एकवाक्यता-सम्पादनार्थं मार्गान्तरम् - दोषान् सूचयत।
श्रुतयः, स्मृतयः, पुराणानि प्रमाणम् इत्य् आर्यैर् बहुमतम्।
बहुषु सम्प्रदायेषु श्रुत्य्-आदि-ग्रन्थेष्व् एक-वाक्यता भवतीति किञ्चन कल्पनम्।
तच् चेष्ट एव -
परस्पर-विरुद्धांशवतां सप्रदायानाम् अंशतः सङ्गमः शक्यः।
तेषु सर्वेषु समञ्जसांशाः काल-प्रतिष्ठिताः कलनीया अस्मत्-प्रयोजनाय।
साम्प्रदायिकैर् अस्यां दिशि कश्चन प्रयासो विहितः,
येन "रुद्रादयो देवाः प्राकृत-शरीरवन्त" इत्यादयो निश्चया अजायन्त।
किञ्चास्मिन् प्रयासे कश्चन दोषो मूल-भूतः -
समान-विवक्षया परस्पर-विरुद्ध-वचनान्य् उद्गीर्णानीत्य् आग्रहस्य
प्राचीनेष्व् आरोपो ऽयुक्तः।
प्राचीन-ग्रन्थेषु व्यक्ता भिन्न-दैव-प्रेरित-मतानां स्पर्धा।
अत इमां स्पर्धाम् अवगत्य,
"न हि निन्दा"-न्यायादीन् प्रयुज्य विरोध-परिहारः कार्यः।
"अमुक-देवो ऽप्राकृत-शरीरवान्/ ईश्वरः" इत्य् आप्त-वचनस्य सङ्कोचः
"स देवः प्राकृतः" इति विश्वस्त-प्रबन्ध-गत-वाक्यान्तरं न साधयेत्।
प्राकृत-परिसरेक्षण-बल-समृद्धैर् अपि
शास्त्रोक्तानां कैलास-क्षीराब्धि+इक्षु-सागरादीनां तत्-तल्-लोकानाम्
यागेषु देवानां गमनागमनादेश् चागोचरत्वात्
तत्-प्राकृतत्व-वचनानां यथापठिताभिधार्थ-ग्रहणं खलु बाधितम् एव।
तर्हि, बाधक-वचनानां निर्वाहः कथम् इति चेत् -
"न हि निन्दा" न्यायेन पर-प्रशंसार्थम् इति ग्रहणेन,
समान-नामक-देवता-द्वय-ग्रहणेन वा।
समान-नामक-देवता-द्वय-पक्षे
नाम-समता कुत इति चेत् -
अप्राकृत-देवता-नियन्त्रिक्ता प्राकृत-शरीरिणी देवतेति।
द्वाव् अपि मार्गौ शास्त्रेष्व् आश्रितौ दृश्येते।
Summary - If one is honest historically, one will recognise competing cults even in shruti. the best way then to achieve ekavkyatA is to acknowledge this, subsume their principal deities into Ishvaratattva, and apply nahi nindA/ name-sharing logic. the traditional reconciliation doesn't account for this history - they did not understand the cult competition factor.
On picking a base tradition -
Traditional attempts at ekavAkyatA can provide a good basis.
Of the traditional attempts, rAmAnuja's was brilliant (esp. in contrast to logically deficient shUnyAdvaita + brahman attempt of shankara), and can stand without reliance on non-universally-accepted sectarian texts (as in the case of 28 agama shaiva school). So, seems good to use as a solid foundation.
The later-shAnkara patch of "one Ishvara with multiple personality disorder" (ditching shankara's original vaiShNavism) is unsatisfactory. Rather, genuine polytheism admitted by R, with it's "harmony/ agreement" logic used in having 2 Ishvara-devatAs provides a better basis.
-- --
Vishvas /विश्वासः