> ‘‘ज्ञानी तु परमैकान्ती
> परायत्तात्म-जीवनः ।
> तत्-संश्लेष-वियोगैक-
> सुख-दुःखस् तद्-एकधीः ॥
> भगवद्-ध्यान-योगोक्ति-
> वन्दन-स्तुति-कीर्तनैः ।
> लब्धात्मा तद्-गत-प्राण-
> मनो-बुद्धीन्द्रिय-क्रियः ॥’’
ऐश्वर्य-वीर्य-करुणा-गरिम-क्षमाद्याःस्वामिन्! अ-कारण-सुहृत्त्वम् अथो विशेषात् ।सर्वे गुणाः स-विषयास् तव, माम् अ-पार-घोराघ-पूर्णम् **अ-गतिं निहतं समेत्य** ॥ ९८ ॥त्वत्-पाद-संश्रयण-हेतुषु साधिकारान्उद्युञ्जतश् चरित-कृत्स्न-विधींश् च तांस् तान् ।त्वं रक्षसीति महिमा न तवालम् एषःमां चेद् अन्-ईदृशम् अन्-अन्य-गतिं न रक्षेः ॥ ९९ ॥ (इदं कवेश् शङ्करस्य भारावतारस्तवम् अपि स्मारयति)On Sat, 30 Mar 2024 at 17:49, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:> एकस्मिन्न् अप्य् अतिक्रान्ते> मुहूर्ते ध्यान-वर्जिते ।> दस्युभिर् मुषितेनेव> युक्तम् आक्रन्दितुं नमःOn Sat, 30 Mar 2024 at 14:26, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:ऐन्दीवरी क्वचिद् अपि क्वचनारविन्दीचान्द्रातपी क्वचन च, क्वचनाऽथ हैमी ।कान्तिस् तवोढ--पर-भाग--परस्-पर-श्रीः**पार्येत पारणयितुं** किमु चक्षुषोर् मे ॥ ७५ ॥On Sat, 30 Mar 2024 at 14:18, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:उन्निद्रपत्रशतपत्रसगोत्रम् अन्तर्लेखारविन्दम् अभिनन्दनमिन्द्रियाणाम् ।मन्मूर्ध्नि हन्त! करपल्लवतल्लजं ते कुर्वन् कदा कृतमनोरथयिष्यसे माम् ॥ ७२ ॥On Tue, 30 Jan 2024 at 13:40, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:भूमौ स्खलित-पादानां
भूमिरेवाऽवलंबनम्।
त्वयि विप्रतिपन्नानां
त्वमेव शरणं विभो॥On Mon, 29 Jan 2024 at 20:43, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:शङ्ख-चक्र-गदा-पद्मैर्
**अङ्कितं** पाद-पङ्कजम् ।
शरच्-चन्द्र-शताक्रान्त-
नख-राजि-विराजितम् ॥२५॥सुरासुरैर् **वन्द्यमानम्**
ऋषिभिर् **वन्दितं** सदा ।
कदा वा देव मूर्धानं
मामकं **मण्डयिष्यति**On Mon, 29 Jan 2024 at 09:43, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:कथागाम्भीर्याद् हृद्यम् - या वाण्या यति-राज--राज-वश-गा **चक्रे**, **ऽर्चिता** या चिरात्
प्राचार्यैर् निगमान्त-देशिक-मणि--श्री-ब्रह्म-तन्त्रादिमैः ।
**याध्यास्ते** परकाल-संयमि-वरास्थानीम् इदानीम् अपि
श्रेयः **संविदधातु** सैन्धव-मुखी सैषा परा देवता ॥
विशुद्ध-विज्ञान-घन स्वरूपं
विज्ञान-विश्राणन-बद्ध-दीक्षम् ।
दयानिधिं देह-भृतां शरण्यं
देवं हय-ग्रीवम् अहं **प्रपद्ये** ॥On Thu, 18 Jan 2024 at 11:29, G S S Murthy <murt...@gmail.com> wrote:यामुनाचार्याणां स्तोत्ररत्नादुधृतम्
अमर्यादः क्षुद्रः चलमतिरसूयाप्रसवभूः
कृतघ्नो दुर्मानी स्मरपरवशो वञ्चनपरः ।
नृशंसः पापिष्ठः कथमहमितो दुःखजलधेः
अपारादुत्तीर्णस्तव परिचरेयं चरणयोः ॥ ६२ ॥मूर्तिःOn Wed, 17 Jan 2024 at 21:12, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:--सुभाषितेषूत्कट-भक्ति-भाव-वाचकान्य् अस्मिन् सूत्रे प्रेष्यन्ताम् ।यथा -अ-कृत्रिम-प्रेम-रस-
मधुरैः स्व-कराम्बुजैः॥ 329
शुद्धैः स्व-भाव–मधुरैः
सुख-स्पर्शैः सु-गन्धिभिः।
संवाह्यमानम् अ-निशं
शेष-शेषाशनादिभिः॥ 330
अ-सत्यस्यातिनीचस्य
भक्ति-हीनस्य दुर्-मतेः।
ममापि करयोर् अद्य
स्वयैव कृपया हरे॥ 331
निधेहि चरणद्वन्द्वं
त्वाम् अस्मि शरणं गतः।(5)----
Vishvas /विश्वासः
You received this message because you are subscribed to the Google Groups "Hindu-vidyA हिन्दुविद्या" group.
