Dear Friends,
PraNamyA.Here is the knowledge of
gardens.as described in Sanskrit.This is just for information.Specifically in numbering the important trees to be planted please let me know if there is any meaning implied.संस्कृत वाङ्मये आरामविज्ञानम्।
आरामॊ नाम कृत्रिमं वनम्। राज्ञ आरामः उद्यानम्। अन्तःपुरॊपयुक्त स्स प्रमदवनम्। गृहारामॊ निष्कुटः।
स एव अमात्यस्य, वेश्याया वा सम्बन्धी चेत् वृक्षवाटिके त्युच्यते। स्वप्ने आराम करणस्य फलं सम्यक्
स्थितिः। आराम निर्माणस्य फलं स्वर्गः,कीर्तिवृद्धिः,आरॊग्यम्,लक्ष्मीः,विजय श्च। तत्रापि स्वर्ग लोकार्थिभिः
सहस्रम्,शतम्,शतार्थम् वा वृक्षा रोपणीयाः। तेषु मुख्या वृक्षाः-अशोकः,निम्बः,पुन्नागः,वकुलः,नागकेसरः,
शिरीषः,तिलकः,आम्रः,पद्मम्,मल्लिका,शतपत्रम्,द्राक्षा,शमी,चम्पकः,पूगः,दाडिमः,लोध्रः,केतकी,जातिः,अश्वत्थः,
नाळिकेरः,कदळी,पाटला,जम्बीरः,पनसः इत्यादयः।
एवंविध आराम निर्माणाशक्तौ आवश्यक वृक्षा यथा:-
एकोऽश्वत्थः। एको निम्बः। एको न्यग्रोधः। दश तिन्त्रिण्यः। त्रयः कपित्थाः। त्रयो बिल्वाः। तिस्र आमलक्यः। नव आम्राः। एतेषां रोपणं नरक हेतु पाप नाशकम्।
तत्र निन्द्या वृक्षा यथा:--
कण्टकिनः,सरळः,नीली,गिरिकर्णी,सर्षपाः,हरिद्रा,पलाशः,कोविदारः,शाकोटः,श्लेष्मातकः,विभीतकः इत्याद्याः।
गृहारामे निषिद्धाः यथा:--बदरी,कदळी,दाडिमी,बीजपूरः इत्याद्याः।
आरामदानं महाफलम्।
Regards,
I.V.Nacha...@yahoo.co.in--
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)