शास्त्रेषूपयुक्तस्यानादिकर्म-शब्दस्य किञ्चिन् निर्वचनान्तरम् इह। तत्र दोषान् सूचयत।
शरीराणि सम्पत्तयो बुद्धि-गुणाश् चापि बहुदा जन्म-सिद्धाः,
क्वचिद् अनुभवैस् / "कर्मभिः" संस्कृतिं विकृतिं वा यन्ति।
जन्म-सिद्ध-गुणेषु केचित्
प्राक्तन-जन्म-प्रभावम् आचक्षते।
एवम् परम्परया "अनादि-कर्म", "अनाद्य्-अविद्या" इत्यादिभिर् अज्ञेय-मूलत्वम् ऊचुर् विभिन्न-गुणादेः।
प्राक्तन-जन्मानङ्गीकारेऽपि प्रस्तुत-शरीरस्य जन्मनि
+इतरापेक्षया दृश्यमानस्य तारतम्यस्य कारणं यादृच्छिकम् उच्यताम् "अनादि-कर्म"-शब्देन।
तत्र वर्तमान-जन्मनि तु कर्मणाम् पौर्वापर्येण तेषां सादिता +उच्यताम्।