संशयः - स्त्रीपुंभेदः शास्त्राधिकारे

175 views
Skip to first unread message

Gadi Manoj

unread,
Jan 22, 2025, 10:32:32 PMJan 22
to भारतीयविद्वत्परिषत्
सर्वेभ्यो नमो नमः,

विवेकचूडामणौ
जन्तूनां नरजन्म दुर्लभमतः पुंस्त्वं ततो विप्रता
लब्ध्वा कथञ्चिन्नरजन्म दुर्लभं तत्रापि पुंस्त्वं श्रुतिपारदर्शनम् ।
सर्ववेदान्तसिद्धान्तसङ्ग्रहे
साधनचतुष्टयसम्पत्तिर्यस्यास्ति धीमतः पुंसः ।

संशीतिः -  श्रीआदिशङ्कराचार्येण विरचितयोः प्रकरणग्रन्थयोः द्वयोः दृश्यते यत् पुंसः एव अधिकारत्वम्। कुतः न स्त्रियाः। अहोस्वित् विवक्षितः अर्थः भिन्नः कः। शास्त्रान्तरे क्वचित् स्त्रियाः अपेक्षया पुंसः श्रेष्ठत्वं निरूपितं किम्।

इति शम्
मनोजः
संस्कृतशोधच्छात्रः
बेङ्गलूरु नगरी

Abhishek Mehta

unread,
Jan 23, 2025, 3:56:00 AMJan 23
to bvpar...@googlegroups.com, gadim...@gmail.com
यदि पुंसोऽधिकारत्वम् एव वेदेषु स्त्रिया अपेक्षया तर्हि न तु स्त्रियाश् चातुर्वर्ण्यविभाजनस्य औचित्यं यतो हि सर्वासु योनिषु वेदपारगा जनिता इति महाभारते उक्तम्। अर्थात् स्त्रीवर्णविभाग अनावश्यको भवेद् वेदविज्जन्मनि। अतः स्त्रीवर्णविभागसिद्धये स्त्रीपुरुषयोः किञ्चित् समानवेदाधिकारत्वम् आवश्यकम् इति मम मतिः।

--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To view this discussion visit https://groups.google.com/d/msgid/bvparishat/15b3e5e3-9a4e-4a7f-b65b-3612c52fe261n%40googlegroups.com.

संस्कृत संवादः

unread,
Jan 24, 2025, 4:12:49 AMJan 24
to भारतीयविद्वत्परिषत्
मूल श्लोकः

मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः।

स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्।।9.32।।

 

Sanskrit Commentary By Sri Shankaracharya

।।9.32।। --,मां हि यस्मात् पार्थ व्यपाश्रित्य माम् आश्रयत्वेन गृहीत्वा येऽपि स्युः भवेयुः पापयोनयः पापा योनिः येषां ते पापयोनयः पापजन्मानः। के ते इति? आह -- स्त्रियः वैश्याः तथा शूद्राः तेऽपि यान्ति गच्छन्ति परां प्रकृष्टां गतिम्।।

पुंस्त्वस्य श्रेष्ठत्वम् अवश्यं प्रतिपादितं शास्त्रेषु तथा च शङ्कराचार्येणापि भगवत्पादेन बीजप्रदानात् पालनात् रक्षणाच्च विशेषतः। नास्यार्थो यत् स्त्रिया वेदाध्ययनं न कर्तुं शक्नुवन्ति परन्तु न कर्तुम् अर्हन्तीति। पातिव्रत्यं नाम एक एव धर्मो मूढा अपि स्त्रियः तारयति किं तर्हि वेदपाठिनीनां चर्चा। मातृत्वं वन्द्यं सतीत्वं च श्लाघ्यम्। किन्तु स्त्रीत्वं तु गर्ह्यमेव नित्यम्॥ इति सत्यं प्रतिभाति सर्वत्र दृष्टिं कृत्वा।

Best Regards, संस्कृत संवादः https://linktr.ee/samvadah
गुरुवार, 23 जनवरी 2025 को 9:02:32 am UTC+5:30 बजे Gadi Manoj ने लिखा:

Gadi Manoj

unread,
Jan 26, 2025, 12:43:06 AMJan 26
to bvpar...@googlegroups.com
नमो नमः

पुनः अमुं प्रश्नं प्रकाशयामि येन अन्ये विद्वासः अपि समादध्युः। भवतां विचारम् अत्र ज्ञातुकामोऽस्मि।

