|
<1.देवदत्तो ग्रामं गच्छति इत्यत्र उद्देश्यविधेयभावं दर्शयितुं शक्यते
वा ?
2. इङ्ग्लीष्भाषायाम् subject and predicate इति किल
पारिभाषिकशब्दौ द्वौ। उद्येश्यविधेयभावस्य ताभ्यां सादृश्यं वर्तते
चेत् कीदृशं तत् ? यदि च वैसादृश्यं, कीदृशं तत् ?
3. अस्तिर्भवन्तीपरोऽविद्यमानोऽप्यस्ति इति किल वैयाकरणसमयः।
तस्माद् घट इत्युक्ते अस्तीति गम्यते। अधुना मामकीनोऽयं प्रश्नः।
केवलं ‘‘घट’’ इति प्रयोगे उद्देश्यविधेयभावं दर्शयितुं शक्यते वा न
वा ? यदि शक्यते कीदृश्यत्र समर्थना ? यदि न शक्यते कारणं
किम् ?>
स म्माननीया महाभागाः, सादराभिवादनपूर्वकं यथाशक्ति उत्तरं दीयते।
१. ग्रामगमनमेव वाक्येऽत्र विधेयम्।
२-३. शास्त्रे विधेयत्वविचार एव दृश्यते। उद्देश्यादीनि तु परिसंख्ययापि लब्धुं शक्यते। यथा वैयाकरणैर्विचारितम् तेन subject-predicate-विचारः स्वल्प एवेति प्रतीयते। तद्विचारे सर्वाण्येव सूत्राणि विधिपरकाणि। तत्र वाक्यस्य विधेय-विधेयि-निमित्तरूपास्त्रयो विभागाः। यथा पूर्वप्रेरितपत्रे मयोक्तम् subject-predicateविचारो वाक्यमात्रपरः, तत्र subject-इत्यस्य प्राधान्यम्। न
तथास्मद्विचारे। विधेयत्वविचारो व्यापारपर एव नैयायिकैः कृतः, येन पदेऽपि व्यापारसंकेते सति विधेयं विचार्यं भवति।
इति दीपकभट्टाचार्यस्य
--- On Sun, 1/8/10, Jagannatha s <jgra...@gmail.com> wrote:
|
| Some of the mails just cofused me. Is not Uddsha just utterance, without having any necessary relation to uddeshya as part of the sentence? DB --- On Mon, 2/8/10, subrahmanyam korada <kora...@gmail.com> wrote: |
< uddesa is uccAranam .> That was my point too. uccAraNa= 'utterance' 'statement' And that creates the confusion. uddesya, if equated with 'subject' should be a syntactical element. It may be also a granthavishayaka element when it pertains to the whole text. uddesa has nothing to do with this. Then how can the two, uddesya and uddesa, be the same?
Best
DB |
--
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
--
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
I do not think that an etymological approach to uddesha and uddeshya will bring us near the solution of the problem. Both the words are in use and one has to determine the meaning from the very usage. uddesha-lakshaNa pariikshaa is a well known definition of the arrangement of a treatise. Here uddesha means enumeration or statement (of the things to be discussed). This is not to be confused with uddeshya. Nobody seems to take this point in discussion. This point must be brought home.
Friends, I shall be out for a few days and am sorry that I have to take leave from this lively discussion. But I assure you that I shall return as soon as possible.
Best wishes
DB
|
|
तथा हि उद्देश्यविधेयभावो ययोर्भवति तयोरेव विशेष्यविशेषणभावः। यज्ज्ञातं भवति तदेवोद्दिश्यते। यच्चाज्ञातं भवति तद्विधीयते। यथा पर्वतो वह्निमान् इत्यत्र ज्ञातं पर्वतमुद्दिश्य अज्ञातो हि वह्निर्विधीयते। यदि पर्वतोपि अज्ञात एव तदा तु पुनः पृच्छ्यते कः पर्वत इति। एवं च तत्र यः उद्देश्यः स एव विशेष्यः भवति। तस्य ज्ञातत्वात्। अज्ञातश्च वह्निमान् विधेयो भवति। यदज्ञातं सत् उद्देश्यं व्यावर्तयति तस्यैव विशेषणत्वात्।
तथाहि--
यद्वृत्तयोगः प्राथम्यमित्याद्युद्देश्यलक्षणम्।
तद्वृत्तमेवकारश्च स्यादुपादेयलक्षणम्।। इति उद्देश्यादिलक्षणम् (श्लो.वा.अनुमानवादे 109)।
पर्वते वह्निरित्यादौ सप्तम्यन्तस्याप्युद्देश्यता, प्रथमान्तस्यापि विधेयता। तत्रापि पर्वतस्यैव पूर्वज्ञातत्वात्।
परन्तु प्रथमान्तविशेष्यक-प्रथमान्तविशेषणकस्थले प्रथमान्तस्यैव च उद्देश्यता। तत्र च उद्देश्यविधेयभावनियतः विशेष्यविशेषणभावः। तेन “उद्देश्यविधेयभावश्च न विशेष्यविशेषणभावनियतः” इति गदाधरवाक्यं[1] भिन्नवचनकस्थलाभिप्रायं नेयम्।
एवं च पर्वतो वह्निमान् इत्यादौ पर्वतः उद्देश्यः, वह्निमांश्च विधेयः इति तयोरेव विशेष्यविशेषणभावः। तत्र उद्देश्यत्वादिकं ज्ञातत्वादिरूपं स्वरूपसंबन्धरूपं वेत्यन्यदेतत्।