To unsubscribe from this group and stop receiving emails from it, send an email to hindu-vidya...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/hindu-vidya/CAFY6qgFJskwnfgYymaH_nPMfc8hx%3D70J-nmgRf97CLw%3DvFUUvQ%40mail.gmail.com.
----
Vishvas /विश्वासः----
Vishvas /विश्वासः----
Vishvas /विश्वासः----
Vishvas /विश्वासः----
Vishvas /विश्वासः----
Vishvas /विश्वासः----
Vishvas /विश्वासः
न्यामकलानिधिस्तवः
**प्रपद्ये** शरणं श्रीमन्-
नारायण दया-निधे ।
**निश्चित्य** त्वत्-पदाम्भोज-
निखिलामय-भेषजम् ॥
श्री-**करारर्पित-संवाह**-
द्विगुणामोद-मार्दवम् ।
सदा पदाम्बुजातं ते
शिरो-भूषणम् **अस्तु** नः ॥+++(5)+++
आधि-व्याधि-भर-क्लिष्ट-
शरीरेन्द्रिय-चेतसाम् ।
अस्माकं त्वत्-पदाम्भोज-
**प्रपत्तिर्** अमृतायताम् ॥
अनन्य-शरणा भक्तिर्
अ-मन्देह-भया त्वयि ।
अस्मद्-**आलम्बनं भूयाद्**
**अपायेष्व् अनपायिनी** ॥
रक्षकस् त्वं वयं **रक्ष्या**
बन्धे ऽस्मिन् भवद्-ईप्सिते ।
श्रद्धा **बध्नातु** नः शुद्धा
त्वत्-कृपैक-प्रसारिणी ॥
त्वद्-आयत्तास् त्वद्-आज्ञप्तास्
त्वत्-परास् सकलाः **क्रियाः** ।
सदा **स्फुरन्तु** नश् चित्ते
**चलन्तु** च **फलन्तु** च ॥
त्वदीयामोघ-संकल्प-
घण्टा-पथ-**पलायितान्** ।
मा निरुन्ध्युः कदाप्य् अस्मान्
अन्य-सङ्कल्प-कण्टकाः ॥
चित्ते भक्ति-सुधा-**स्विन्ने**
**प्रपित्सूनां** सदापि नः ।
भूयात् संमुद्रिता मूर्तिस्
तव मुग्ध-मनोहरा ॥
अनन्तैर् अद्भुतैर् नित्यम्
अनुक्रम-विकासिभिः ।
क्षुद्रम् अस्मन्-मनो-व्योम
**विस्तारय** निजैर् गुणैः ॥+++(5)+++
[[P54]]
[[P46]]
अपारे ऽति-गभीरे त्वत्-
प्रभावामृत-सागरे ।
**शिक्षय प्लवन-क्रीडाम्**
**अवलम्ब्य** त्वम् एव नः ॥+++(5)+++
कृत्याकृत्य-विवेकेषु
**धुन्वती** तिमिरं दृशि ।
अस्मत्-सर्वस्वम् **आविध्य**
**वर्तयेद्** विभुता तव ॥
अनामयम् अदीनत्वम्
अनुत्सेकम् अदम्भताम् ।
**आदधातु** भवान् अस्मास्व्
आत्म-**कैङ्कर्य-पूर्तये** ॥
अनिर्वेदम् असिद्धेषु
साधितेष्व् अनहंकृतिम् ।
अनालस्यं च साध्येषु
कृत्येष्व् **अनुगृहाण** नः ॥+++(5)+++
स्व-च्छन्दं भवतश् छन्दे
पारवश्यं भवद्-वशे ।
**पश्यतां** नस् सदा चित्तं
समाधत्तां शमाध्वनि ॥
निसर्गाद् **भ्रश्यतां** धर्मे
निर्वेदालस-गामिनाम् ।
एकस् तव क्षमा ऽस्माकम्
**आलम्बः** पात-हेतुषु ॥
सर्वत्र **उत्पश्यतां** भीतिं
सदा **स्फुरतु** नो हृदि ।
सर्व-वात्सल्य-मधुरा
सर्वान्तर्यामिता तव ॥
स्वयं स्व-प्रीतये श्रीमान्
इमं न्यास-कला-निधिम् ।
सदयो ऽनन्तकृष्णस्य
**वदनाद् उददीधरत्** ॥
पद्मा-नायक--पाद-पद्म-युगले पर्याय-भृङ्गात्मना
चेतो मे चिर-पक्ष-पात-विभवाद् आस्वादम् **आसीदतु** ।
अध्यात्म-श्रुति-दुग्ध-सिन्धु-लहरी--**सञ्चार-सम्भावितैः**
हंस-श्रीर् **अधिगम्यते** सुकृतिभिर् **यत्रोल्लसद्**-बुद्धिभिः ॥