धन्यवादाः,
मनोजः
दूरवाणीसङ्ख्या +91 80732 92851
सम्पर्कसमयः  - 8 AM to 8 PM only

लोकेश

unread,
Jan 28, 2025, 11:22:49 AMJan 28
to bhAratIya-vidvat-pariShad भारतीय-विद्वत्परिषद्
नमस्ते मनोजवर्य

शास्त्रे कुत्रचित् पुंसः श्रेष्ठत्वम् अपि वर्तते चेत् अन्तरं नास्ति अहं मन्ये। अन्तिमः सन्देशः शास्त्राणां यत् न कोऽपि अधमः न कोऽपि श्रेष्ठः स्वभावेन। आगन्तुकाः इमे श्रेष्ठत्वादिधर्माः। स्वभावेन सर्वं ब्रह्ममयं जगत्।

प्रायः एतानि शास्त्राणि यत्र पुंसः श्रेष्ठत्वं प्रतिपादितं पुंभिः पुमांसः प्रति तानि रचितानि इति कारणात् तेषां पुंसां शास्त्रप्रवेशसुगमं कर्तुम् उच्यते यत् भवन्तः भाग्यशालिनः श्रेष्ठाश्च। यथा प्रायः श्रूयते भारतभूमिः श्रेष्ठा, भाग्यशालिनो वयं यदत्र जन्म प्राप्तवन्तः इत्यादि। तस्य अर्थः एवं न यत् भारतं विहाय अन्याः देशाः निम्नाः अधमाः वा। 

एवमपि श्रूयते यत् मानवयोनिः श्रेष्ठा पशोः अपेक्षया। तस्यापि अर्थः एवं न यत् पशवः अधमाः मनुष्याश्च श्रेष्ठाः। किन्तु केवलं प्रोत्साहनाय इदम् उच्यते येन मानवजन्म व्यर्थं न भवेत्। (मां तु एवं भाति यत् पशवः अधिकश्रेष्ठाः किन्तु तद्‌ अन्यः विषयः।)

अन्यत् उदाहरणम् -

आपदर्थे धनं रक्षेद् दारान् रक्षेद् धनैरपि । 
आत्मानं सततं रक्षेद् दारैरपि धनैरपि ।। 

अयं श्लोकः पुंसा पुमांसः प्रति कल्पितः अतः उच्यते आत्मानं सततं रक्षेद् दारैरपि धनैरपि। यदि स्त्रिया स्त्रियः प्रति कल्पितः स्यात् तदा आत्मानं सततं रक्षेद् पतिभिरपि धनैरपि इति स्यात्।

अधिकतमाः ग्रन्थाः पुरुषैः रचिताः अतः तत्र स्त्रीणां प्रति कदाचित् निम्नदृष्टिः स्यात्। नात्र विस्मयः भवितव्यः।

वैदिककाले स्त्रियः ऋषिकाः मन्त्रदृष्ट्र्यः आसन्। अनन्तरं स्त्रीणां वेदाध्ययनं प्रतिषिद्धम् अभवत् इति भाति। अधुना पुनः तादृशः प्रतिषेधः निवारितः।

पुनः शास्त्रेषु बहूनि उदाहरणानि सन्ति यत्र स्त्रियः परमबोधं प्राप्तवत्यः। एकं यत् मम स्मरणे वर्तते तदस्ति चूडालायाः वृत्तान्तः मोक्षोपाये। अन्यत् वर्तते लीलायाः उपाख्यानं तस्मिन्नेव ग्रन्थे। मैत्रेय्या सह तु याज्ञवल्क्यस्य संवादः प्रसिद्ध एव। सः मैत्रेयीम् एवम् बोधयति -

आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम्॥

सत्यमेव जयते।

Abhishek Mehta

unread,
Jan 29, 2025, 5:03:52 AMJan 29
to bvpar...@googlegroups.com, लोकेश
>अधिकतमाः ग्रन्थाः पुरुषैः रचिताः अतः तत्र स्त्रीणां प्रति कदाचित् निम्नदृष्टिः स्यात्। नात्र विस्मयः भवितव्यः।

प्राकृतैः समस् त्वम् अपठितावस्थायाः किमर्थं ग्रन्थप्रणेतॄणां मनोवैज्ञानिकशोधनम् आलम्बसे | पूर्वे त्वं मनुस्मृतौ कुटिप्पणीर् आक्षिपः पुनस् त्वम् इमा एव ग्रन्थप्रणेतॄषु आक्षिपसि | धिक् त्वाम् | सर्वसंस्कृतज्ञानानि तव अर्जितानि विनश्येच् चेत् पुनर् इदं दुःसाहसम् आलम्बेथाः |

--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.

