आत्मस्तुतिसप्तकम्
इन्द्रियाणि हि चेद् देवास्तेषां यन्ता स्वभावतः।
यन्तृत्वात्स महान् देवो महादेवं नमाम्यहम्॥१
जाग्रत्स्वप्नसुषुप्तीनां त्रिभिरिवाम्बकैः सह।
योऽवस्थात्रितयं भुङ्क्ते त्र्यम्बकं तं नमाम्यहम्॥२
दिक्कालयोरभिन्नो यो दिक्काललयकारकः।
हन्ता तयोस्ततो रुद्रं महाकालं नमाम्यहम्॥३
एक एव निराकारः सर्वक्लेशलयस्थलम्।
नास्माच्छिवतमं किञ्चिच्छिवं तस्मान्नमाम्यहम्॥४
कृष्यन्ते च ह्रियन्ते च संवित्तयोऽनुभूतये।
येन सर्वा यदर्थाश्च हरिं कृष्णं नमाम्यहम्॥५
हरिः कृष्णो महादेवस्त्र्यम्बकः शङ्करः शिवः।
नार्थान्तराणि नामानि महाकालो महेश्वरः॥६
आत्मैव लक्ष्यतेऽनेन नामवृन्देन सर्वदा।
विवेकेन हि कर्त्तव्या प्रत्यभिज्ञा ततः शमः॥७