तादृशश्च उद्देश्यविधेयभावो वैवक्षिको भवति। न तु सर्वत्र द्रव्यस्यैव उद्देश्यत्वमिति नियमः। जातितद्भिन्नप्रवृत्तिनिमित्तकानां मध्ये जातिप्रवृत्तिनिमित्तकस्यैव विशेष्यता इति रामरुद्रोक्तनियमस्त्वौत्सर्गिक एव (दिनकरीयव्याख्या रामरुद्री पृ.2)। प्रायः प्रथमज्ञानं द्रव्यस्य, ततश्च गुणादिज्ञानमित्यभिप्रायं तत्।
यदा च क्वचित् गुणविशिष्टमेव प्रथमतो ज्ञायते तदा तु तस्यैवोद्देश्यता भवति। यथा अत्र नीलवर्णविशिष्टं यत्किंचिद्वस्तु वर्तते इति पश्यामः। परन्तु किमिदमिति न ज्ञायते। तदा पृच्छामः नीलं किम् इति। उत्तरं च तादृशं भवति नीलं घट इति पट इति वा। तस्य च प्रश्नस्यायमर्थः यदिदं नीलं तत्किंरूपम् इति। नीलं च घट इति प्रश्नोत्तरयोः नीलस्यैवोद्देश्यता। नीलवर्णविशिष्टस्य नीलस्यैव प्रथमज्ञातत्वात्। कदाचिच्च घटः कीदृश इति प्रश्ने घटो नील इति घटोद्देश्यकप्रश्नोत्तरे भवतः। तत्र प्रथमतो घटस्यैव ज्ञातत्वात्। गदाधरेणापि द्रव्योद्देश्यकघटविधेयकशाब्दबोधोङ्गीकृतः, द्रव्यं घट इति। “अथ द्रव्यत्वादौ धर्मितावच्छेदकतासंबन्धेन प्रसिद्धस्य शुद्धघटत्वाद्यवच्छिन्नप्रकारकाभेदान्वयबोधस्य घटत्वादावापत्तिसंभवात्” (व्यु.पृ.11) इत्यादिना।
एवं च कः पचतीति प्रश्नवाक्ये जिज्ञासितधर्मविशिष्ट एव विधेयम्। पचतीतिपदप्रतिपाद्यः पचनकर्ता तु उद्देश्यमेव। ज्ञातस्य पचनकर्तुरेव उद्देश्यत्वस्य, अज्ञातस्य जिज्ञासितधर्मविशिष्टस्य विधेयत्वस्य चैव औचित्यात्। न तु पचनकर्तुरेव विधेयता, जिज्ञासितधर्मविशिष्टस्य चोद्देश्यता।
1. देवदत्तः किं करोति? देवदत्तः पचति,
2. कः पचति? देवदत्तः पचति
इति प्रश्नोत्तरद्वये वैलक्षण्यस्य स्पष्टत्वात्। एवं च देवदत्तः किं करोति?, देवदत्तः पचति इति प्रश्नोत्तरयोरेव देवदत्तादेर्विशेष्यत्वोद्देश्यत्वौचित्यात्। तथा च
3.कानि पुनः शब्दानुशासनस्य प्रयोजनानि? रक्षोहागमलघ्वसंदेहाः प्रयोजनम्,
4. अथ गौरित्यत्र कः शब्दः? गकारौकारविसर्जनीयाः इति भगवानुपवर्षः
इत्यादिपातञ्जल-शाबरप्रश्नोत्तरद्वयेपि प्रयोजन-शब्दयोरेवोद्देश्यता, रक्षादीनां गकारादीनां च विधेयता इति स्पष्टं प्रतीयते।
एवमेव अस्मिन्समूहे एको विद्वान् वर्तते इति ज्ञातं, परन्तु कः स इति न ज्ञातं, तदा
5. विद्वान् कः? विद्वान् देवदत्तः
इत्यादिप्रश्नोत्तरयोः च विदुष एवोद्देश्यता भवति। एवमेव
6. प्रधानमन्त्री कः? प्रधानमन्त्री मनमोहनः
इत्यादावपि जिज्ञासितधर्मिण एव विधेयता युक्ता।
अत्र च विदुषि देवदत्ताभेदः प्रतीयते। न तु देवदत्ते विद्वदभेदः। विधेयताव्याघातात्। अन्यथा देवदत्तः कीदृशः? देवदत्तः सुन्दर इत्यादावपि सुन्दरे देवदत्ताभेदः एव विशेषणतया विधेयः स्यात्। अत एव पर्वतो वह्निमान् इत्यादौ वह्निमतो विधेयता न्यायोक्ता संगच्छते। “साध्यो विधेयविशिष्टो धर्मी” इति अवयवे दीधितिवाक्यम्[2]।
एवं च कः पचति इत्यस्य उद्देश्यवाचककिंपदकत्वं वर्णयन् गदाधरो[3] विचारणीयवचनः।
किंच कः पचति इत्यत्र पचतिपदार्थस्य उद्देश्यत्वाभ्युपगमे तावत् पचतिपदार्थे किंपदार्थस्यान्वयः स्वीकार्यः। परन्तु अभेदेन अन्वयो न भवति पचति इत्यस्य नव्यमते पाककर्तृवाचकत्वाभावात्।
[1] शक्तिवादे गदाधरवचनम्, हरिनाथीयपुस्तके पृ.109.
[2] रामानुजताताचार्यसंपादितेमूलपुस्तके पृ.30.
[3] शक्तिवादे गदाधरवचनम्, हरिनाथीयपुस्तके पृ.148.
Dear Pandurangi,I was wondering why you have not appeared on the scene, whom I was expecting to contributing substantially and succinctly.Thanks for your clarification in clear terms so that it is intelligible to even a baala like me. From your examples and illustrations, the order itself may change the meaning and यत्रोद्देश्यविधेयभावः, तत्र विशेष्य-विशेष्यणभावः is seen and reversing the the order can change the meaning and it can well be applied in respect of normal speech if we care for the order for precision and clarity of expression.प्रधानमन्त्री देवदत्तः, देवदत्तः प्रधानमन्त्री इत्युभयोर्वाक्ययोः, प्रश्नद्वयं संभाव्यते।कः प्रधानमन्त्री? इति देवदत्तः कः इति।उत्तरद्वयमपि उद्देश्यविधेयभेदेन यथायोगं संबध्यते। ज्ञाते प्रधानमन्त्रिणि, तन्नामज्ञानार्थः प्रथमः प्रश्नः, तस्य प्रथममुत्तरम्। द्वितीयस्य देवदत्तो ज्ञातः, तस्य प्रधानमन्त्रित्त्वमज्ञातं विधीयते इति साधूक्तं स्यादिति मे मतिः।यथायोगं परिष्क्रियतां यद्यपेक्षा।
Thanks once again for all the scholars who tried their best to contribute essentially to this topic and Dr. Jagannatha for raising such intricate and delicate topic.
--
Dr. Hari Narayana Bhat B.R.