Mahamaho. Subrahmanyam Korada

unread,
Feb 1, 2025, 10:16:01 AMFeb 1
to bvpar...@googlegroups.com
नमो विद्वद्भ्यः

गाडि मनोजः --

सर्ववेदान्तसिद्धान्तसङ्ग्रहे
साधनचतुष्टयसम्पत्तिर्यस्यास्ति धीमतः पुंसः ।

Here the लिङ्गम् अविवक्षितम् -- If you (X) study शास्त्रs this will be clear -- in certain instances the लिङ्गम्  is not विवक्षितम् - although the लिङ्गम् is used it is not to be taken as important .
Sometimes the लिङ्गम् is important-- ' पशुना यजेत ’ (पूर्वमीमांसा) -- here ’ पशुना ’  is in  पुंलिङ्ग and the लिङ्ग is important - so one should perform the याग 
with पुंपशु only (not with स्त्रीपशु) because here लिङ्गं विवक्षितम् ।

व्याकरणम् --
’ तस्यापत्यम् ’ (पा 4-1-92) -- here both लिङ्गम् and वचनम् are अविवक्षितम् --
तस्य /तयोः / तेषाम् -- अपत्यम् / अपत्ये / अपत्यानि ।
तस्याः / तयोः / तासाम् -- अपत्यम् /अपत्ये / अपत्यानि ।

Why पुंलिङ्गम्  and एकवचनम् ?
Patanjali discusses the issue under भावे (पा सू 3-3-18) --

महाभाष्यम् -- ’भावे सर्वलिङ्गो निर्देशः कर्तव्यः’ (वार्तिकम्)  भावे सर्वलिङ्गो निर्देशः कर्तव्यः - भूतौ , भवने , भावे इति । किंं प्रयोजनम् ? सर्वलिङ्गे भावे एते प्रत्ययाः यथा स्युः इति । किं पुनः कारणं न सिद्ध्यति ?
पुंलिङ्गेन अयं निर्देशः क्रियते एकवचनान्तेन च । तेन पुंलिङ्गे एव भावे एकवचने चैते प्रत्ययाः स्युः । स्त्रीनपुंसकयोः द्विवचनबहुवचनयोश्च न स्युः ।
नात्र निर्देशः तन्त्रम् । 
...............
नान्तरीयकत्वादत्र पुंलिङ्गेन  निर्देशः क्रियते , एकवचनेन च । अवश्यं कयाचिद्विभक्त्या केनचिल्लिङ्गेन च निर्देशः कर्तव्यः । तद्यथा कश्चिदन्नार्थी शालिकलापं सतुषं सपलालम् आहरति,
नाम्तरीयकत्वात् । स यावदादेयं तावदादाय तुषपलालानि उत्सृजति । ... एवमिहापि नान्तरीयकत्वात् पुंलिङ्गेन निर्देशः क्रियते एकवचनान्तेन च । नह्यत्र निर्देशः तन्त्रम् । ....
(तन्त्रं प्रधाने सिद्धान्ते - अमरः ) ।
प्रदीपः - नान्तरीयकम् - अन्तरशब्दः गहादिषु पठ्यते , स च विनार्थे वर्तते । अन्तरे भवम् अन्तरीयम्  (गहादिभ्यश्च  पा सू 4-2-137 , छप्रत्ययः , ईयादेशः) । तत्र नञ् समासे कृते पृषोदरादित्वाद्वा भाष्यकारवचनप्रामाण्याद्वा नलोपाभावः । ततः स्वार्थे कन् प्रत्ययः । 
नान्तरीयकत्वम् = inseparability . जातिव्यक्त्योः , गुणगुणवतोः , क्रियाक्रियावतोः  नान्तरीयकत्वम् ( न्यायनये समवायसंबन्धः ) ।

