--
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
---
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To post to this group, send email to bvpar...@googlegroups.com.
Visit this group at http://groups.google.com/group/bvparishat.
For more options, visit https://groups.google.com/d/optout.
नमो विद्वद्भ्यः,
गोकुलनाथोपाध्यायस्य शिवशतकेऽपि तथ्यमिदमस्त्युपस्थापितम्। एतद्विवरणतत्त्वमीमांसनाय न परं देवीभागवतादिषूह्यमानेन मया तथाविधमुद्धरणं सायासमपि सम्प्राप्तम्, तस्माद्विद्वांसोऽनुरुध्यन्ते विज्ञापयितुमुल्लेखयितुञ्च पुराणादिवचांसि तादृशानि यत्र वासुकिरेव स्रग्रूपतया भगवतश्शिवस्य गले वर्त्ततेऽधिरूढ इति चर्चितं स्यात्।
इति निवेदयन्
नारायणदत्तमिश्रः
शोधच्छात्रः, ज.ने.वि., नवदेहली
नमो विद्वद्भ्यः,
गोकुलनाथोपाध्यायस्य शिवशतकेऽपि तथ्यमिदमस्त्युपस्थापितम्। एतद्विवरणतत्त्वमीमांसनाय न परं देवीभागवतादिषूह्यमानेन मया तथाविधमुद्धरणं सायासमपि सम्प्राप्तम्, तस्माद्विद्वांसोऽनुरुध्यन्ते विज्ञापयितुमुल्लेखयितुञ्च पुराणादिवचांसि तादृशानि यत्र वासुकिरेव स्रग्रूपतया भगवतश्शिवस्य गले वर्त्ततेऽधिरूढ इति चर्चितं स्यात्।
कम्बरामायणानुसारेण, वासुकिः शिवस्य कङ्कणत्वमभजत इति वर्ण्यते।If you know English,
किमुद्दुष्टमिति न स्पष्टतया न ज्ञातम्।
सम्भवतोऽत्रभवद्भिर्गोकुलनाथवचनोपन्यासाय ’किमुपदिष्टम्’ इत्येतद्द्वारा सङ्केतितोऽहम्। तदीयवचनं हि –
मम वचनजालानि कर्णशुक्तौ तव पतितानि गतानि मौक्तिकत्वम्।
विगुणविलुलितानि लाजबुद्ध्या रसयतु कुण्डलकुण्डलिप्रकाण्डम्॥ (शिवशतकम्, चतुरशीतिसङ्ख्याकश्श्लोकः)
अत्र कुण्डलकुण्डलीति सर्प/नागविशेषोऽयं क इति विजिज्ञासायां सम्भवतो वासुकेरेव प्रसङ्गः स्यादत्रेति धिया मया “तथ्यमिदमस्त्युपस्थापितम्” इत्येवम्पूर्वं विलिखितमासीत्।
शङ्कराचार्य्यस्तोत्रयोः कम्बरामायणस्य च प्रामाण्योद्धरणद्वारोपकृत इति गुरुवर्यान्प्रति विनीतोऽहम्। यद्यपि स्तोत्रादिप्रामाण्यम्पर्याप्तं तथाऽपि शिवसम्बद्धेषु पुराणेषु विषयोऽयं कुत्रचित् पुरस्कृतः स्यादिति पुनरपि विचारयामि। पुनस्तावद् यद्यपि यथामत्याङ्ग्लभाषाञ्जाने तथाऽपि विदुषां परिषद्यस्यां संस्कृतविषयिणी जिज्ञासा मदीया संस्कृतभाषयैव स्यादिति विचारयन्नेवाङ्गलभाषायाम्प्रारब्धेऽस्मिन् विमर्शणे मया संस्कृतभाषयैव स्वप्रश्नः प्रस्तुतीकृत इति विनयावनतो मम विचारः।
व्यालराट् is itnerpreted as Śeṣa in several commentaries including Bhāvārthabodhinī. I will check Mānasapīyūṣa, Siddhāntatilaka, Vijayānandī and the commentary by Jvālāprasāda Miśra and confirm the interpretation there.
नित्यानन्दमहाशयैर्यद्
एवम्बोधितं तदर्थमपि कृतकृत्योऽहम्, प्रतीक्षे तद्द्वारा
टीकावचनपुरस्करणमत्र, यत्र शेष एव वस्तुतो हरिहरयोः क्रमशः
स्रक्-शय्याभूत इति निरूपितं स्यात्।
कोउ कह अवनि बड़ी जगत आधार फनिज्जै॥...