EFEO,
PONDICHERRY
--
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
ज्ञातं ह्युद्देश्यम्; अज्ञातं विधेयम्। को गवयपदार्थ इति प्रस्नसमाधानं हि गोसदृशो गवयपदार्थ इति। तथाच यो गवयपदार्थस्स गोसदृश इति यच्छब्दयोगबलात् प्रथमावगतत्वाद्नवयपदार्थत्वं व्याप्यम्; गोसादृश्यञ्च व्यापकमेवेति न तेन प्रकृतानुमानापेक्षितलाभः। यदाहुः-`यद्वृत्तयोगः प्राथम्यमित्याद्युद्देश्यलक्षणम्। तद्वृत्तमेवकारश्च स्यादुपादेयलक्षणम्' (मीo श्लोo वाo) इति। (ननु का पृथिवीति प्रश्ने या गन्धवतीत्युत्तरं दीयते। वदन्ति च या गन्धवती तां पृथिवीं विद्धीति। तस्भाद्यद्योगाद्गन्धवतीमुद्दिश्यैव पृथिवीत्वं विधीयते, तथा प्रकृतेपीति चेन्न-तत्र सत्यपि यद्योगे गन्धवत्त्वस्य विधेयत्वात्। का पृथिवीति किंशब्दस्य जिज्ञासितपरत्वात् गन्धवतीपदस्य च जिज्ञासितार्थसमर्पकत्वाज्जिज्ञासितस्यैव विधातुमुचितत्वात्। तथाच तां पृथिवीं विद्धीत्यस्य पृथिवीं तत्त्वेन विद्दीत्यर्थः। एवञ्च यच्छब्दः पृथिव्यन्वितत्वेन गन्धवत्त्वज्ञानाभावेपि तथाविधज्ञानात्प्राक् तस्यापि ज्ञेयत्वादुपपन्नः।।)
some gap was there in earlier message. full text is this
---------- Forwarded message ----------
From: Veeranarayana Pandurangi <veer...@gmail.com>
Date: 2010/8/12
Subject: Re: {भारतीयविद्वत्परिषत्} उद्देशविधेयभावः
To: jgra...@gmail.com
सत्यमुक्तं भवद्भिः। वाग्व्यवहारादर्शस्य समीचीन उपयोगः अस्माभिः न क्रियते इवाभाति।2010/8/11 Jagannatha s <jgra...@gmail.com>
तत्रभवद्भिः श्रीवीरनारायणपाण्डुरङ्गिमहोदयैरुद्देश्यविधेयभावे यः स्वप्रबन्धस्य अपेक्षितो भागोत्र समुद्धृतः, सः उद्देश्यविधेयभावविषयकमतीव सुविस्पष्टं चित्रणं वाचकमनसि उट्टङ्कयितुं समर्थः। मम अस्मिन् विषये बहवः संशया एतत्पठनेननिवारिताः। भवद्भिः उद्धृतभागस्यान्ते ‘‘ एवं च कः पचति इत्यस्य उद्देश्यवाचककिंपदकत्वं वर्णयन् गदाधरो विचारणीयवचनः।’’ इति यत् हरिनाथीयमुद्धृतं तस्य विषये च स्वाभिप्रायोपि प्रकटितः, कृपया तस्मिन् विषये किञ्चिदधिकं विवरणं दीयतामिति विज्ञापये। अहं सकुतूहलं भवदीयस्य प्रौढप्रबन्धस्य प्रकटनं प्रतीक्षमाणोस्मि।
‘‘ एवं च कः पचति इत्यस्य उद्देश्यवाचककिंपदकत्वं वर्णयन् गदाधरो विचारणीयवचनः।’’ इति हरिनाथीयमतं नास्ति। मदीयमेव मतम्। अत्र गदाधरस्य विमर्शः कृतः। प्रकरणस्यास्य समग्रो भागः भवदीयावगाहनाय प्रेष्यते। परन्तु पुस्तकप्रकाशनं तावत् इतोपि चिरकालं प्रतीक्षितमेव स्यात्। मया तावत् गदाधरस्य मतं सर्वथा सर्वप्रकारेण विमृष्टम् प्रथमाकारकान्तम्। मया वि.वा.उपाधिरपि लब्धः।तत्र बहवो विषयाः बहूनां चर्वितचर्वणपराणां विदुषां संमता न सन्तोपि मया प्रकारान्तरेण निरूपिताः। मम पद्धतिः सर्वथा नूतनैव वर्तते।परन्तु प्रह्लादाचार्यैर्यावत्पर्यन्तं सर्वमेव पुनर्निरीक्ष्य प्रकाशनायानुमतिर्न दीयते तावत्कालपर्यन्तं प्रकाशनमाकाशकुसुमायितमेव।भवादृशानां विदुषां कश्चनापि भागस्संमतश्चेदपि धन्यं मन्ये।वी.पां.प्रकरणस्यास्य समग्रो भागः भवदीयावगाहनाय प्रेष्यते। य एवंप्कारेणवेदाः प्रमाणम्
व्युत्पत्तिवादग्रन्थः (पृ.1)
ननु "विंशत्याद्याः सदैकत्वे" इत्यनुशासनात् "शतं ब्राह्मणाः" इत्यादेः साधुत्वेऽपि "वेदाः प्रमाणम्" इत्यादयः कथं प्रयोगाः। विशेष्यविशेषणवाचकपदयोरसति विशेषानुशासने समानवचनकत्वनियमात्। अन्यथा "घटा नीलः" इत्यादेरपि साधुताप्रसङ्गात्। समानलिङ्गकस्थले तथानियमोपगमेन "वेदाः प्रमाणम्" इत्यादेः साधुत्वोपपादनेऽपि "इति हेतुस्तदुद्भवे" इति कारिकाया "इति त्रयः समुदिता हेतुः" इति काव्यप्रकाशव्याख्याया असंगतिर्दुर्वारैव।
एवमसमानलिङ्गकस्थले विशेष्यवाचकपदासमानवचनस्यापि विशेषणपदस्य साधुत्वे तादृशस्थले औत्सर्गिकमेकवचनमेव सर्वत्र विशेषणपदानन्तरं प्रयोक्तुमुचितमिति "प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि" "पितरो देवताः" इत्यादेरनुपपत्तिः।
मैवम्। यत्र विशेष्यवाचकपदोत्तरविभक्तितात्पर्यविषयसंख्याविरुद्धसंख्याया अविवक्षितत्वं तत्र विशेष्यविशेषण-पदयोः समानवचनकत्वनियमः। अत एव "पुरूरवोमाद्रवसौ विश्वेदेवाः" इत्यादौ द्वित्वविशिष्टयोः पुरूरवोमाद्रवःप्रभृत्योर्विशेषणतया विवक्षितत्वात् तद्वाचकस्य पदस्य द्विवचनन्तता। "वेदाः प्रमाणम्" इत्यत्र च विशेषणपदोत्तरविभक्त्या बहुत्वविरुद्धमेकत्वं विवक्षितम्। तच्च प्रकृत्यर्थतावच्छेदके प्रमितिकरणत्वेऽन्वेति। शाब्दप्रमाकरणत्वञ्च शब्दत्वावच्छिन्नं यावच्छब्दनिष्ठमेकमेवेति नायोग्यता।.................................
