प्रमाण-बल-बोधक-वाक्यानि

13 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 13, 2024, 2:37:48 AM4/13/24
to चेतो-देव-जीवादि-तत्त्व-विचारः
अस्मिन् सूत्रे नानादार्शनिकाभिप्रायान् प्रमाणविसयान् सञ्जिघृक्षामि। 
भवन्तो ऽपि सूचयन्तु। 

प्रारब्धुम् -


Brilliant shrI rAmAnuja (रामानुजो वेदार्थसङ्ग्रहे ) clearly limiting scope of shAstra, mincing no words (while tearing up shankara's contra-pratyaxa jagan-mithyA-vAda)-

> आकाश-वाय्व्-आदि--भूत--
तद्-आरब्ध-शब्द-स्पर्शादि-युक्त-मनुष्यत्वादि--
संस्थान-संस्थित-पदार्थ-ग्राहि प्रत्यक्षम् ।
>
> शास्त्रं तु
प्रत्यक्षाद्य्--अ-परिच्छेद्य--
सर्वान्तरात्मत्व-सत्यत्वाद्य्-
अनन्त-विशेषण-विशिष्ट-ब्रह्म--स्व-रूप-- >
तद्-उपासनाद्य्-आराधन-प्रकार-
तत्-प्राप्ति-पूर्वक--
तत्-प्रसाद-लभ्य-फल-विशेष--
तद्-अनिष्ट-करण-मूल--निग्रह-विशेष-विषयम्>
> इति न शात्र-प्रत्यक्षयोर् विरोधः ।


नीलकण्ठः सोमयाजी ज्योतिर्विषये -


यः सिद्धान्तो दर्शनाविसंवादी भवति सोऽन्वेषणीयः।  
दर्शनसंवादञ्च तदानीन्तनैः परीक्षकैर्ग्रहणादौ विज्ञातव्यः॥


मञ्जूषा - 

ऋष्यार्यम्लेच्छानां समानं प्रमाण्यम् -- शब्दप्रयोगे

जैमिनिसूत्रम् - आर्यम्लेच्छाधिकरणम् / पिकनेमाधिकरणम् -

चोदितं तु प्रतीयेत अविरोधात् प्रमाणेन


शङ्करः -

अयमेव च तर्कस्यालङ्कारः -  
द् अप्रतिष्ठितत्वं नाम।  
एवं हि सावद्यतर्कपरित्यागेन निरवद्यस्तर्कः प्रतिपत्तव्यो भवति।  
न हि पूर्वजो मूढ आसीद्  
त्यात्मनापि मूढेन भवितव्यम् इति किञ्चिदस्ति प्रमाणम् । 



न हि श्रुतिशतमपि ‘शीतोऽग्निरप्रकाशो वा’ इति ब्रुवत् प्रामाण्यमुपैति । यदि ब्रूयात् ‘शीतोऽग्निरप्रकाशो वा’ इति, तथापि अर्थान्तरं श्रुतेः विवक्षितं कल्प्यम्। प्रामाण्यान्यथानुपपत्तेः। न तु प्रमाणान्तरविरुद्धं स्ववचनविरुद्धं वा ।

न धर्मजिज्ञासायामिव श्रुत्यादय एव प्रमाणं ब्रह्मजिज्ञासायाम् । किन्तु श्रुत्यादयो ऽनुभवादयश् च यथासम्भवमिह प्रमाणम्, अनुभवावसानत्वाद् भूतवस्तुविषयत्वाच् च ब्रह्मज्ञानस्य ।

 स्वविषयशूराणि हि प्रमाणानि॥

पतञ्जलिः - 

क्व पुनरिदं पठितम् ? भ्राजा नाम श्लोकाः । किंच भोः श्लोका अपि प्रमाणम् ? किंचातः ? यदि प्रमाणम् , अयमपि प्रमाणम् भवितुम् अर्हति ..... प्रमत्तगीत एष तत्रभवतः । यस्तु अप्रमत्तगीतः तत्प्रमाणम् ।