१. संस्कृतभाषिकेषु शोधेषु त्वाङ्ग्लभाषावचनान्युद्ध्रियन्त एव प्रायशः सर्वैस्स्वकथनसमर्थने तथैव हिन्द्यवध्यादिभाषासु रचितरामचरितमानसादिवचनान्यपि किं तत्त्वमीमांसासन्दर्भे शोधार्थिना निःसंशयम्प्रयोक्तुं शक्यते वा न वेति मे सर्वसाधारणः प्रश्नः।
२. नागसर्पयोः कस्तावन्मुख्यो भेद इति नोत्तरितमिहेदानीं यावद् ( साधारणः सर्पः, विशेषो हि नागो वा ?) ....
३. अथ व्यालराट् नागानाम्पितामहो वासुकिरथवा स्वयं अनन्तशेषनागो वा?
कृपया शिवसम्बद्धेषु पुराणेष्वन्यत्र वा चर्चितमेतत्सम्बद्धं किमपि प्राप्यते चेद् विज्ञापयन्तु तत्रभवन्तो विद्वद्वरेण्या भट्ट-मिश्रादिमहाभागा एतत्परिषत्सदस्या अन्ये च विद्वांसः प्रश्नत्रयावलोके इति भवत्कृतसमाधानसम्प्रार्थी -
नारायणदत्तमिश्रः (शोधच्छात्रः)
जवाहरलालनेहरूविश्वविद्यालयः, नवदेहली
क्षम्यतां तावच्छिवशतकश्लोके " मम वचनजालानि, इत्यशुद्धमत्र तु मम वचनजलानि इति पठनीयम्। धन्यवादः।
--
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
---
You received this message because you are subscribed to a topic in the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this topic, visit https://groups.google.com/d/topic/bvparishat/xtmNR_XJhIc/unsubscribe.
To unsubscribe from this group and all its topics, send an email to bvparishat+...@googlegroups.com.
To post to this group, send email to bvpar...@googlegroups.com.
Visit this group at http://groups.google.com/group/bvparishat.
For more options, visit https://groups.google.com/d/optout.
व्यालराट् is itnerpreted as Śeṣa in several commentaries including Bhāvārthabodhinī. I will check Mānasapīyūṣa, Siddhāntatilaka, Vijayānandī and the commentary by Jvālāprasāda Miśra and confirm the interpretation there.
नित्यानन्दमहाशयैर्यद् एवम्बोधितं तदर्थमपि कृतकृत्योऽहम्, प्रतीक्षे तद्द्वारा टीकावचनपुरस्करणमत्र, यत्र शेष एव वस्तुतो हरिहरयोः क्रमशः स्रक्-शय्याभूत इति निरूपितं स्यात्।
Jaṭāśaṅkarī commentary by Vidyābhāskara Ācārya Paṇḍita Jaṭāśaṅkara Dīkṣita Śāstrī (2001, Bhuvan Vani Trust: Lucknow, p. 267): ... (जिनके) वक्षःस्थल पर सर्पराज सुशोभित हैं, ....
Sañjīvanī commentary by Vidyāvāridhi Paṇḍita Jvālāprasāda Miśra (2010 reprint, Khemraj Shrikrishnadas: Mumbai, p. 407): ... जिन शिवजी महाराज के हृदय में सर्पों का राजा पड़ा है, ....
Bilingual English and Hindi commentaries by Dr. Rāmacandra Prasāda (ISBN 978-81-208-0443-2, 2008 reprint, Motilal Banarsidass: New Delhi, p. 249): ...वक्षःस्थल पर नागराज सुशोभित हैं, ..., ... and on whose breast lies the Serpent King, ...
Vijayā commentary by Mānasarājahaṁsa Paṇḍita Vijayānanda Tripāṭhī (Second Volume, 1980, Indian Development Trust: Calcutta, pp. 1-3): ... जिनके वक्षःस्थल पर सर्पराज विराजमान हैं, ...
Siddhāntatilaka commentary by Paṇḍita Śrīkāntaśaraṇa (Second volume, 1945, Pustak Bhandar: Patna, pp. 887-888): ... जिनके वक्षःस्थल पर सर्पराज सोहते हैं, ...
Mānasapīyūṣa edited by Añjanīnandanaśaraṇa (Fourth volume, Fifth edition, 1974, Gita Press: Gorakhpur, pp. 1-4): व्यालराट् = व्याल + राट् = सर्पराज, शेषजी (p. 2), ... और वक्षःस्थल पर सर्पराज सुशोभित हैं, ... (p. 3),
Bhāvārthabodhinī commentary by Jagadguru Rāmānandācārya Svāmī Rāmabhadrācārya (Third edition, 2008, Chitrakot: Shri Tulsi Peeth Seva Nyas, p. 305), ... जिनके हृदय पर सर्पराज शेष विद्यमान हैं, ...
