वसिष्ठः -- वशिष्ठः

61 views
Skip to first unread message

Mahamaho. Subrahmanyam Korada

unread,
Feb 22, 2025, 6:39:14 AMFeb 22
to bvpar...@googlegroups.com
नमो विद्वद्भ्यः

वसिष्ठः -- वशिष्ठः

Both are in usage and both are correct --

वसिष्ठः --
पाणिनिः -- अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च 2-4-65

वोतो गुणवचनात् पा 4-1-55 --
महाभाष्यम् -- आद्युदात्ताः प्रयोजयन्ति - वस्वी , पट्वी ।
कैयटः - शब्दकौस्तुभः -  न्यासकारः - हरदत्तः - ’धान्ये नित’ इत्यतो निदिति वर्तमाने ’शृस्वस्निहि’ इति वसुशब्दस्य आद्युदात्तो व्युत्पादितः ।
हरदत्तः - शब्दकौस्तुभः - ... नैर्मल्यवाची । प्रशंसावाचीत्यन्ये । तथा च अतिशयेन वसुर्वसिष्ठ इति व्युत्पादयन्ति ।
उद्योतः - वसुशब्दः प्राशस्त्यगुणवाची ।
माधवीयधातुवृत्तिः - ....वसुमत्तमो वसिष्ठः ।
वशिष्ठः --
पञ्च भूतानि वसवः । अणिमादिसिद्धिभिः वसवः वशीकृताः इति वशिष्ठः । 104 ऋग्वेदसूक्तानि अनेन दृष्टानि ।

धन्यो’स्मि

Dr.Korada Subrahmanyam
Adju.Professor , Dept of Heritage Science and Technology, IIT, Hyderabad
299 Doyen , Serilingampally, Hyderabad 500 019
Ph:09866110741

Reply all
Reply to author
Forward
0 new messages