नमोनमःचार्वाकाः धूर्ताः नास्तिकाः असुराः राक्षसाः मायाविनः इत्यादिना उपाधिना सर्वदा तिरस्कृताः प्रायः संपूर्णे एव आर्यवर्तवाङ्मये ।
प्रायः तेषाम् एतावत् विद्वेषः आसीद् अन्यैः सह यत् तेषां मतस्य एकोऽपि ग्रन्थो न प्राप्तः अद्य ।
अत अत्र चार्वकानां यत् किमपि शेषं वाङ्मयम् उपलभ्यते इतस्ततः तस्य संग्रहणं संशोधनं च करोमि । भवन्तः अपि सहायतां कुर्वन्तु ।
--धन्योऽस्मि-----------तदेतत् सर्व्वं बृहस्पतिनाप्युक्तम् ।“न स्वर्गो नापवर्गो वा नैवात्मा पारलौकिकः ।नैव वर्णाश्रमादीनां क्रियाश्च फलदायिकाः ।अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् । बुद्धिपौरुषहीनानां जीविका धातृनिर्म्मिता ।पशुश्चेन्निहतः स्वर्गं ज्योतिष्टोमे गमिष्यति ।स्वपिता यजमानेन तत्र कस्मान्न हिंस्यते ।मृतानामपि जन्तूनां श्राद्धं चेत्तृप्तिकारणम् ।गच्छतामिह जन्तूनां व्यर्थं पाथेयकल्पनम् ।स्वर्गस्थिता यदा तृप्तिं गच्छेयुस्तत्र दानतः । प्रासादस्योपरिस्थानामत्र कस्मान्न दीयते? ।यावज्जीवेत् मुखं जीवेदृणं कृत्वा घृतं पिबेत् । भस्मीभूतस्य देहस्य पुनरागमनं कुतः ।यदि गच्छेत् परं लोकं देहादेष विनिर्गतः ।कस्माद्भूयो न चायाति? बन्धुस्नेहसमाकुलः ।ततश्च जीवनोपायो ब्राह्मणैर्निहितस्त्विह ।मृतानां प्रेतकार्य्याणि न त्वन्यद्विद्यते क्वचित् ।त्रयो वेदस्य कर्त्तारो भण्डधूर्त्तनिशाचराः । जर्फरीतुर्फरीत्यादि पण्डितानां वचः स्मृतम् ।अश्वस्यात्र हि शिश्नन्तु पत्नीग्राह्यं प्रकीर्त्तितम् । भण्डैस्तद्वत् परञ्चैव ग्राह्य जातं प्रकीर्त्तितम् ।मांसानां खादनं तद्वन्निशाचरसमीरितमिति” ।--------------------इदं सर्वदर्शनसंग्रहतः ।
You received this message because you are subscribed to the Google Groups "Hindu-vidyA हिन्दुविद्या" group.
To unsubscribe from this group and stop receiving emails from it, send an email to hindu-vidya...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/hindu-vidya/CA%2BksRZcfdSnckmBPuzBJx3PCs1UMQHsnrOvV1CiPb4MzYxy5gA%40mail.gmail.com.