भाषा या वा का वा भवतु, विचारस्योपस्थापनस्य विशदता एव प्रस्तुतीकरणस्य साफल्यं जनयति, न तु भाषाभेदः। अत्राह भर्ता हरिः वाक्यपदीये ---यद्यपि यथामत्याङ्ग्लभाषाञ्जाने तथाऽपि विदुषां परिषद्यस्यां संस्कृतविषयिणी जिज्ञासा मदीया संस्कृतभाषयैव स्यादिति विचारयन्नेवाङ्गलभाषायाम्प्रारब्धेऽस्मिन् विमर्शणे मया संस्कृतभाषयैव स्वप्रश्नः प्रस्तुतीकृत इति विनयावनतो मम विचारः।
न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।
अनुविद्धं इव ज्ञानं सर्वं शब्देन भासते । । १.१३१ । ।
वाग्रूपता चेतुत्क्रामेदवबोधस्य शाश्वती ।
न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी । । १.१३२ । ।
न
संस्कृतशब्देनैव ज्ञानं भासते इति, नेतरभाषाशब्दैरिति नियमः कृतः। अवबोधस्यैव प्रकाश्यत्वं शब्दैः।
इति मम विचारः।
कृपया शिवसम्बद्धेषु पुराणेष्वन्यत्र वा चर्चितमेतत्सम्बद्धं किमपि प्राप्यते चेद् विज्ञापयन्तुतत्र तत्र पुराणेषु भवतापि संशोधनच्छात्रभूतेनाप्यन्वेषणं स्वयं कर्तुमपि शक्यते। शैवानि, वैष्णवानि, वा पुराणानि यथेष्टमुपलभ्यन्त एव। तत्रैव पठनेन भवतापि यल्लभ्यते चेत् वयमप्युपकृता भवामः। "न हि सर्वः सर्वं जानाति, " यत्किंचित् मादृशा जानन्ति, यत्किंचित् भवादृशा जानन्ति इति वयं मन्यामहे।
भावत्कः
अवश्यम्महाशया भवद्वचनेन भवदुद्धृतवचनेन चास्मि पूर्णतः सहमत एव। न मम द्वेषः कस्यैचिदपि भाषायै न चातिस्नेहोऽपीति स्वीकरोमि यतो न हि कयाचिदपि भाषयाऽवबोधभेदो जन्यते तथाऽपि प्रयोगसौकर्य्याद् यदि कश्चित् प्रयुनक्ति यां कामपि भाषां तर्हि दोषोऽपि कस्तत्र? इति विचार्य्यैव विनिश्चयीकृतेन मया प्रारभत संस्कृते स्वकीयम्प्रश्नं विधातुमिति।
अनुशील्यन्ते कानिचन पुराणानि, तेषु शीघ्रतयैवान्वेषणीयतथ्यम् अनवाप्याल्पमतिना मया भवादृशानां विदुषां साहाय्यं ग्रहीतुकामत्वादत्र प्रश्न उपस्थापित आसीत् (बहूनि पुराणभिन्नानि तथ्यानि तु तत्रभवन्तौ पुरस्कृतवन्तावेव, तदर्थंं सविनयं कृतज्ञोऽस्मि) तथाऽप्यवश्यम्प्रयतिष्ये भट्टवर्य्याणाम्प्रेर्यमाणवचनानुसारेणानुसर्तुमत्रोपस्थापयितुञ्च, यदि चेत् तत्तत्पुराणेषु तत्त्वमिदं यदा लब्धीकृतवान् स्याम्। इति भृशं धन्यवादान्नर्पयन् भवदीयशिष्यकल्पः।
पूर्वतने वाक्यांशे मम, प्रारभत इत्यस्य स्थाने तु प्रारभ्यत इत्येव साधु। अपि च धन्यवादान् अर्पयन्निति साधु, एतस्मिन्नेव मे तात्पर्य्यात्। तस्मात् क्षमा याचे। यथा विज्ञातोऽस्मि भट्टवर्य्यैः पूर्वमेकत्र -(क्षम्यताम्महोदयाः, अल्पज्ञशिष्यकल्पत्वादन्यथागृहीतत्वाभावाच्च कोऽहं क्षमादानक्षमः! तस्मान्न न क्षमायाचनम्भावत्कमपेक्षितमिह। इह मम संशयस्तावत् “क्षमा याचे” अत्र सम्भवतः क्षमां याचे स्याद् इत्यद्यावधि अवगतोऽस्मि।
इति न्यायः। )
--
Yours faithfully,
Narayan Dutt Mishra
M.Phil (Research Scholar)
Special Centre for Sanskrit Studies
Jawaharlal Nehru University, New Delhi - 110067
blog info - http://Narayanduttmishra.bloetasminneva