Sanvallaghuni (przathama paksha)

23 views
Skip to first unread message

Rishi Goswami

unread,
Dec 27, 2018, 1:37:53 AM12/27/18
to भारतीयविद्वत्परिषत्
।। श्रीहरिः ।।

सादरं नमामि विद्वांसः!

मया इदानीम् सन्ल्लघुनि इत्यत्र पक्षद्वयं ("अङ्गस्य" इत्यस्य  द्विरावर्तनस्य भाषयोक्तम् एकं,/ "अङ्गस्य" इत्यस्य सकृत् आवर्तनस्य भाष्यविरुद्धम्  इति च पक्षद्वयम्) अधीयते। तत्र प्रथमपक्षो न ज्ञायते| अजजागरत् इत्यत्र उभयोः पक्षयोः साम्यम् दृश्यते,सन्वद्भावनिषेधः। अत्र चङ्परे णौ यल्लघु, तदत्र नास्त्येव (जा इति दीर्घः), अथ च पक्षान्तरेपि लघुपरक-अभ्यासो नास्त्येव।

  • किन्तु उन्दिदि इ अत् इत्यत्र उभयोः पक्षयोः भेदः, तन्न ज्ञातुं समर्थः। 
प्रथमं तावत् कः अत्र धातुः? उन्दी क्लेदने? कोपि ण्यन्तः धातुः एव भवेत्, अतः उन्दी क्लेदने इत्यस्मात् णिचि, उन्द् इ इति स्थिते उन्दि इति ण्यन्तधातुरूपम्? अहो न ज्ञायते।
यद्येवम्, तर्हि उन्दि दि कथं स्यात्? 

अत्र बालमनोरमायाम् पक्षद्वयं दत्तं, तद् द्वितीयं सुगमम्, न तु प्रथमम्। यथा द्वितीयम्:-

"द्वितीयपक्षे तु चङ्परे णौ यदङ्गं, 'उन्दिद' इत्येतत् तदीयो अभ्यासः चङम् आदाय, लुप्तणिम् आदाय वा, लघुपर इति सन्वत्त्वसत्त्वाद् अभ्यासदीर्घ इति भेदः।"
अस्ति। "उन्दि" इत्यभ्यासः, स च लघुपरः (नु-परः), अतः सन्वद्भावदीर्घौ स्तः। 

  • उन्दि धातुं न जाने अतः ऊर्णुधातुना साम्यम् स्थापयामि। 

अस्यैव मनोरमायाः ऊर्णुधातोः कृते लेखनम् यथा:-

"द्वितीयपक्षे तु चङ्परे णौ यदङ्गं, 'ऊर्णु नु अ' इत्येतत् तदीयो अभ्यासः चङम् आदाय, लुप्तणिम् आदाय वा, लघुपर इति सन्वत्त्वसत्त्वाद् अभ्यासदीर्घ इति भेदः।"
अस्ति। "ऊर्णु" इत्यभ्यासः, स च लघुपरः (नु-परः) अतः सन्वद्भावदीर्घौ स्तः। 

______________________________________________________________________________________________________


किन्तु प्रथमपक्षे अत्र कथं विरोधः स्यात्? तन्न ज्ञातम्। यथा उन्दि दि अत्  अत्र चङ्परे णौ यल्लघुः (दि) तत्परतः यद् अभ्यासः (उन्दि), तस्य सन्वद्भावः स्यादेव। किन्तु बालमनोरमायाम् विपरीतं दत्तम् अस्ति। 
यथा

"एवं च प्रथमपक्षे उन्देर् ण्यन्तात् चङि द्वित्वे "उन्दिदि अ त्" इत्यत्र अभ्यासोत्तरखण्डे चङ्परे णौ लघोरभावेन अभ्यासस्य तथाविधलघुपरकत्वविरहात् सन्वत्त्वाभान्नाभ्यासदीर्घः।"

किम् अस्यार्थः?