अत्र चार्वाकाणां मतं महामोहस्य वचनमिति उक्तम् । तेषामनुयायिनः च दैत्या इति उक्तम् ।
अहं न मन्ये ते बलहीना इति । तेषां मतम् अर्वाचीनविज्ञाने तुल्यम् ।
पुनः तेषां संपूर्णमतं नोपलब्धम् अतः न वक्तुं शक्नुमः यत् ते संपूर्णतया पापपुण्यानां तिरस्कारं कृतवन्तः । मम मतेन ते केवलं व्यर्थक्रियाकलापानां तिरस्कारं कृतवन्तः यथा अग्रिहोत्रादि ।
प्रावोन्मज्जनवत् 'ग्रावाणः प्लवन्ते' इति प्रतिपादितपाषाणतरणवज् ज्योतिष्टोमादियज्ञानां साध्ये स्वर्गादौ फलेपि 'ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यादिश्रुतीनां सत्यता यथार्थता । ग्रावोन्मज्जनवाक्यस्य प्रत्यक्षबाधितत्वात्, यागानन्तरमेव स्वर्गादेरदृष्टत्वाज्ज्योतिष्टोमादियागप्रतिपादिका श्रुतिरपि प्रत्यक्षबाधिता । तथाच 'यागश्रुतिरप्रमाणम्, प्रत्यक्षविरुद्धत्वाद्ग्रावोन्मज्जनश्रुतिवत्' इति प्रयोगाद्यागश्रुतेरपि स्वर्गादावसत्यतेति च व्याख्येयम् । अत्र विरुद्धलक्षणया सत्यतेत्यस्याऽसत्यतेत्यर्थः । एवमन्येषामपि वेदवाक्यानां श्रुतित्वाविशेषादप्रमाणत्वे हे धीवृद्धाः बुद्धिमन्तो देवास्तत्र फले श्रुतौ वा युष्माकं का श्रद्धा कथमास्तिक्यम्। अपि त्वप्रामाणिकेर्थे श्रद्धा न कार्या । यद्येन कारणेन यद्वशाद्वेदोक्तविद्यातिक्रमभिया कामाध्वा यदृच्छाचारमार्गः खिलीकृतो बद्धः । त्यक्त इत्यर्थः । श्रुतिमात्रस्याप्रमाणत्वाद्यज्ञे यजमानर्त्विजां कतिचिदहानि यद्ब्रह्मचर्यं तदप्यप्रामाणिकत्वात्त्यजतेति भावः । 'धीवृद्धाः' इत्युपहासे । अतिमूर्खा भवन्त इत्यर्थः ॥
- नैषधीयचरितात्
-----------
> How can any evil result? Could political institutions and laws ever be as good [i.e., efficacious] as this?
अहमनेन सहमतो नास्मि महोदय । अन्यान् वञ्चयित्वा या शान्तिः वा सुखं प्राप्यते तद् अस्थायि एव कमलपत्रे जलबिन्दुरिव । ज्ञानमात्रेणैव उद्धारं वर्तते न तु वञ्चनेन । वञ्चनम् अज्ञानं प्रसारयति । अज्ञानं च दुःखम् स्वस्मै परस्मै च ।
केनापि बोधिसत्वेन जातं सत्त्वेन हेतुना । |
केनाप्यज्ञातनाम्ना बोधिसत्त्वेनातिप्राज्ञेन जिनभट्टारकेण वेदस्य मर्मभेदाय रहस्यभङ्गाय जातमुत्पन्नम् । वेदमर्मभेदः कर्तुमारब्ध इति यावत् । कथमत आह-यद्यस्मात्सत्त्वेन हेतुना सत्त्वरूपेण लिङ्गेन यत्सत्तत्क्षणिकम् , यथा घट इत्यादिरूपेण जगदस्थिरं क्षणिकं जगदे प्रत्यपादि । सत्त्वलिङ्गेन विश्वस्य क्षणिकत्वसिद्धावुभयलोकगतं स्थिरमेकं कर्तारमधिकारिणमाश्रित्य वेदैर्विहितानां विधिनिषेधानां निराश्रयतया वेदस्याप्रामाण्यापादनाद्वेदमर्मभेदः कृत इत्यर्थः । बौद्धसिद्धान्तस्तु ग्रन्थान्तराद्बोद्धव्यः । विस्तरभयादत्र नोक्तः। अयं वक्ता पूर्वस्माद्भिन्नः। चार्वाक एव वा स्वमतं वेदाप्रामाण्यं बौद्धसंवादेन द्रढयति - केनेति । सत्त्वेन हेतुना यस्माज्जगदस्थिरं जगदे । तस्मात्केनापि लोकोत्तरप्रज्ञेन तेनैव चार्वाकेण वेदमर्मभेदाय बौद्धेन जातम् । तदीयमताङ्गीकरणात्तद्रपेणैव जातमित्यर्थः । 'जगाद' इति पाठे यद्बोधिसत्त्वं जगदस्थिरं जगादेति व्याख्येयम् ।
प्रकरणे अस्य सादृश्यं कथम्? classical mechanics इति न परोक्षं फलं प्रतिपादयति । अस्माकं कारयानं प्रत्यक्षफलमस्य विज्ञानस्य । पुत्रपौत्राय आरोग्याय धनलाभाय इदं स्तोत्रं वेदमन्त्रं यज्ञं वा करोतु एवं रूपेण न अस्य विज्ञानस्य फलम् अप्रमाणिकम् ।