एवं "त्रयः समुदिता हेतुः" इत्यत्र हेतुपदं कार्योत्पादप्रयोजकतावच्छेदकसमुदायत्वावच्छिन्नपरम्, तादृशसमुदायत्वान्वितमेकत्वमेकवचनार्थः।
अत एव शक्त्यादीनां त्रयाणां तृणारणिमणिन्यायेन हेतुत्वशङ्कानिरासः। तथा सत्येषाम् एकैकसमवधानदशायामपि कार्योत्पत्तेरावश्यकतया तत्त्रितयपर्याप्तसमुदायत्वस्य कार्योत्पत्तिप्रयोजकतानवच्छेदकतया तेषां त्रयाणां तथाविधैकसमुदायत्वाश्रयत्वानुपपत्तेः।
एवं "व्यक्त्याकृतिजातयः पदार्थः" इत्यत्र त्रितयनिष्ठस्य पदशक्तिरूपपदार्थत्वस्यैकत्वं विवक्षितमिति तत्र विशेष्यपदस्य बहुवचनान्तत्वेऽपि विशेषणपदस्यैकवचनान्तत्वोपपत्तिः।
"प्रत्यक्षानुमान" इत्यादिसूत्रे प्रमाकरणत्वरूपप्रकृत्यर्थतावच्छेदकस्य प्रत्यक्षानुमानादिनिष्ठस्यैकताया बाधितत्वेन अविवक्षितत्वात्प्रमाणपदस्य बहुवचनान्ततेति।
एवं "पितरो देवताः" इत्यत्रापि पितृपितामहादीनां सहितानामेकरूपेण देवतात्वविरहेण पितृत्वपितामहत्वादिना पृथगेव त्यागोद्देश्यत्वरूपदेवतात्वम्। उद्देश्यतावच्छेदकभेदेनैवोद्देश्यताभेदात्। तत्रैकत्वस्याविवक्षया देवतापदस्य बहुवचनान्ततेति दिक्।
व्युत्पत्तिवादग्रन्थः (पृ.10)
तदर्थकपदोत्तरविभक्त्या संख्याबोधने अभेदसम्बन्धावच्छिन्नप्रकारताभिन्नतदर्थविषयताशालिशाब्दबोध-सामग्र्यपेक्षिता। तादृशश्च बोधस्तदर्थविशेष्यकः, तदर्थनिरूपितभेदान्वयविषयकश्च। "नीलौ घटौ" इत्यादौ च विशेष्यवाचकपदोत्तरविभक्त्यैव द्वित्वादिकं प्रत्याय्यते। एवञ्च क्रियाविशेषणवाचकपदोत्तरविभक्त्या अबाधितयोरपि द्वित्वबहुत्वयोः प्रत्यायनासम्भवात्तादृशपदोत्तरमौत्सर्गिकमेकवचनमेव भावाख्यातस्थलवदित्यवधेयम्।
मदीयविमर्शः
तत्रोच्यते। यत्र विशेष्यवाचकपदोत्तरविभक्तितात्पर्यविषयसंख्याविरुद्धसंख्याया अविवक्षितत्वं तत्र विशेष्यविशेषणपदयोः समानवचनकत्वनियमः, अन्यथा भिन्नवचनकत्वम् इति नियमोऽयुक्तः। तथा सति----
1. घटाः द्रव्यम् इति प्रयोगापत्तिः। तत्रापि विशेष्यवाचकघटपदोत्तरविभक्तितात्पर्यविषयसंख्याविरुद्धायाः एकत्वसंख्यायाः विशेषणवाचकद्रव्यपदोत्तरविभक्तितात्पर्यविषयत्वात्। वेदाः प्रमाणम् इत्यादौ प्रमाणत्वस्यैकत्वेन प्रमाणपदोत्तरैकवचनेन प्रमाणत्वगतैकत्वविवक्षा इव अत्रापि द्रव्यपदोत्तरैकवचनेन द्रव्यत्वगतैकत्वविवक्षासंभवात्। इष्टापत्तिमेवोत्तरं ब्रुवाणैरपि तादृशाः प्रयोगाः प्रदर्शनीयाः। तमप्रदर्श्य केवलमिष्टापत्तेः उत्तरता तु न संभवति। अत एव पृथिव्यप्तेजो...नवैव द्रव्याणि इत्यादयः एव प्रयोगाः दृश्यन्ते।
2. एकत्वादिविवक्षायामेकवचनाद्युक्तौ घटौ द्विः, घटाः त्रिः इत्यपि प्रयोगापत्तिः। त्रित्वादेरेकत्वात्। तस्यैकत्वविवक्षायामेकवचनापत्तेर्दुर्वारत्वात्।
3. कपालौ घटवान् इति प्रयोगापत्तिः। कपालद्वयनिष्ठस्य घटस्यैकत्वेन तद्गतैकत्वविवक्षायामेकवचनस्य दुर्वारत्वात्।
4. घटद्वयनिष्ठसंयोगस्य विभागस्य वा एकत्वात् तद्विवक्षायां घटौ संयुक्तः, घटौ विभक्तः इत्यादिप्रयोगापत्तेः।
5. किंच गदाधरमते वेदाः प्रमाणम् इति एकवचनप्रयोगोनुपपन्नः। तथा हि “अत्र प्रमाणपदोत्तरैकवचनेन एकत्वं विवक्षितं, तच्चैकत्वम् उद्देश्यतावच्छेदकीभूते प्रमाणत्वे अन्वेति। वेदनिष्ठं च प्रमाकरणत्वमेकमेव” इति गदाधराशयः खलु। तदिदमनुपपन्नम्। चतुर्वेदनिष्ठस्य प्रमाणत्वस्यैकत्वाभावात्। प्रमाणत्वं हि प्रमाकरणत्वम्। करणत्वं च तत्तद्वेदनिष्ठं तत्तद्वेदस्वरूपमिति कथमेकं प्रमाणत्वं वेदेषु।
करणत्वस्यैकत्वाभावेपि प्रमात्वस्यैकत्वेन तद्गतैकत्वेन प्रमाणमित्येकवचनोपपत्तिरित्यप्यसंगतम्। प्रमात्वस्य आर्थसमाजग्रस्तत्वाङ्गीकारेण[1] तस्याप्येकत्वाभावात्।
अथ “उक्तग्रन्थस्तु शाब्दत्वजातेरेकत्वेन भाक्तैकत्वव्यवहारपरत्वेनोपपादनीयः” इति[2] बच्चाझामहाशयानामाशयः, सोप्यसंगतः। तथा सति घटा नील इतिव्यवहारापत्तेः। तत्र नीलरूपस्यैकत्वाभावेपि नीलरूपगतनीलत्वजातेरेकत्वात् तदेकत्वमादाय भाक्तैकत्वव्यवहारोपपादनसंभवेन घटा नील इत्यापत्तेर्दुर्वारत्वात्।
