काव्यधारा - वाजपेयिविशेषाङ्कस्य प्रकाशनम्, अग्रिमाङ्कस्य कृते काव्यानाम् आह्वानं च

11 views
Skip to first unread message

b.ramakrishnap

unread,
Nov 19, 2018, 11:35:54 PM11/19/18
to भारतीयविद्वत्परिषत्

सप्रश्रयाणि वन्दनानि सहृदयेभ्यः ।


इदं सहर्षं निवेदयामो यद् दीपानामावलीभिः प्रकाशमयं कार्त्तिकमासमेनं प्रकाशातिशयेन योजयितुं प्राकाश्यं नीतास्ति प्राचीप्रज्ञान्तर्गतायाः काव्यधारायाः नवोऽङ्कः । वाजपेयिविशेषाङ्कनाम्ना विभूषितोऽसावङ्कः आधुनिकैः कवितावधूटीवल्लभैः विरचितैः सप्तभिः काव्यैः रसवत्तरो नूनं विशिष्टं श्रद्धाञ्जलिं समर्पयति कीर्तिशेषाय महात्मने वाजपेयिवर्याय इति विभावयामि । विशेषेणात्र वक्तव्यमस्ति यत् -


सत्काव्यदीपकावल्या हृदाकाशं प्रकाश्य नः ।

धन्यतां तन्वते मान्यकविवृन्दाय मे नतिः ।।


तमेनमङ्कम् https://sites.google.com/site/praachiprajnaa/kavyadhara इत्यस्यां योजन्यां द्रष्टुमर्हन्ति तत्रभवन्तः । सर्वेषां तत्र स्वागतिको बुभूषाम्यहम् ।


इदमप्यत्र निवेदयितुकामोऽस्मि प्रतिभाधनान् यदस्याः काव्यधारायाः अग्रिमोऽङ्कः जनवरीमासे प्राकाश्यं नेष्यते । तत्कृते स्वाभिमते कस्मिन्नपि विषये हृद्यानवद्यानि पद्यानि विरचय्य 20/12/2018 इत्यस्माद् दिनाङ्कात् पूर्वं prachip...@gmail.com इत्येतं वैपत्रसङ्केतं प्रति प्रहिण्वन्तु इति ।


इति धन्यो भवदीयः,
डा. रामकृष्णपेजत्तायः
सम्पादकः,
काव्यधाराविभागः, प्राचीप्रज्ञा
विश्वविद्यालयानुदानायोगद्वारा (UGC, India) अधिसूचिता सन्दर्भिता अन्तर्जालशोधपत्रिका
Reply all
Reply to author
Forward
0 new messages