न च अध्यापकः बालकान् वञ्चयति एवमुक्त्वा यदेतद् classical mechanics अपौरुषेयमतः निर्वावादम् ।
अपि तु अध्यापकः भयेन विना साक्षाद् वदति यत् अग्रे गत्वा भवन्तः general relativity पठिष्यन्ति यत्र अस्य विज्ञानस्य बाधः भविष्यति ।
अकारुणिकस्य वचनमिदम् । मूढानां जडबुद्धौ अस्माकं गूढसिद्धान्तः न प्रविशति अतः वयं मिथ्यावदं प्रसारयामः येन अस्माकं विरोधो न भवेत् इति कोपि सद्बुद्धिः न वदिष्यति ।
> परोक्षप्रियत्वं वेदपुराणादेर् गुणायैवेत्य्वेदपुराणादेः मिथ्यात्वं रक्षणाय जनाः भिन्नभिन्नाः कल्पनाः कुर्वन्ति ।
इदमपि निराधारं यतः पशूनां बलिना अश्वमेधादिना क्रूरकर्मभिः कीदृशः चित्तशुद्धिः ? एवं चित्तशुद्धिः भवेच्चेत् जलेन अग्निर् वर्धेत ।
> चित्तशुद्धिर् नामाहिंसकतामात्रम् इति तु वैदिकाशयानवगतिं हि दर्शयति।
धर्मालम्बनं चित्तशुद्धिः । अहिंसा परमो धर्मः इति श्रूयते वारं वारं स्मृतिपुराणादिषु ।
> बालेभ्यो भयमोहनादिभिस् सदाचारादि शिक्षन्तः कारयन्तश् च तर्हि वृद्धास् स्युर् दुर्बुद्धयः :-Dसदाचारशिक्षणस्य सुखं ज्ञानपात्रता निःश्रेयसप्राप्ति इत्यादीनि प्रयोजनानि सिद्धानि । मिथ्यावादप्रसारे किं प्रयोजनम् ? केवलं भयं दुःखम् अज्ञानं तस्य फलानि यथा पशुयागे ।
On Sunday, May 19, 2024 at 10:16:43 AM UTC+5:30 Vishvas विश्वासः wrote:On Sun, 19 May 2024 at 09:37, लोकेश <lokeshh...@gmail.com> wrote:प्रकरणे अस्य सादृश्यं कथम्? classical mechanics इति न परोक्षं फलं प्रतिपादयति । अस्माकं कारयानं प्रत्यक्षफलमस्य विज्ञानस्य । पुत्रपौत्राय आरोग्याय धनलाभाय इदं स्तोत्रं वेदमन्त्रं यज्ञं वा करोतु एवं रूपेण न अस्य विज्ञानस्य फलम् अप्रमाणिकम् ।न च अध्यापकः बालकान् वञ्चयति एवमुक्त्वा यदेतद् classical mechanics अपौरुषेयमतः निर्वावादम् ।फलविशेषसाधने भवतु नामाश्रद्धा। त्यजतु नामापौरुषेयवादम्।कर्मणां प्रतिष्ठितानां धर्म-जयाद्य्-उचित-संस्कारजननमात्रम् अपि तिरस्कुर्वतां चार्वाकाणांस्वतो नाश एव तद्-वाद-शून्यताम् उपपादयति।अपि तु अध्यापकः भयेन विना साक्षाद् वदति यत् अग्रे गत्वा भवन्तः general relativity पठिष्यन्ति यत्र अस्य विज्ञानस्य बाधः भविष्यति ।अत्र तु वेदादाव् अपि समानम्।अकारुणिकस्य वचनमिदम् । मूढानां जडबुद्धौ अस्माकं गूढसिद्धान्तः न प्रविशति अतः वयं मिथ्यावदं प्रसारयामः येन अस्माकं विरोधो न भवेत् इति कोपि सद्बुद्धिः न वदिष्यति ।बालेभ्यो भयमोहनादिभिस् सदाचारादि शिक्षन्तः कारयन्तश् च तर्हि वृद्धास् स्युर् दुर्बुद्धयः :-D> परोक्षप्रियत्वं वेदपुराणादेर् गुणायैवेत्य्वेदपुराणादेः मिथ्यात्वं रक्षणाय जनाः भिन्नभिन्नाः कल्पनाः कुर्वन्ति ।सत्यत्वरक्षणायेति वाच्यम् प्रायेण। प्रमाणान्तरविरोधेऽर्थान्तरं विज्ञेयम् इति हि वैदिका वदन्ति।इदमपि निराधारं यतः पशूनां बलिना अश्वमेधादिना क्रूरकर्मभिः कीदृशः चित्तशुद्धिः ? एवं चित्तशुद्धिः भवेच्चेत् जलेन अग्निर् वर्धेत ।चित्तशुद्धिर् नामाहिंसकतामात्रम् इति तु वैदिकाशयानवगतिं हि दर्शयति।
--
You received this message because you are subscribed to the Google Groups "चेतो-देव-जीवादि-तत्त्व-विचारः" group.