6. किंच एकत्वस्य प्रमाणत्वे अन्वय इत्यसंगतम्। सुबर्थसंख्याया पदार्थतावच्छेदके अन्वयस्य अदृष्टचरत्वात्। पदार्थतावच्छेदकेपि संख्यान्वये घटः अनित्यः इत्यत्र घटत्वे अनित्यत्वान्वयापत्तिः। तथा आकाशौ इति, समवायौ इति च प्रयोगापत्तिः। तत्रापि समवायत्वरूपप्रवृत्तिनिमित्त-समवायसमवायत्वसंबन्धरूपयोः पदार्थतावच्छेदकयोः द्वित्वात्। अवच्छेदकतावच्छेदकतासंबन्धेन तस्य संबन्धस्य शक्तिग्रहविषयत्वेपि तस्याप्यवच्छेदककोटिप्रविष्टानामवच्छेदकत्वमिति अवच्छेदकत्वं वर्तते एव[3]। गवां शतानि इत्यादौ पदार्थतावच्छेदकीभूतशतत्वे एकत्वसंख्यान्वयः इत्यादिकं तु विंशत्यादिपदविचारे निरस्तमेव। (गवां विंशतिरिति विचारे, स चान्ते वर्तते)। किंच जात्याख्यायामिति सूत्रे यत् भाष्यकारैः गार्ग्यत्वादौ एकत्वाद्यन्वयप्रदर्शनं तत्तु पार्ष्ठिकान्वयबोधपरम्। सविशेषणे हि विधिनिषेधौ सति विशेष्ये बाधे विशेषणमुपसंक्रामतः इति न्यायात् पार्ष्ठिकान्वयबोधे एव गार्ग्यत्वादौ एकत्वमन्वेति। एवमेव कार्यद्रव्यं नश्यति इत्यत्र एकत्वस्य कार्यद्रव्ये अन्वयः इति किरणावलीपक्षोपि[4] पार्ष्ठिकबोधपर एवेति द्रष्टव्यम्।
7. “किंच तदर्थकपदोत्तरविभक्त्या संख्याबोधने अभेदसम्बन्धावच्छिन्नप्रकारताभिन्न-तदर्थविषयताशालिशाब्दबोधसामग्र्यपेक्षिता। तादृशश्च बोधस्तदर्थविशेष्यकः, तदर्थनिरूपितभेदान्वयविषयकश्च। "नीलौ घटौ" इत्यादौ च विशेष्यवाचकपदोत्तरविभक्त्यैव द्वित्वादिकं प्रत्याय्यते” इत्यादिना गदाधरः स्वयमेव उत्तरत्र (पृ.10) समानवचनकस्थले विशेष्यविभक्त्यैव संख्या प्रतीयते इति वदति। एवं च वेदाः प्रमाणम् पुरूरवोमार्द्रवसौ विश्वेदेवाः इत्यादावपि प्रमाणादिनिष्ठप्रकारतायाः अभेदसंबन्धावच्छिन्नत्वात् तत्र विशेष्यवाचकवेदादिपदोत्तरविभक्त्यैव संख्याबोधनेन तत्र विशेषणवाचकप्रमाणादिपदोत्तरविभक्तेः संख्यावाचकत्वमेवासिद्धम्। एवं च वेदाः प्रमाणम् इत्यादावपि विशेष्यवाचकवेदपदोत्तरविभक्तितात्पर्यविषयसंख्याविरुद्धसंख्याया अविवक्षितत्वात् अत्रापि विशेष्यविशेषणपदयोः समानवचनकत्वमेव स्यात्, न तु भिन्नवचनकत्वम्।
अथैतत्परिहाराय दीपिकारीत्या (दीपिका पृ.94) अभेदसंबन्धावच्छिन्नप्रकारतायां विशेष्यान्वयिसंख्याविरुद्धसंख्यानवच्छिन्नत्वस्य विवक्षितत्वात्, वेदाः प्रमाणम् इत्यादौ च प्रमाणादिनिष्ठप्रकारतायाः अभेदसंबन्धावच्छिन्नत्वेपि विशेष्यान्वयिसंख्याविरुद्धैकत्वादिसंख्यावच्छिन्नत्वात् तादृशविशेष्यान्वयिसंख्याविरुद्धसंख्या-नवच्छिन्नत्वाभावात् तत्र विशेषणपदोत्तरविभक्त्यापि संख्या वाच्या भवतीत्युच्यते,
तदा तु इदं संपन्नं यत् “ अविरुद्धसंख्याया विवक्षायां विशेषणपदोत्तरविभक्त्या बहुत्र संख्या न प्रतीयते, किन्तु विरुद्धसंख्याविवाक्षायां क्वचिदेव संख्या प्रतीयते” इति। तथा च “यत्र विशेष्यवाचकपदोत्तर-विभक्तितात्पर्यविषयसंख्याविरुद्धसंख्याया अविवक्षितत्वं तत्र विशेष्यविशेषणपदयोः समानवचनकत्वनियमः, अन्यथा भिन्नवचनकत्वम्” इति नियमे “विशेष्यवाचकपदोत्तरविभक्तितात्पर्यविषयसंख्याविरुद्धसंख्या” इत्येतदपहाय केवलं “यत्र संख्या न विवक्षिता तत्र समानवचनकता, यत्र तु विवक्षिता तत्र भिन्नवचनकता” इत्येव वक्तव्यम्। विवक्षितापि न प्रतीयते इति तु दुष्टमेव, प्रतीतेर्विवक्षैकमूलकत्वात्।
8. गदाधरमते तु “विश्वसत्यत्वे ‘विश्वं सत्यं मघवाना’ इत्यादिवेदवाक्यानि प्रमाणानि” इत्यादिप्रयोगानुपपत्तिः। वेदवाक्यगतप्रमाणत्वस्य एकत्वेन तस्य विवक्षायां तत्रैकवचनप्रयोगस्यैव साधुत्वात्। यदि च तत्र प्रमाणत्वं प्रमाकरणत्वम्, करणत्वं च तत्तद्वाक्यनिष्ठं भिन्नमेवेति प्रमाणत्वे बहुत्वमेवेत्युच्यते तर्हि वेदाः प्रमाणम् इत्यस्यानुपपत्तिः। तत्रापि प्रमाकरणत्वस्य तत्तच्छब्दभेदेन भिन्नत्वेन प्रमाणत्वे एकत्वाभावेन तद्विवक्षाया अयोगात्। सर्वथैव प्रमाणत्वे एकत्वाभावः, केवलं ज्ञानत्वे तद्भावश्च नैयायिकैरप्यङ्गीकृतः[5]। लोकानुसारेणेति वदतो हि सर्वस्मिन् लोकानुसारेण निर्वहति तदर्थं व्युत्पत्तिकल्पनेति वैयर्थ्येन प्रत्युत्तरं देयम्। जातिगुणवाचिनोर्जातिवाचिनः प्राधान्यम् (प.वा.र.205, रामरुद्री पृ.3) इति नियमस्त्वौत्सर्गिक एव, न तु अपवादरहितः।
9. किंच गदाधररीत्या यदि वेदाः प्रमाणम् इत्यत्र वेदपदस्यैव विशेष्यवाचकत्वं, तदा वेदाः प्रमाणाः इत्येव प्रयोगापत्तिः। “कोसावनुमानो नाम” इति महाभाष्यप्रयोगात्, “प्रमाण्यां स्मृतौ” इति शबरप्रयोगाच्च। तस्मादवश्यमेव तत्र प्रमाणपदस्य विशेष्यवाचकता स्वीकरणीया।
10. तथा “इति त्रयः समुदिता हेतुः” इत्यत्र हेतुपदस्य कार्योत्पादप्रयोजकतावच्छेदकसमुदाय-त्वावच्छिन्नपरताभिधानं सर्वथा असंगतमेव। हेतुपदस्य तादृशार्थकत्वस्य लोके अदृष्टचरत्वात्।
