--
You received this message because you are subscribed to the Google Groups "Hindu-vidyA हिन्दुविद्या" group.
To unsubscribe from this group and stop receiving emails from it, send an email to hindu-vidya...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/hindu-vidya/CAFY6qgHw2iaFHwfhrE3KKHOkEY0FrhJgWjkZAxiupOwjEADpyg%40mail.gmail.com.

To view this discussion on the web visit https://groups.google.com/d/msgid/hindu-vidya/CAKk0Te0nUu9%3DwT930jjsNy4Bu0DLxs9Sciq0prEBqPYFFuejzA%40mail.gmail.com.
तत्र स्व-रूप–निष्ठायाम् अभिज्ञापकानि लिङ्गानीमानि -
पर-कृत-परिभव-वेलायां परिभावकोदाहृत-दोषाणां देहानुबन्धित्व-ज्ञानेन स्व-रूपाननुबन्धित्व-ज्ञानेन च विषाद-राहित्यं,
तेषु च परिभावकेषु वृथा पतिष्यन्तीति अपार-कारुण्यं,
स्व-गत-दोष-स्मारकतया उपकार-स्मरणं,
स्व-स्व-कर्मानुगुण-फल-प्रदान(-तत्-क्षय-)-लक्षण–दया-रसवता भगवता प्रेर्यमाणाः परिभवन्तीति
तेषु निर्विकार-चित्तत्वं,
प्रारब्धं च कर्म स-मूलं विनश्यतीत्य् अतिसन्तोषश् च ।
तद् एतेषु चिह्नेषु परिदृश्यमानेषु
अचिद्-विलक्षणे सर्व-भूतानुकूल्याद्य्-अर्ह-ज्ञान-शालिनि
सर्वतो-मुखाकिञ्चन्यवति
स्वतः सर्व-समस्य कर्मानुगुण-फल-प्रदस्य स्व-तन्त्रस्य शेषिणः शेष-भूते
पर-तन्त्रे, परायत्त-हिते, स्व–स्व-रूपे निष्ठास्तीति विजानीयात् ॥
अथ पुरुषार्थ-निष्ठायाम् इमान्य् अभिज्ञान-लिङ्गानि -
प्रारब्ध-कर्म-विशेषानुरूप–भगवत्-सङ्कल्पायत्तत्व-बुद्ध्या
देह-यात्रायां नैश्चिन्त्यं,
शास्त्राविरुद्धस्य अ-प्रयत्नागतस्य विषयस्य
प्रारब्ध-कर्म-फल-रूप–ऋणापकरण-बुद्ध्या स्वीकरणं,
प्राप्तयोर् अपि सुख-दुःखयोः हर्ष-शोक-परित्यागः,
स्वरूपानुरूप–परम-प्राप्य–कैङ्कर्याभिरुचिः
तादृश-कैङ्कर्य-प्राप्तौ त्वरा चेति ।
सत्स्व् एतेषु चिह्नेषु
अ-परिच्छेद्य-परम-पुरुषार्थे ऽपि अस्ति निष्ठेति जानीयात् ॥
वेदे श्रूयते।उत मोपवदेयु:। उत मे पाप्मानमपहन्युरिति।[IMG]http://i49.tinypic.com/14ttsu0.jpg[/IMG]
न दैवं देशिकात्परम् न परं देशिकार्चनात्।
श्रीदेशिकप्रियः
To view this discussion on the web visit https://groups.google.com/d/msgid/hindu-vidya/CAFY6qgH5Ccnm2a4wH%2B8t2_awgFVi4YPF6dw_M2TigmT24UNCjQ%40mail.gmail.com.