To unsubscribe from this group and stop receiving emails from it, send an email to cheto-deva-jiv...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/cheto-deva-jivadi/fd7c4bf5-d54e-486a-86ef-4f7f41b140bfn%40googlegroups.com.
एकं संदिग्धयोस्तावद्भावि तत्रेष्टजन्मनि ।
हेतुमाहुः स्वमन्त्रादीनसाङ्गानन्यथा विटाः ॥ ५५ ॥
एकमिति ॥ भवनाभवनाभ्यां संदिग्धयोरर्थयोः पुत्रादिलाभालाभयोर्मध्ये एकमिष्टमनिष्टं वा तावनिश्चितं भावि भविष्यति । तत्र तयोर्मध्ये । तथा सति वा । इष्टस्य पुत्रादेर्जन्मनि लाभे सति विटा धूर्ताः परवञ्चनचतुराः स्वमन्त्रादीन्हेतुं कारणभूतानाहुः । अस्माभी रुद्रजपादि त्वदर्थ कृतम् , तेन त्वया पुत्रादि लब्धमिति वदन्तीत्यर्थः । अन्यथा पुत्राद्यलाभे तु तानेव मन्त्रानसाङ्गानङ्गविकलतया फलस्यासाधकान्प्राचीनपुत्रवियोगादिविपरीतफलकारिणश्वाहुः । सामग्रीसाकल्याभावाद्यथोक्तदक्षिणाभावात्फलं न जातम् , विपरीतं च जातमित्यर्थः । तस्मादृष्टफलपुत्रेष्ट्यादिदृष्टान्तेनादृष्टफलेष्वपि फलकल्पना निरवकाशेति श्रुतिरप्रमाणैवेति भावः ॥
चार्वाकान् स्निह्यन्तु द्विषन्तु वा किन्तु ते सत्यं वदन्ति ।
जयन्तु चार्वाकाः ॥
You received this message because you are subscribed to a topic in the Google Groups "चेतो-देव-जीवादि-तत्त्व-विचारः" group.
To unsubscribe from this topic, visit https://groups.google.com/d/topic/cheto-deva-jivadi/SoXvCeeOTes/unsubscribe.
To unsubscribe from this group and all its topics, send an email to cheto-deva-jiv...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/cheto-deva-jivadi/9fc78285-8338-44bd-81d7-c669215dede5n%40googlegroups.com.
परैरपि धर्माधर्मरूपमदृष्टं दृष्टमिति न व्यवह्रियते, दृष्टत्वादृष्टत्वयोर्विरोधात् ।
जलबिन्दुपानेन, वानराद्याः फलाशनेन, गवाद्यास्तृणभक्षणेन, पिपीलिकाः कणभोजनेन च तपस्वितां प्राप्नुयुः ।किङ्च जलका रक्तपानेन, पशवः पक्षिणो मृगाश्वागम्यागमनेन, अभक्ष्यभक्षणेन च नारकितां विन्देरन् ।
To view this discussion on the web visit https://groups.google.com/d/msgid/cheto-deva-jivadi/70f2fb27-06ea-43bc-bc82-1095e5a41892n%40googlegroups.com.
