशदतया विचिकित्सामः । इति शिवम् ॥

सर्वात्मशम्भुना ऽष्टप्रकरणशाखाशैवेनापि कापालिका अतिमार्गत्रये परिगणय्य तिरस्कृता दृश्यन्ते ननु - 

मनुष्य-कपाले **भिक्षाम् अटित्वा भोक्तव्यम्** इति च  
महाव्रतानाम् इव **मोक्ष** इति च।  

अतिमार्गकोटौ प्रक्षिप्ता अवैदिका इति तेऽपि न विवदन्ति खलु?  
कालामुखेषु कोऽभिप्रायस् तेषाम् इति तु न ज्ञातम्। 

 
You received this message because you are subscribed to the Google Groups "Hindu-vidyA हिन्दुविद्या" group.
To unsubscribe from this group and stop receiving emails from it, send an email to hindu-vidya...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/hindu-vidya/CACzcXiRNgzqyDYPOjLi7EKbCMP8GP7xm%3DPj0nJZ4_2MGj1RoAw%40mail.gmail.com.

T Ganesan

unread,
Oct 15, 2024, 5:54:35 AM10/15/24
to विश्वासो वासुकिजः (Vishvas Vasuki), tantro...@googlegroups.com, Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
<अतिमार्गकोटौ प्रक्षिप्ता अवैदिका इति तेऽपि न विवदन्ति खलु?  
कालामुखेषु कोऽभिप्रायस् तेषाम् इति तु न ज्ञातम्। >

यद्यपीयं स्थितिःपरं इमे वैष्णवाः कापालिककालामुखौ अन्यथारूपेण अयथारूपेण च प्रतिपादयन्ति ।
तत् शिवद्वेषशैवद्वेषमूलकमेव। तेषां काले तु अनयोः सम्प्रदाययोर्ग्रन्था बहव आसन् । परम् एते वैष्णवाः तान् न अधीयते नाद्रियन्ते च । 
परन्तु तद्विपरीततया प्राचीनजैनग्रन्थेषु (7-१० शताब्दीभवेषु) शैवपाशुपतसम्प्रदायविषयाः यथावत् प्रतिपाद्य खण्ड्यन्ते ।

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 15, 2024, 9:34:52 AM10/15/24
to T Ganesan, tantro...@googlegroups.com, Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
On Tue, 15 Oct 2024 at 15:24, T Ganesan <gan...@shaivastudies.in> wrote:
तत् शिवद्वेषशैवद्वेषमूलकमेव।

सुशिक्षितेषु शिष्टेषु सदाचारशीलेषु तु नैवं वर्तत इति ममानुभवः। 
सरलम् उदाहरणम् - वैश्वदेवाख्यं नित्यकर्मावश्यं कार्यं गृहस्थेनेति वर्तमाने तैत्तिरीयकवैष्णवास् सर्वे ऽपि सम्पूर्णश्रद्धयैव "रुद्राय स्वाहे"ति नित्यं बलिं निदधति। 
पुनर् उदकशान्तिजप-अभ्यातानहोमादौ रुद्रमन्त्रान् उक्त्वा यथासूत्रम् अप उपस्पृशन्ति। 

Reply all
Reply to author
Forward
0 new messages