But in the present case how to decide as to whether the लिङ्गम् in  'पुंसः’ is विवक्षितम् or अविवक्षितम् ?
प्रकरणात् (due to context) -- मोक्ष is the context - both पुरुष and स्त्री  (all people - जनक , विदुर etc.) are eligible for ब्रह्मज्ञानम् and मोक्ष । ’ शंकरा नाम परिव्राजिका’
(महाभाष्यम् , ’शमि धातोः संज्ञायाम्’ पा 3-2-14) . Therefore here the लिङ्गम् is अविवक्षितम्

विवेकचूडामणि will be discussed tomorrow . Both will be taxing on the mind .

धन्यो’स्मि

Dr.Korada Subrahmanyam
Adju.Professor , Dept of Heritage Science and Technology, IIT, Hyderabad
299 Doyen , Serilingampally, Hyderabad 500 019
Ph:09866110741



Mahamaho. Subrahmanyam Korada

unread,
Feb 2, 2025, 5:09:25 AMFeb 2
to bvpar...@googlegroups.com
नमो विद्वद्भ्यः

गाडि मनोजः ---

विवेकचूडामणौ
जन्तूनां नरजन्म दुर्लभमतः पुंस्त्वं ततो विप्रता
लब्ध्वा कथञ्चिन्नरजन्म दुर्लभं तत्रापि पुंस्त्वं श्रुतिपारदर्शनम् ।

There are certain deciding factors of meaning enumerated in व्याकरणम् and न्यायदर्शनम् --

संयोगो विप्रयोगश्च साहचर्यं विरोधिता ।
अर्थः प्रकरणं लिङ्गं शब्दस्याब्दस्यान्यस्य सन्निधिः
सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः ।
शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥....(315,316 वाक्यकाण्डः, वाक्यपदीयम्)
मूलम् -- ’ अर्थात् प्रकरणाद्वा ’ - महाभाष्यम् , ’स्थाने’न्तरतमः, पा 1-1-50 , ’एकः पूर्व्परयोः’ पा 6-1-84
The above verses are quoted in all major साहित्यग्रन्थs .

मुक्तावळी (4) --
शक्तिग्रहं व्याकरणोपमानकोशाप्तवायैर्व्यवहारतश।
वाक्यस्य शेषात् विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः

So 'by the word in proximity' also sometimes would become helpful in deciding the meaning . 
In the present case the word ' विप्रता’ / ’श्रुतिपारदर्शनम्’ is helpful in deciding the meaning of the word 'पुंस्त्वम्’ ।
विप्र is one who learnt and regularly recites वेद - and he only is eligible to receive any दानम् ।
तैत्तिरीयोपनिषत् (2 स्वाध्यायब्राह्मणम् ) explains दानम्  --
दक्षिणानां ब्राह्मणेन ब्राह्मणस्य छन्दोभिः छन्दसाग्ं स्वाध्यायेन अपहतपाप्मा ।
The sin through  दक्षिणा gets transformed to ब्राह्मण to वेद he learnt and then he has to get rid of the sin through स्वाध्याय ।

The above activity is strictly related to पुरुष and here there is no any other reason .
When there are any such doubts better approach a person who is free of अहंकार , ईष्या , असूया etc , above all good scholarship , i e learning वेद , वेदाङ्ग,
दर्शन , पुराण etc preferably in a गुरुकुलम्  and आचरणम् of नित्यकर्म , नैमित्तिककर्म and so on . Others are not to be considered , as per शास्त्रम् , as गुरुs.

धन्यो’स्मि

Dr.Korada Subrahmanyam
Adju.Professor , Dept of Heritage Science and Technology, IIT, Hyderabad
299 Doyen , Serilingampally, Hyderabad 500 019
Ph:09866110741

Gadi Manoj

unread,
Feb 2, 2025, 10:09:26 PMFeb 2
to bvpar...@googlegroups.com
नमो नमः आचार्यवर,

धन्योस्मि। विस्तरेण बोधितः अहम्। पठित्वा विचार्य च प्रत्युत्तरम् परिप्रश्नं वा उपस्थापयिष्यामि।

इति शम्।
मनोजः


Reply all
Reply to author
Forward
0 new messages