स्रोतः≠प्रभवः, स्रोतः=प्रवाहः

12 views
Skip to first unread message

उज्ज्वल राजपूत

unread,
Sep 24, 2018, 6:51:29 AM9/24/18
to भारतीयविद्वत्परिषत्
बहुत्र जनेन प्रभवार्थे स्रोत इत्येष शब्दः प्रयुज्यते हिन्दीभाषायां तदर्थेक्षणात्। आङ्ग्लभाषायाम् अपि प्रभवार्थे प्रयुज्यमानेन सोर्स् इत्यनेन शब्देन समानश्रुतित्वात् स्रोतःप्रभवयोर् एकार्थत्वे जनस्य विश्रम्भः प्रबलायते। तेन विकिस्रोत इत्यादिषु तस्मिन्नर्थे प्रयुज्यते। अत्रावधानम् अपेक्ष्यते। अथवा यदि ममैवानवधानाद् अहं नापश्यं शिष्टैः प्रयुज्यमानं प्रभवार्थे स्रोतश्शब्दं तदुच्यताम्।
Reply all
Reply to author
Forward
0 new messages