--
--
Vishvas /विश्वासः



विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 13, 2024, 2:39:57 AM4/13/24
to चेतो-देव-जीवादि-तत्त्व-विचारः
कुमारीलभट्ट इतिहासपुराणेषु 


ये तु वाक्यशेषत्वं न प्रतिपद्यन्ते 
तेऽपि केचित्स्वयमेव श्रूयमाणगन्धमादनादिवर्णकप्रभृतयः प्रीतिं जनयन्ति । ये तु युद्धवर्णकास्ते सर्वेषां शूराणां भीरूणां चोत्साहकराः पार्थिवानामुपयुज्यन्ते । यत्र तु न किंचिद्दृष्टमुपलभ्यते तत्र विशिष्टदेवतादिस्तुतिद्वारमदृष्टं कल्पनीयमित्येषा दिक् ।
तत्र तु केचिद्विधिप्रतिषेधाः श्रुतिमूलाः केचिदर्थसुखादिषु लोकमूलास्तथाऽर्थवादाः केचिद्वैदिका एव केचिल्लौकिका एव केचित्तु स्वयमेव काव्यन्यायेन रचिताः । सर्वे च स्तुत्यर्थेन प्रमाणम् ।
वेदप्रस्थानाभ्यासेन हि वाल्मीकिद्वैपायनप्रभृति भिस्तथैव स्ववाक्यानि प्रणीतानि । प्रतिपाद्यानां च विचित्रबुद्धित्वाद्युक्तमेवैतत् । इह केचिद्विधिमात्रेण प्रतिपद्यन्ते । अपरे सार्थवादेनापरेऽल्पेनार्थवादेनापरे महता । सर्वेषां च चित्तं ग्रहीतव्यमित्येवमारम्भः ।
तत्रापि तु दान-राज-मोक्ष-धर्मादिषु केचित् साक्षाद् विधयः, केचित् पुनः परकृतिपुराकल्परूपेणार्थवादाः।
सर्वोपाख्यानेषु च तात्पर्ये सति, श्रावयेदिति विधेर् आनर्थक्यात् - कथञ्चिद् गम्यमान-स्तुति-निन्दा-परिग्रहः ।
तत्परत्वाच्च नातीवोपाख्यानेषु तत्त्वाभिनिवेशः कार्यः।
एवं भारतादिवाक्यानि व्याख्येयानि । तेषामपि हि श्रावयेच्चतुरो वर्णानित्येवमादिविध्यनुसारेण - पुरुषार्थत्वान्वेषणाद्, अक्षरादि व्यतिक्रम्य, धर्मार्थकाममोक्षाधर्मानर्थदुःखसंसारसाध्यसाधनप्रतिपत्तिर् उपादानपरित्यागाङ्गभूता = फलम् । 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 16, 2024, 4:32:27 AM4/16/24
to चेतो-देव-जीवादि-तत्त्व-विचारः, आर्यांशः AryAMshaH वासिष्ठः
नीलकण्ठः सोमयाजी 

> तस्मात् शिष्यप्रशिष्यपरम्परया  
> सर्वैरपि परीक्षणं कार्यम् ।  
> शिष्याणां ग्रह-गति-परीक्षासामर्थ्यापादनम् एव शास्त्र-प्रयोजनम्
> करणानाम् एव हि व्यावहारिकत्वं सूक्ष्मत्वं च स्यात्

> "Therefore, experimentation has to be done by each generation of researchers [disciples] and their grand-disciples. The foundation of science is teaching the students the ability to conduct proper experimentation [by which they can advance the relevant field of study, here being planetary motion]”

Source: [TW](https://vriitrahan.wordpress.com/2020/12/11/nilaka%E1%B9%87%E1%B9%ADha-somayaji-s-wisdom/)