11. पुरूरवोमार्द्रवसौ विश्वेदेवाः इत्यत्र तु द्वित्वविशिष्टयोः पुरूरवोमार्द्रवसोः बहुत्वविशिष्टेषु विश्वेदेवेषु अन्वयः कथमिति चिन्त्यम्। तथा सति घटा नीलौ, द्वौ बहवः इत्यादिप्रयोगापत्तेः। अत एव प्रधानतया बोधनीयद्वित्ववत्पुरूरवोमार्द्रवोघटितसमुदायप्रकारपार्वणघटकबहुत्ववद्विशेष्यकः अभेदान्वयबोध इति प्रकाशकारोक्तमपास्तम्।
नियमस्यास्य महाभाष्यकारोपज्ञता
वस्तुतस्तु नायं गदाधरोपज्ञं नियमः। किन्तु पदवाक्यरत्नाकरे[6] उपलभ्यते। तथा हि तद्वाक्यानि (प.वा.र.पृ.87) - प्रातिपदिकार्थयोरभेदे तत्रैव तुल्यवचनान्तप्रातिपदिकोस्थाप्यत्वं तन्त्रम्, यत्रोद्देश्यान्वितसंख्याविरुद्धसंख्याया विधेये तद्विशेषणे वा अन्वयो न विवक्षितः। “वेदाः प्रमाणम्”, “जात्याकृतिव्यक्तयः पदार्थः”, “शक्तिव्युत्पत्त्यभ्यासाः काव्यं प्रति हेतुः”, “शक्यमोषधिपतेर्विलासिभिश्छेत्तुमग्रनखकोरकैः कराः” इत्यादिषु च वेदत्वप्रमाणे न वर्तते इति, जातिमात्रं व्यक्तिमात्रं वा न पदशक्यमिति, शक्त्यादिप्रत्येकमात्रं न काव्योपधायकमिति, विरहिणामिव विलासिनामपि न चन्द्रकरस्पर्शे खेद इति ध्वनयितुं प्रमाणतावच्छेदकनिर्दोषवाक्यत्वादिस्वरूपे प्रामाण्ये गवादिपदार्थत्वे काव्योपधायकतावच्छेदकसमुदायत्वे विलासिकर्तृकशक्तौ च सुबर्थैकत्वान्वयो विवक्षित एव--- इति। तथा तत्रैव प्रमाणत्वे एकत्वान्वयोप्युक्तः (प.वा.र.पृ.362)।
वस्तुतस्तु न पदवाक्यरत्नाकारोपज्ञमपि। महाभाष्ये एवोपलब्धत्वात् अस्य। तथा हि पङ्क्तिविंशतिसूत्रभाष्ये (5.1.79) कथं “गावो धनम्” “पुत्रा अपत्यम्” “ब्राह्मणा विंशतिः” इत्यादयः प्रयोगा इत्याशङ्क्य तत्र गोषु प्रीतिहेतुत्वरूपधनत्वस्यैकत्वात्, पुत्रेषु अपतनहेतुत्वरूपापत्यत्वस्यैकत्वात्, ब्राह्मणेषु विंशतित्वस्य चैकत्वात् तथा विशेष्यवाचकानां बहुवचनान्तत्वेपि विशेषणपदानाम् एकवचनान्तत्वमिति प्रतिपादितम्। तदेवानुसृत्य गोकुलनाथेन, तमनु च गदाधरेण एवं नियमः परिकल्पित इति ध्येयम्।
महाभाष्यीयनियमेपि एतदेव वक्तव्यम्— धनं गावः, अपत्यं पुत्राः इति व्यत्ययेन विशेष्यविशेषणभावे संभवति एवं नियमपरिकल्पनं व्यर्थमेव। विंशतिर्ब्राह्मणा इत्यत्र तु अनुपदमेव विंशत्यादिशब्दविचारे वक्ष्यते[7]।
महाभाष्यमते दोषः
किंच विंशतित्वस्यैकत्वात् तदुत्तरमेकवचनमिति भाष्यमतेपि अयं दोषः प्रादुर्भवति- तथा सति चतुरादिपदेष्वपि चतुष्ट्वादेरेकत्वात् सर्वत्रैकवचनापत्त्या चत्वारो ब्राह्मणा इत्यस्य असांगत्यमिति। अयं च दोषः गदाधरमतेपि समान इति बोध्यम्। एतत्पूर्वमेवोक्तम्।
अत्र न्यायसुधाकृदुक्तः परिहारः
तस्मात् यत्र गुणवचनस्य विशेषणता तत्र विशेषणपदस्य विशेष्यसमानवचनकत्वनियमः। यत्र तु गुणवचनस्य विशेष्यता तत्र भिन्नवचनतापि[8] इति नियमः। गुणवचनत्वं चात्र जात्यादिवचनत्वमपि। अत एव गुणवाचकस्य विशेषणत्वात् वेदाः प्रमाणानि इति, घटाः द्रव्याणि इति, पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि द्रव्याणि इति प्रयोगाः।
गुणवाचकस्य विशेष्यत्वे च प्रमाणं वेदाः इति, द्रव्यं घटाः इति च प्रयोगाः उपपद्यन्ते। तत्र प्रथमप्रयोगे तावत्, प्रमाणं किम् इति पृष्टे यत्प्रमाणं पृष्टं तत् वेदाः इति प्रमाणपदस्यैवोद्देश्यत्वम्। द्वितीयप्रयोगे च द्रव्यमानय इत्युक्ते घटेषु चानीतेषु पृच्छति द्रव्यमानीतं न वेति। तदा उच्यते यद् द्रव्यं तद् घटाः इति। तदा च द्रव्यस्यैवोद्देश्यत्वेन द्रव्यपदस्यैकवचनान्तता।
तथा हि उद्देश्यविधेयभावो ययोर्भवति तयोरेव विशेष्यविशेषणभावः। यज्ज्ञातं भवति तदेवोद्दिश्यते। यच्चाज्ञातं भवति तद्विधीयते। यथा पर्वतो वह्निमान् इत्यत्र ज्ञातं पर्वतमुद्दिश्य अज्ञातो हि वह्निर्विधीयते। यदि पर्वतोपि अज्ञात एव तदा तु पुनः पृच्छ्यते कः पर्वत इति। एवं च तत्र यः उद्देश्यः स एव विशेष्यः भवति। तस्य ज्ञातत्वात्। अज्ञातश्च वह्निमान् विधेयो भवति। यदज्ञातं सत् उद्देश्यं व्यावर्तयति तस्यैव विशेषणत्वात्।
तथाहि--
यद्वृत्तयोगः प्राथम्यमित्याद्युद्देश्यलक्षणम्।
तद्वृत्तमेवकारश्च स्यादुपादेयलक्षणम्।। इति उद्देश्यादिलक्षणम् (श्लो.वा.अनुमानवादे 109)।
पर्वते वह्निरित्यादौ सप्तम्यन्तस्याप्युद्देश्यता, प्रथमान्तस्यापि विधेयता। तत्रापि पर्वतस्यैव पूर्वज्ञातत्वात्।
