सायणाचायवचनेषु ज्योतिषस्य याज्ञिकविधिषु सप्तविधप्रयोजननिर्देश: एवं वर्तते।
"य़ज्ञकालार्थसिद्धये" - (वेदाङ्गज्योतिषे ३) इति। कालविशेष विधयश्च श्रूयन्ते -
१. "संवत्सरमेतद् वरतं चरेत्" - (तै. आ. १/३२/१), "संवत्सरमुख्यं भूत्वा" (तै.सं ५/६/५/१) - इत्येवमादय: संवत्सरविधय:।
२. "वसन्ते ब्राह्मणो.अग्निमादधीत, ग्रीष्मे राजन्य आदधीत, शरदि वैश्य आदधीत" (तै. ब्रा. १/१/२/६/७) इत्याद्या: ऋतुविधय:।
३. "मासि मासि सत्रपृष्ठानि उपयन्ति, मासि मासि अतिग्राह्या गृह्यन्ते।" - इत्याद्या: मासविधय:।
४. "यं कामयेत वसीयाऩ् स्यादिति तं पूर्वपक्षे याजयेद्।" (तै.सं.२/२/३/१) इत्याद्या: पक्षविधय:।
५. "एकाष्टकायां दीक्षेरन्, फल्गुनीपूर्णमासे दीक्षेरन्" (तै.स> ७/४/८/१) इत्याद्या: तिथिविधय:।
६. "प्रातर्जुहोति", "सायं जुहोति" (तै.ब्रा. २/१/२) इत्याद्या: प्रात:कालादिविधय:।
७. "कृत्तिकास्वग्निमादधीत" - (तै.ब्रा. १/१/२/१) इत्याद्या: नक्षत्रविधय:।
अत: कालविशेषाऩ् अवगमयितुं ज्योतिषमुपयुज्यते।
इति सायणाचार्य: संवत्सर - ऋतु - मास - पक्ष - तिथि - प्रातरादिकाल - नक्षत्रविधिविशॆषान् पुरस्कृत्य सप्तविधप्रयोजनानि प्रोवाच।
अत: वेदाङ्गज्योतिषे एतेषामेव प्रस्तावोऽस्तीति ग्रहादीनां, योगकरणादीनां विषये प्रस्ताव: नास्तीति केचन विद्वांस: प्राय: लोके सिद्धान्तीकुर्वन्ति।
परन्तु अयम् एवकार: प्राचीनैराचार्यै: न प्रयुक्त: इति स्मरणीयोऽयमंश:।
अतीतदिनद्वये ममानुशीलने वक्ष्यमाणा: केचन अंशा: विविधसंहितादिग्रन्थेषु मया दृष्टा:।
१. संवत्सरभेदा: -
संवत्सरोऽसि परिवत्सरोऽसीदावत्सरोऽसीद्वत्सरोऽसि वत्सरोऽसि। (वा.य. २७/४५)
(संवत्सर - परिवत्सर - इदावत्सर - इद्वत्सर - वत्सरा: - षष्ठिवर्षचक्रे प्रतिवर्षपञ्चकमनुवर्तन्ते क्रमश: अधुनापि।)
२. उष:काल - अहोरात्र - अर्धमास - मास - ऋतव:।
उषस्ते कल्पन्तामहोरात्रास्ते कल्पन्तामर्धमासास्ते कल्पन्तां मासास्ते कल्पन्तामृतवस्ते कल्पन्तां संवत्सरस्ते कल्पन्ताम् ।
(षडृतूनां, विविधनक्षत्राणां च नामग्रहणं सहितं नैके मन्त्रा चतुर्वेदसंहितासु बहुत्र दृश्यन्ते)
३. ग्रहविषये -
अ) यद् गृह्णाति तस्माद्ग्रह:। श. १०/१/१/५
आ) तं सोमं अघ्नऩ्। तस्य यशो व्यगृह्णत। ते ग्रहा अभवऩ् । तद्गहाणां ग्रहत्वम् । (तै. २/२/८/६)
इ) (प्रजापति:) तौ (दर्शपूर्णमासौ) ग्रहेणागृह्णात्। तद्ग्रहाणां ग्रहत्वम्। (तै. २/२/२/१)
ई) एष वै ग्रह:। य एष (सूर्य:) तपति येनेमा: सर्वा: प्रजा गृहीता:। (श. ४/६/५/१)
४. केषांचन ग्रहाणां नामानि।
अ) शं नो ग्रहाश्चन्द्रमसा:, समादित्यश्च राहुणा।
शं नो मृत्युर्धूमकेतू शं नो रुदस्तिग्म तेजस:॥ (अ.वे. १९काण्डे ९ सूक्ते १०मन्त्र:)
(अत्र ग्रहशब्दस्य - चन्द्रस्य - सूर्यस्य - राहोश्च स्मरणमस्ति)
आ) शं नो मित्र: शं वरुण: शं विवस्वाञ्छमन्तक:।
उत्पाता पार्थिवान्तरिक्षा: शं नो दिविचरा ग्रहा:॥ (अ.वे. १९काण्डे ९ सूक्ते ७ मन्त्र:।)
(अत्र ग्रहशब्दस्य प्रयोग: दृश्यते)
इ) बृहस्पते अति यदर्यो अर्हाद् द्युमद् विभाति क्रतुमञ्जनेषु।
यद्दीदयच्छवस ऋतप्रजात तदस्मासु द्रविणं धेहि चित्रम् ॥ (ऋग्वेदे २/२३/१०)
(जातकपारिजातादि ग्रन्थेषु विद्यमानानि बृहस्पतिलक्षणानि सर्वाणि अत्र बृहस्पते:स्तुतिरूपे ऋचि सन्ति।)
ई) महीन्दीक्षां सौमायन: (सोमपुत्र:) बुधो यदुदयच्छदनन्दत्सर्वमाप्नोन्मन्मांसे मेदोधा इति । (ताण्ड्ये २४/१८/६)
५. अभिजिन्नक्षत्रम्
देवासुरा:संयत्ता आसऩ् । ते देवास्तस्मिन्नक्षत्रेऽभ्यजयऩ्। यदभ्यजयऩ् तदभिजितोऽभिजित्त्वम्॥ (तै.१/५/२/३-४)
अभिजिता वै देवा अभ्यजयन्निमांस्त्रींलोकाऩ्। (कौ. २४/१)
६. योगकरणादिविचार:
तिथ्यहोरात्रादिवद् वासर - योग -करणान्यपि कालांशा: एव। तेषां विनियोग: यज्ञेषु विद्यते वा न वा इति यद्यपि संशयो जायते (वैदिकप्रयोगानुपलब्धिवशात्) तथापि वेदामोदितेषु स्मृतिग्रन्थेषु
(श्रीशिवसेनानिवर्यै: उक्तरीत्या) षोडशसंस्काराणामाचरणे विशिष्य नामकरण - उपनयन - विवाहादिषु तिथिनक्षत्रयोरिव वासर - योग - करणादीनामपि कालांशानां गणनं प्राधान्यं वहति। कोशागारे विद्यमानं धनं सर्वमपि एकत्र एव व्ययितव्यमिति नियम: यथा नास्ति तथैव कालांशभूतानां वासर - योग - करणादीनामपि प्रयोग: यज्ञेषु न दृश्यते इति कारणैकमात्रेण ते अवैदिका: इति वक्तव्या:। स्मृतिमार्ग: वेदबाह्य: वा? वैदिका: न भवन्ति किम् षोडश संस्कारा:?
तत्र विद्वज्जना: एव प्रमाणम्।
नमांसि भूयांसि।
Prof. Rani Sadasiva Murty