> पञ्चसिद्धन्तास् तावत्
क्वचित्काले प्रमाणम् एव इत्य् अवगन्तव्यम् ।
अपि च यः सिद्धान्तः दर्शनाविसंवादी भवति
सोऽन्वेषणीयः ।  
दर्शन-संवादश् च  
तदानीन्तनैः परीक्षकैः
ग्रहणादौ विज्ञातव्यः ।

> “The 5 siddhānta-s till now were authoritative in some time indeed. Such a thing must be understood. [althought they might not be authoritative now] And the siddhānta that is uncontradictory to observation, that must be sought for. And then the conformity of observation must be verified by the succeeding [contemporary] examiners in the beginning of eclipses.”
> गणितोन्नीतस्य चन्द्रादेः देश-विशेषान्वयस्य प्रत्यक्षेण संवादः ,  
ततो निश्चितान्वयस्य परस्य गणित-लिङ्गोपदेशः ,
ततस् तस्याप्तोपदेशावगतान्वयस्य अनुमानं संवादः ,
परस्मै चोपदेशः इति सम्प्रदायाविच्छेदात् प्रामाण्यम् ।

> “The correlation of the calculated Moon and others, with actual observation at a particular place, the revision of calculation on the basis of such correlation, logical inference therefrom being transmitted as tradition, it being again correlated [with observation and again revised] and communicated down to others—this is how tradition is continued without interruption, and hence its [continued] authoritativeness.”

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Apr 23, 2024, 9:37:08 AM4/23/24
to चेतो-देव-जीवादि-तत्त्व-विचारः
रामानुजः - 

अप्राप्ते तु शास्त्रम् अर्थवत्। 

यतीन्द्रमतदीपिकायम् उद्धृतं किञ्चित् - 

अप्राप्ते तु विधीयन्ते
बहवोऽप्य् एक-यत्नतः



विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 18, 2024, 12:38:29 AM5/18/24
to चेतो-देव-जीवादि-तत्त्व-विचारः
शब्द-प्रमाण-प्रयोगे श्रीमद्-वेङ्कटनाथार्यः 

"न प्रधान-विरोधः स्याद्
ईदृशानवधारणे" ।
इति शिक्षयितुं शिष्यान्
प्राचां क्वचिदनिश्चयः ॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 26, 2024, 10:36:54 PM5/26/24
to चेतो-देव-जीवादि-तत्त्व-विचारः
शास्त्रयोन्यधिकरणे श्रीभाष्यम् -

> "अतीन्द्रियेऽर्थे शास्त्रम् एव प्रमाणं"

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 28, 2024, 7:55:26 AM5/28/24
to चेतो-देव-जीवादि-तत्त्व-विचारः
वेङ्कटनाथार्यः सर्वार्थसिद्धौ - 

चन्द्र-बिम्ब-पर-भागादिषु व्यवधान-विप्रकर्षादिभिर् अस्मद्-आदीन्द्रिय-ग्रहणानर्हेषु नानुमानम्
(तीक्ष्ण-प्रभा-निभ-विशेषे साध्ये) तस्य (अनुमानस्य) पक्षाश्रय--हेतु-धर्म--व्यापकान्वय-मात्रातिरिक्तेषु प्रवृत्त्य्-अयोगात्,
(गर्त-युक्तत्वादि-)साध्य-सामान्यस्य तु
(तीक्ष्ण-प्रभा-निभ-)विवक्षित-विशेष-विरुद्ध-व्याप्तत्वेन तद्(→विवक्षित-विशेष)-आकर्षकत्वायोगात् ।(5)


तत्रोत्तमूरु-वीरराघवार्यः-

अनुमानं प्रवर्तमानं
विशेषतो दृष्टं वा
सामान्यतो दृष्टं वा ।

नाद्य इत्याह चन्द्रेति ।

चन्द्र-बिम्ब-पर-भागादिषु व्यवधान-विप्रकर्षादिभिर् अस्मद्-आदीन्द्रिय-ग्रहणानर्हेषु नानुमानम्