दृष्टधर्माधर्मवस्तु स्यात् । अदृष्टस्य विरोधाय प्रयत्नः कृतो त्र ।
> शास्त्राणि मानुषविषयाणीति तु वैदिकाः। अयं तर्ह्य् अनुक्तस्यैव निरासः।भवान् अभिप्रायो न ज्ञातवान् प्रायः । चर्मचीवराल्पवस्त्रधारणैः अल्पभोजनफलभक्षणादिभिः निरर्थकैः क्रियाकलापैः मुक्तिः तपो विशेषसिद्धिर् वा सिध्यति चेत् पशवः अपि मुक्ताः तपस्विनः सिद्धा वा स्युः इति आशयः ।
> भगवद्-विषये विचारो न कृत इति चार्वाकाणाम् महान् प्रमादः।
विचारस्तु कृतः खलु । ईश्वरस्य निराकरणं वारं वारं कृतं तैः ।
स्वञ्च ब्रह्म च संसारे मुक्तौ तु ब्रह्म केवलम् ।
इति स्वोच्छित्तिमुक्त्युक्तिवैदग्धी वेदवादिना् ।।७३।।
अथ मायावादिवेदान्तसिद्धान्तविशेषं विडम्बयति - स्वमित्यादि । संसारे संसारवस्थायां स्वञ्च जीवात्मप्रपञ्चञ्च, ब्रह्म च अनाद्यविद्याविलासवासनाविद्यमानभेदं ब्रह्म च इति द्वयमेव । तथा मुक्तौ मोक्षावस्थायां तु केवलं जीवात्मप्रपञ्चरहितम् एकं ब्रह्म उभयत्रापि वर्त्तते इति शेषः । यथा आकाशस्य घटाद्युपाधिनिवृत्तौ घटाकाशादिनिवृत्त्या आकाशमात्रेणावस्थानं तथा ब्रह्मात्मनः संसारोपाधिनिवृत्तौ जीवात्मनिवृत्त्या एकमेवाद्वितीयं ब्रह्म इत्यादिना ब्रह्मात्मस्वरूपेणैव अवस्थानं भवतीत्यर्थः । इति वेदवादिनां वेदान्तशास्त्रिणां स्वस्य जीवस्य उच्छित्तिः विनाश एव मुक्तिः मोक्षः तस्याः उक्तौ प्रतिपादने वैदग्धी वैदग्ध्यं वाक्चातुर्यमित्यर्थः । गुणवचन इत्यादिना ष्यञ् स्त्रीत्वविवक्षायां षिद्गौरादिभ्यश्य इति ङीप् । दृश्यते इति शेषः । यस्य जीवात्मनः कृते सर्वमेव तस्यैव उच्छेदः प्रतिपादित इत्यहो वाक्चातुर्यमित्युपहासः ।। 🤭
देवश्चेदस्ति सर्वज्ञः करुणाभागबन्ध्यवाक् ।
तत् किं वाग्व्ययमात्रान् नः कृतार्थयति नार्थिनः ।।७६।।
किञ्च, न्यायमतसिद्ध ईश्वरोsपि नास्ति यत्प्रसादात् मुच्येमहीत्याह - देव इति । सर्वज्ञः भूतभविष्यद्वर्त्तमानयावद्वस्तुविषयकज्ञानवान्, करुणाभाक् कारुणिकः, वैषम्यनैर्घृण्यरहितबुद्धिः इत्यर्थः । अबन्ध्यवाक् अमोघवचनः, वेदरूपसत्यवचन इत्यर्थः । यथोक्तार्थसम्पादकवचन इत्यर्थो वा देवः ईश्वरः अस्ति विद्यते चेत् यदि तत् तर्हि अर्थिनः मोक्षार्थिनः नः अस्मान् वाग्व्ययमात्राद् भवन्तो मुक्ता भवन्त्विति वाक्योच्चारणमात्रेण किं कथं न कृतार्थयति । न मोचयतीत्यर्थः । स सर्वज्ञादिविशेषणत्रयविशिष्टोsपि यदि न मोचयितुं समर्थो भवति तदा स नास्त्येवेति भावः ।।
भविनां भावयन् दुःखं स्वकर्मजमपीश्वरः ।
स्यादकारणवैरी नः कारणाद् अपरे परे ।।७७।।
आं लभ्यन्ते