परन्तु प्रथमान्तविशेष्यक-प्रथमान्तविशेषणकस्थले प्रथमान्तस्यैव च उद्देश्यता। तत्र च उद्देश्यविधेयभावनियतः विशेष्यविशेषणभावः। तेन “उद्देश्यविधेयभावश्च न विशेष्यविशेषणभावनियतः” इति गदाधरवाक्यं[9] भिन्नवचनकस्थलाभिप्रायं नेयम्।
एवं च पर्वतो वह्निमान् इत्यादौ पर्वतः उद्देश्यः, वह्निमांश्च विधेयः इति तयोरेव विशेष्यविशेषणभावः। तत्र उद्देश्यत्वादिकं ज्ञातत्वादिरूपं स्वरूपसंबन्धरूपं वेत्यन्यदेतत्।
तादृशश्च उद्देश्यविधेयभावो वैवक्षिको भवति। न तु सर्वत्र द्रव्यस्यैव उद्देश्यत्वमिति नियमः। जातितद्भिन्नप्रवृत्तिनिमित्तकानां मध्ये जातिप्रवृत्तिनिमित्तकस्यैव विशेष्यता इति रामरुद्रोक्तनियमस्त्वौत्सर्गिक एव (दिनकरीयव्याख्या रामरुद्री पृ.2)। प्रायः प्रथमज्ञानं द्रव्यस्य, ततश्च गुणादिज्ञानमित्यभिप्रायं तत्।
यदा च क्वचित् गुणविशिष्टमेव प्रथमतो ज्ञायते तदा तु तस्यैवोद्देश्यता भवति। यथा अत्र नीलवर्णविशिष्टं यत्किंचिद्वस्तु वर्तते इति पश्यामः। परन्तु किमिदमिति न ज्ञायते। तदा पृच्छामः नीलं किम् इति। उत्तरं च तादृशं भवति नीलं घट इति पट इति वा। तस्य च प्रश्नस्यायमर्थः यदिदं नीलं तत्किंरूपम् इति। नीलं च घट इति प्रश्नोत्तरयोः नीलस्यैवोद्देश्यता। नीलवर्णविशिष्टस्य नीलस्यैव प्रथमज्ञातत्वात्। कदाचिच्च घटः कीदृश इति प्रश्ने घटो नील इति घटोद्देश्यकप्रश्नोत्तरे भवतः। तत्र प्रथमतो घटस्यैव ज्ञातत्वात्। गदाधरेणापि द्रव्योद्देश्यकघटविधेयकशाब्दबोधोङ्गीकृतः, द्रव्यं घट इति। “अथ द्रव्यत्वादौ धर्मितावच्छेदकतासंबन्धेन प्रसिद्धस्य शुद्धघटत्वाद्यवच्छिन्नप्रकारकाभेदान्वयबोधस्य घटत्वादावापत्तिसंभवात्” (व्यु.पृ.11) इत्यादिना।
एवं च कः पचतीति प्रश्नवाक्ये जिज्ञासितधर्मविशिष्ट एव विधेयम्। पचतीतिपदप्रतिपाद्यः पचनकर्ता तु उद्देश्यमेव। ज्ञातस्य पचनकर्तुरेव उद्देश्यत्वस्य, अज्ञातस्य जिज्ञासितधर्मविशिष्टस्य विधेयत्वस्य चैव औचित्यात्। न तु पचनकर्तुरेव विधेयता, जिज्ञासितधर्मविशिष्टस्य चोद्देश्यता।
1. देवदत्तः किं करोति? देवदत्तः पचति,
2. कः पचति? देवदत्तः पचति
इति प्रश्नोत्तरद्वये वैलक्षण्यस्य स्पष्टत्वात्। एवं च देवदत्तः किं करोति?, देवदत्तः पचति इति प्रश्नोत्तरयोरेव देवदत्तादेर्विशेष्यत्वोद्देश्यत्वौचित्यात्। तथा च
3.कानि पुनः शब्दानुशासनस्य प्रयोजनानि? रक्षोहागमलघ्वसंदेहाः प्रयोजनम्,
4. अथ गौरित्यत्र कः शब्दः? गकारौकारविसर्जनीयाः इति भगवानुपवर्षः
इत्यादिपातञ्जल-शाबरप्रश्नोत्तरद्वयेपि प्रयोजन-शब्दयोरेवोद्देश्यता, रक्षादीनां गकारादीनां च विधेयता इति स्पष्टं प्रतीयते।
एवमेव अस्मिन्समूहे एको विद्वान् वर्तते इति ज्ञातं, परन्तु कः स इति न ज्ञातं, तदा
5. विद्वान् कः? विद्वान् देवदत्तः
इत्यादिप्रश्नोत्तरयोः च विदुष एवोद्देश्यता भवति। एवमेव
6. प्रधानमन्त्री कः? प्रधानमन्त्री मनमोहनः
इत्यादावपि जिज्ञासितधर्मिण एव विधेयता युक्ता।
अत्र च विदुषि देवदत्ताभेदः प्रतीयते। न तु देवदत्ते विद्वदभेदः। विधेयताव्याघातात्। अन्यथा देवदत्तः कीदृशः? देवदत्तः सुन्दर इत्यादावपि सुन्दरे देवदत्ताभेदः एव विशेषणतया विधेयः स्यात्। अत एव पर्वतो वह्निमान् इत्यादौ वह्निमतो विधेयता न्यायोक्ता संगच्छते। “साध्यो विधेयविशिष्टो धर्मी” इति अवयवे दीधितिवाक्यम्[1]।
एवं च कः पचति इत्यस्य उद्देश्यवाचककिंपदकत्वं वर्णयन् गदाधरो[2] विचारणीयवचनः।
किंच कः पचति इत्यत्र पचतिपदार्थस्य उद्देश्यत्वाभ्युपगमे तावत् पचतिपदार्थे किंपदार्थस्यान्वयः स्वीकार्यः। परन्तु अभेदेन अन्वयो न भवति पचति इत्यस्य नव्यमते पाककर्तृवाचकत्वाभावात्।
एवं च वेदाः प्रमाणमित्यत्रापि यदि वेदानामेवोद्देश्यता, वेदाः कीदृशाः इति, तदा प्रमाणपदस्यापि वेदपदसमानवचनकतैव। वेदाः प्रमाणानि इत्येवोत्तरम्। यदा च भवदुक्तविषये किं प्रमाणम् इति पृष्टे प्रमाणं वेदाः इत्युत्तरम्। तत्र च प्रमाणपदस्य उद्देश्यवाचकत्वात् न बहुवचनप्रसक्तिः, पुंस्त्वप्रसक्तिर्वा। विधेय/विशेषणवाचकस्यैव उद्देश्य/विशेष्यवाचकसमानवचनलिङ्गकत्वनियमात्। न तु उद्देश्यस्य विधेयसमानलिङ्गवचनकतानियमः। एवं च विधेयानां वेदानां तावत् बहुत्वविशिष्टानामेव विवक्षितत्वात् नित्यपुंस्त्वाच्च वेदाः इति विधेयप्रयोगः। अथ वा तत्र जात्याख्यायामेकस्मिन् बहुवचनमन्यतस्याम् इति वा बहुवचनं युज्यते, यद्येकत्वं विवक्षितम्।
पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि द्रव्याणि (तर्कसंग्रहे) इत्यादाविव वेदपदस्योद्देश्यवाचकत्वे तस्य वेदाः प्रमाणानि इत्येव स्यात्। अस्य समानवचनकत्वनियमस्य यत्र क्वचिदपि भङ्गाभावात्। छन्दस्तुल्ये पाणिनीये तु तरप्तमपौ घः, क्तक्तवतू निष्ठा, यू स्त्र्याख्यौ नदी इत्यादौ अस्ति व्यभिचारः। न तत्रापि सर्वथा, सर्वादीनि सर्वनामानि इत्यादौ नियमस्याप्यनुसरणात्। तथापि छान्दसव्यभिचारो न क्षतिकरः। यद्ययं न स्यात् नियमः तर्हि घटाः द्रव्यम् इत्यादयः अपप्रयोगाः प्रयोगाः स्युः।
“जातिगुणक्रियासंज्ञाशब्देषु मध्ये जातिवाचिभ्य एकत्वेपि बहुवचनं वा स्यादिति सूत्रार्थे जातिशब्दात् ब्राह्मणशब्दादेव एकत्वसंख्यायामपि बहुवचनं जातमिति ब्राह्मणशब्दादुत्पन्नस्य बहुवचनस्याप्येकत्वसंख्याभिधायित्वात् पूज्य इत्येकवचनान्तेन सामानाधिकरण्यमुपपद्यते एव। एवमेव गावो धनम्, पितरो देवताः, वेदाः प्रमाणम् इत्यत्रापि ज्ञेयम्। एवं च वेदाः प्रमाणम् इत्यत्र सामानाधिकरण्योपपत्तये व्युत्पत्तिवादे गदाधरभट्टाचार्याणां कोलाहलकरणं तु वैतण्डिकत्ववावदूकत्वख्यापनायेति बोध्यम्” इति जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम् इति सूत्रे कौमुदीव्याख्यायां शिवदत्तदाधिमथाः[3] प्रवदन्ति।
“सुवर्णपिण्डः खदिराङ्गारसवर्णे कुण्डले भवतः” इति महाभाष्यवचने (म.भा.1.1.1, पृ.1.63) तावत् कुण्डलभावमापन्नयोः व्यक्त्योः द्वित्वात् द्वित्वं विवक्षितमिति द्विवचनम्। न तु तादृशी एका व्यक्तिः वेदाः प्रमाणमित्यत्र दृश्यते, येन एकत्वविवक्षया एकवचनोपपत्तिरिति वक्तुं शक्यते।
एवं च विकृतिभूतयोः व्यक्त्योः द्वित्वे विशेषणे द्विवचनं भवति। सुवर्णपिण्डः कुण्डले भवतः, एकदेशस्थाः वृक्षाः वनम्, गकारौकारविसर्जनीयाः शब्दः इत्यादौ च परिणम्यमानाकृतेरेकत्वाच्च एकवचनं भवति। बुद्धिकृतश्च क्वचिद्विकार इति ध्येयम्।
एवं च विरुद्धसंख्याया विवक्षायां द्विवचनमिति न वक्तव्यम्। तथा सति तत्रैव स्थले उदाहरणे अविवक्षायामन्यथापि भवति इव प्रतीयते। यथा एक एव विवक्षया पिता पुत्रः, एकमेव वस्तु कर्तृ कर्म च विवक्षया भवति इति। किन्तु वस्तुतः विशेषणीभूते द्वित्वैकत्वादिसत्त्वे तत्र तादृशं विशेषणवचनमुत्पद्यते इत्येव वक्तव्यम्। तस्य चोदाहरणं न वेदाः प्रमाणम् इति, न वा पुरूरवोमार्द्रसवसौ विश्वेदेवा इति वा, अपि तु सुवर्णपिण्डः कुण्डले भवतः, इत्यादिकमेव। किंच पुरूरवोमार्द्रसवसौ विश्वेदेवा इत्यनेनैव पुरूरवोमार्द्रवसोः विशेष्यता प्रतीयते, प्रथमप्रयोगात्।
घटाः नीलः इति तु प्रयोगः असाधुरेव। नीलपदस्य विशेषणवाचकत्वात् गुणवाचकत्वाच्च तस्य विशेष्यसमानवचनकत्वावश्यंभावात्।
अयं च पक्षो न्यायसुधाकृदुक्तः। तथा हि तत्पङ्क्तयः “कथं तर्हि वेदाः प्रमाणम्, स्मृतिः प्रमाणमिति ?। प्रमाणमिति सामान्येनोद्दिश्य वेदादित्वविधानात्। अन्यथा तत्रापि दौर्घट्यमेवेति”[4]। अत्र शेषवाक्यार्थचन्द्रिका[5] — “यदत्र प्रमाणमिष्टं स वेदादिरिति प्रमाणमुद्दिश्य वेदादित्वस्यैव विधानात् उद्देश्यवाचकप्रमाणशब्दस्य नपुंसकत्वेपि अनियतलिङ्गस्यैव विधेयस्योद्देश्यसमानलिङ्गतानियमात् वेदस्मृतिशब्दयोश्च विधेयसमर्पकयोर्नित्यपुंलिङ्ग-स्त्रीलिङ्गत्वेनोद्देश्यसमानलिङ्गत्वाप्राप्तेः” इति।
विश्वेदेवाः पुरोरवोमार्द्रवसौ इत्यत्र च पुरोरवोमार्द्रवःपदस्यैव विशेषणपदत्वात्, तस्य च गुणवचनत्वाभावात् नामधेयपदत्वाच्च तदुत्तरं द्विवचनमेव साधु। यदि च पुरोरवोमार्द्रवसौ विश्वेदेवाः इति विशेष्यविशेषणभावव्यत्यासेन प्रयोगः, तदापि विश्वेदेवपदस्य नित्यं बहुवचनान्तत्वेन एकवचनकत्वप्रसङ्ग एव नास्ति इति तस्यापि साधुता।
त्रयः समुदिता हेतुः इत्यत्रापि हेतुः त्रयः समुदिताः इत्येवान्वयः।
जात्याकृतिव्यक्तयः पदार्थः इत्यत्रापि पदार्थः जात्याकृतिव्यक्तयः इत्यन्वयः।
पितरो देवताः इत्यादौ तु देवतापदस्य गुणवाचकत्वात् बहुवचनता।
प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि इत्यत्रापि प्रमाणशब्दस्य विशेषणत्वात् बहुवचनता।
वेदाः प्रमाणमिति कस्य प्रयोगः इति न ज्ञायते। परन्तु प्राचीन[6] एव स्यात्, यतः जयतीर्थीयन्यायसुधायामपि अस्य प्रयोगस्य उपपत्तिप्रकार आदर्शितः। उदयनाच
--