व्यवधानं - तिरोहितत्वम् ।
विप्रकर्षः - दूरस्थत्वम् ।
चन्द्रबिम्बस्य पर-भागः
दृश्यमानाद् अन्यः पश्चाद्भागः कश्चिद् अस्तीति मत्यां सत्याम् अपि
तत्रत्य-विशेषा नानुमातुं शक्या
इति भावः ।

तस्य पक्षाश्रय--हेतु-धर्म--व्यापकान्वय-मात्रातिरिक्तेषु प्रवृत्त्य्-अयोगात्,

पक्षेति ।
पक्षरूपो य आश्रयः,
हेतुरूपो यस्तद्धर्मः,
व्यापकेन साध्येन सह तस्यान्वयो यः,
तद्-अतिरिक्तेषु न प्रवृत्तिः;
व्याप्ति-पक्ष-धर्मत्वोभय-विशिष्ट-हेतु-साध्य-साधकत्वम् एव तस्येति भावः ।

न द्वितीय इत्याह - साध्यसामान्यस्येति ।

साध्य-सामान्यस्य तु
विवक्षित-विशेष-विरुद्ध-व्याप्तत्वेन तद्-आकर्षकत्वायोगात् ।

विवक्षित-विशेष-विरुद्धेति ।
सामान्य-मुख-व्याप्त्या सामान्यम् एव सिध्येत् ।

करण-सामान्ये
शर-परशु-कलशादौ उपलभ्यमानाः विशेषाः
भवद्-अभिमत-विशेष-विरुद्धाः ।


विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 28, 2024, 8:42:31 PM5/28/24
to चेतो-देव-जीवादि-तत्त्व-विचारः
Reg. Theory building > न चादृष्ट-भेदो ऽपेक्ष्यः,
तस्य दृष्टोपहारेण चरितार्थत्वात् ;
अन्यथा ऽतिप्रसङ्गात् ।
प्रतिबन्धकाभावे ह्य् अदृष्टोपनीत-दृष्ट-सामग्र्यैव कार्य-सिद्धिर् नियता ।

इति सर्वार्थ-सिद्धौ वेङ्कटनाथार्यः।

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jan 8, 2025, 5:05:52 AMJan 8
to चेतो-देव-जीवादि-तत्त्व-विचारः
bcc - कल्प-प्रयोग-धारा

इदम् अपि स्पृहणीयं मेधातिथेर् भाष्यात्

"अयं विधिः", "अयम् अर्थः", "इदं कर्मैवं रूपम्", "इयम् अत्र देवता", "इदं द्रव्यम्", "अयम् अत्राधिकारी", "इयम् इतिकर्तव्यता" इत्यादि स्व-बुद्ध्या निश्चिनुयात् ।  
व्याख्यातॄणां मतभेदाद् +धेतून् निरूपयेद् - "अस्य सम्यग् ज्ञानम्, अस्य भ्रान्तिर्" इति ॥ ४.९२ ॥
(स्रोतः - https://x.com/sharmasatyan/status/1876857407256539647)
Or, in connection with the ritualistic section of the Veda also, he should ponder over the real meaning of the texts; that is, in his own mind he should determine that ‘this is an Injunction,’ ‘this its meaning;’ ‘this the action prescribed,’ ‘this is the form of the act,’ ‘this is the Deity of this sacrifice,’ ‘this the material to be employed,’ ‘such and such a person is entitled to its performance,’ ‘such and such is the procedure to be adopted,’ and so forth. He should also ponder over the diverse explanations provided by the Commentators, and with the help of reason, he should decide whose explanation is correct and whose wrong.