तत् कथम् आवश्यकम्? अभ्यासोत्तरखण्डे भवतु लघ्वभावः। चङ्परे णौ परतः यल्लघुः 【उन्दि'दि' (इ) अत् इत्यत्र "दि" अस्ति लघुः, स तु चङ्परे णौ परतः लघुः। तस्मिन् लघुनि परे यदभ्यासः (उन्दि) तस्य सन्वद्भावे का क्षतिः?】


  • अस्यैव मनोरमायाः ऊर्णुधातोः कृते लेखनम् यथा:-

"एवं च प्रथमपक्षे ऊर्णोतेर् ण्यन्तात् चङि द्वित्वे "ऊर्णु नु अ त्" इत्यत्र अभ्यासोत्तरखण्डे चङ्परे णौ लघोरभावेन अभ्यासस्य तथाविधलघुपरकत्वविरहात् सन्वत्त्वाभान्नाभ्यासदीर्घः।"

अत्रापि, चङ्परे णौ परतः अस्ति लघुः (नु), तथाविधलघुनि परे अस्ति अङ्गस्य-अवयव-अभ्यासः (ऊर्णु) तस्य सन्वद्भावे दीर्घे का क्षतिः? 

अथ च पक्षद्वयम् आलम्ब्य द्वे रूपे स्तः और्णूनुवत्/और्णुनुवत् 

प्रणमामि
ऋषिः |

Narayan Prasad

unread,
Dec 27, 2018, 3:45:22 AM12/27/18
to भारतीयविद्वत्परिषत्
<<प्रथमं तावत् कः अत्र धातुः? उन्दी क्लेदने? कोपि ण्यन्तः धातुः एव भवेत्, अतः उन्दी क्लेदने इत्यस्मात् णिचि, उन्द् इ इति स्थिते उन्दि इति ण्यन्तधातुरूपम्? >>

Yes.

<<यद्येवम्, तर्हि उन्दि दि कथं स्यात्?>>

Pl. see the attached figure.

Best wishes
Narayan Prasad
undidishati.png

Narayan Prasad

unread,
Dec 27, 2018, 4:09:00 AM12/27/18
to भारतीयविद्वत्परिषत्
<<प्रथमं तावत् कः अत्र धातुः? उन्दी क्लेदने? कोपि ण्यन्तः धातुः एव भवेत्, अतः उन्दी क्लेदने इत्यस्मात् णिचि, उन्द् इ इति स्थिते उन्दि इति ण्यन्तधातुरूपम्? >>

Another explanation (in case of aNyanta dhAtu) is attached herewith. Procedure is similar. Here the इ comes from the इट् to the वलादि आर्धधातुक suffix सन्.

Best wishes
Narayan Prasad
atitishati.png

Rishi Goswami

unread,
Dec 27, 2018, 6:02:18 AM12/27/18
to bvpar...@googlegroups.com
Thanks Prasad Mahoday. This is the Balamanorama I'm posting because internet doesn't have the text available anywhere of this particular Sutra, rest are available though.
So, this is what I have concluded, there is Sthanivadbhaav for Ni. Because "LuptaNim AadAya Laghuparaka-abhyAsah" is accepted in this method. 

Regards 
Rishi 

--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To post to this group, send email to bvpar...@googlegroups.com.
For more options, visit https://groups.google.com/d/optout.

IMG_20181227_142842.jpg
IMG_20181227_142813.jpg

Narayan Prasad

unread,
Dec 27, 2018, 7:54:34 PM12/27/18
to bvpar...@googlegroups.com
Rishi Goswami ji,
        It appears that you have difficulty in understanding the meaning of the sutra itself. 
        For detailed discussion on P.7.4.93, please refer to Vol.13 of "The Ashtadhyayi of Panini" by Prof. S.D. Joshi. It will clear all your doubts.
        If you do not have access to this work, here is the link:
        Best wishes
        Narayan Prasad

You received this message because you are subscribed to a topic in the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this topic, visit https://groups.google.com/d/topic/bvparishat/r1HJS5_V_aI/unsubscribe.
To unsubscribe from this group and all its topics, send an email to bvparishat+...@googlegroups.com.
Reply all
Reply to author
Forward
0 new messages