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jan 8, 2025, 5:22:28 AMJan 8
to चेतो-देव-जीवादि-तत्त्व-विचारः
भवति ह्यस्माकम् अप्रत्यक्षमपि चिरन्तनानां प्रत्यक्षम् । तथा च व्यासादयो देवादिभिः प्रत्यक्षं व्यवहरन्तीति स्मर्यते । यस्तु ब्रूयात् इदानीन्तनानामिव पूर्वेषाम् अपि  नास्ति देवादिभिः  व्यवहर्तुं सामर्थ्यमिति स जगद्वैचित्र्यं प्रतिषेधेत् .... ।

इति शङ्करः। 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jan 15, 2025, 4:10:44 AMJan 15
to चेतो-देव-जीवादि-तत्त्व-विचारः
इदम् अपि चारु https://x.com/Andercot/status/1878288992900153467

Skepticism is healthy but not a good way to create new knowledge. It's like editing every sentence to perfection as you write. You gotta generate tons of ideas and see what works. Skepticism is the filtering function, not the generating function. Shots on goal matters.

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Mar 25, 2025, 2:55:33 AMMar 25
to चेतो-देव-जीवादि-तत्त्व-विचारः
श्रुतोपपत्तये ऽप्य् अनुपपन्नं विरुद्धं च न कल्पनीयम्। - रामानुजः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Mar 30, 2025, 10:06:52 PMMar 30
to चेतो-देव-जीवादि-तत्त्व-विचारः
> परश्-शत-परिक्षोदात्  
> परस्ताद् अपि वादिभिः ।
> **उपलम्भ**-बले **स्थेयं**
> किम् आदौ तन् न **गृह्यते**"
(वेङ्कटनाथः न्यायसिद्धाञ्जनम् जड. परि. )

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 1, 2025, 5:06:18 AMMay 1
to चेतो-देव-जीवादि-तत्त्व-विचारः
> प्रत्यक्षेणानुमित्या वा  
यस् तूपायो न बुध्यते।
तं विदन्ति तु वेदेन
तस्माद् वेदस्य वेदता ॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 15, 2025, 4:58:53 AMJul 15
to चेतो-देव-जीवादि-तत्त्व-विचारः
मध्वो विष्णुतत्त्वनिर्णयय् उद्धरति ब्रह्मतर्कात् -

> ज्ञानं च द्विविधं बाह्यं  
तथा ऽनुभव-रूपकम् ।  
बल्य् एवानुभवस् तत्र  
निर्दोषं त्व् अक्ष-जादिकम् ॥  
> अनुप्रमाणतां याति  
तथा ऽक्षादि-त्रयं ततः ।  
प्राबल्यम् आगमस्यैव  
जात्या तेषु त्रिषु स्मृतम् ॥

तत्र टीका -

> > ‘क्व च प्रत्यक्षतः प्राप्तम्  
अनुमागम् अबाधितम्’  
>
> इति प्रत्यक्षस्य जात्य्-आदिना प्राबल्य-वचनं तु  
लौकिकार्थ-विषयम् ।  
अत एव  
>
> > ‘प्राबल्यम् आगमस्यैव  
जात्या तेषु त्रिषु स्मृतम्’  
>
> इति अलौकिकार्थे आगमस्यैव जात्या प्राबल्याभिधानं सङ्गच्छते इति सर्वम् अनवद्यम् ।

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 30, 2025, 11:39:30 PMJul 30
to चेतो-देव-जीवादि-तत्त्व-विचारः
पुराणेभ्यस् सर्वो ऽप्य् अर्था न ग्राह्यः,  
समाधि-भाषादि-भेदेन तात्पर्यं ग्राह्यं ज्ञेयं वेति  
महाभारत-तात्पर्य-निर्णये मध्वः -

> लोकदर्शनम् **आश्रित्य**  
देवाश्च मुनयस् तथा ।  
**ब्रूयुः** कथास्, तत्र शिक्षा  
**ग्राह्या**, नार्थः कथञ्चन २२.३७२ ।  
>
> अर्थः समाधि-भाषासु  
**ग्राह्यः** सर्वोऽप्य् असंशयम् ।  
>
> पर-दर्शन-भाषासु  
**ज्ञेयं** तद्-दर्शनं तथा ॥ ३७३॥  
**ग्राह्यो** नार्थो, वैदिकं तु  
दर्शनं **ग्राह्यम्** एव च ।  
>
> अन्यार्थो गुह्य-भाषासु  
**ग्राह्य** एवं **विनिर्णयः** ॥ ३७४॥


विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 30, 2025, 11:40:10 PMJul 30
to चेतो-देव-जीवादि-तत्त्व-विचारः
ईश्वरेच्छा ऽपर्यनुयोज्येति 

> > नन्वेवं वेदपुराणयोर् नित्यत्वे  
पुराणानां पुना रचनं,  
न वेदस्य इत्य् एतत् कुतः?  
>
> इति चेत्,  
प्रमाण-प्रश्नश् चेद् उक्ताद् एव पुराणवाक्यादेर् इति ब्रूमः ।  
प्रयोजन-प्रश्नस् त्व् अयुक्तः -  
ईश्वर-प्रवृत्तेः सर्वत्र स्वप्रयोजन-हीनत्वात् ।  
पर-प्रयोजनानि तु सूक्ष्माण्य् उत्प्रेक्षितुं वयं न प्रभवामः ।  
भगवानाचार्योऽपि इदानीं प्रयोजनाभावान् नावादीद् इति ।

इति जयतीर्थो विष्णु-तत्त्व-निर्णय-[टीकायाम्]

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Aug 11, 2025, 5:34:56 AMAug 11
to चेतो-देव-जीवादि-तत्त्व-विचारः

शिष्योऽपि पूर्वपक्षस्थस्तदेवात्ममतं ब्रूवन् । 
नैव दुष्यत्यसत्येन स्थिरत्वार्थं हि तद्वचः ॥
"When a student presents an opponent's argument (Purvapakṣa) as his own [even challenging his Guru], he is not at fault and commits no sin. In fact, [his words serve a higher purpose, for the stronger the objection raised, the more powerful and comprehensive the refutation must be] thus serving the very purpose of making the Siddhanta exceptionally firm and unshakable"
~Bhāgavatatātparyanirṇaya, Śri Madhvacharya

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Aug 13, 2025, 12:25:13 AMAug 13
to चेतो-देव-जीवादि-तत्त्व-विचारः
विष्णुतत्त्व-निर्णये मध्वः -

यच् च प्रमाण-दृष्टानाम् अपि पदार्थानां मिथ्यात्व-कल्पनं
तच् च प्रमाण-विरुद्धत्वाद् एव प्रकाश-तस्करत्वम् ।
नहि प्रमाण-दृष्टस्य तर्क-बाध्यत्वं -
प्रत्यक्षादि-विरुद्धानां तर्काभासत्व-नियमात् ।

शुक्त्यादे रजतत्वादि-प्रतीतेर् अपि बलवत्-प्रत्यक्ष-विरुद्धत्वाद् एव शुक्त्यादेर् भ्रमत्वं,
न तर्क-मात्रात् ।
तर्क-मात्रतः प्रत्यक्ष-बाधने भूत-चतुष्टयस्याबादेः पृथिवीत्वाद् दृष्टेः
पृथिव्या अपि पृथिवीत्वं न स्यात् ।
अतो न तर्क-मात्रत एव दृष्टस्य भ्रान्तित्वं कल्प्यम् ।+++(5)+++

अतः सर्व-भेद-निरासक-तर्कस्य सर्व-श्रुति-स्मृति-प्रत्यक्षानुमान-विरुद्धत्वात् नितराम् आभासत्वम् ।

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Nov 12, 2025, 3:03:20 AMNov 12
to चेतो-देव-जीवादि-तत्त्व-विचारः
> “देव-**गुह्येषु** चान्येषु
हेतुर् देवि निर्-अर्थकः ।
बधिरान्धवद् एवात्र
वर्तितव्यं हितैषिणा”
( भारतम् आनुशाासनिक-पर्व २२८-६०)
Reply all
Reply to author
Forward
0 new messages