विद्वद्भ्य: प्रणाम:।
अभावमधिकृत्य मम प्रश्ना:।
कतिपयदर्शनानि अभावं स्वतन्त्रप्रमेयत्वेन नाभ्युपगच्छन्ति।अस्मिन् सन्दर्भे मम प्रश्ना: इमे –
१ यानि दर्शनानि अभावं स्वतन्त्रप्रमेयत्वेन नाभ्युपगच्छन्ति तेषां परिगणनं केनचित् कृतं वा?
२ एतेषु दर्शनेषु 'भूतले घटो नास्ति' इति प्रतीते: विषयस्य गणना कस्मिन्पदार्थे भवति?
३ अभावस्य स्वतन्त्रप्रमेयत्वेन अभ्युपगमे एषां दर्शनानां क: क्लेश:?(तेषां कापि प्रतिज्ञा पीड्यते वा सिद्धान्तो व्याहन्यते वेति।)
विद्वांस: उत्तरदानेन अनुगृह्णन्तु ।
जिज्ञासु:
चन्द्रकान्त:।
--
--
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
to subscribe go to the link below and put a request
https://groups.google.com/group/bvparishat/subscribe
To unsubscribe from this group, send email to
bvparishat+...@googlegroups.com
अभावमधिकृत्य मम प्रश्ना:।
१ यानि दर्शनानि अभावं स्वतन्त्रप्रमेयत्वेन नाभ्युपगच्छन्ति तेषां परिगणनं केनचित् कृतं वा?
--
--
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
to subscribe go to the link below and put a request
https://groups.google.com/group/bvparishat/subscribe
To unsubscribe from this group, send email to
bvparishat+...@googlegroups.com
विद्वद्भ्यो नम:।
प्रतिस्पन्दार्थं धन्यवादा:।न तथापि सन्तुष्टोऽहं तत्रभवद्भिर्दत्तै: उत्तरै:। http://sanskrit.uohyd.ac.in/Corpus/CIIL/praman-vichara/pramanavichara-sandhi-split.txt इत्यत्र तु सर्वं विकृताक्षरमेव लेखनं मया दृष्टम्।अस्तु।
अत्रान्तरे केनचिदद्वैतिना सहास्मिन्नेव विषये मम सम्भाषा जाता।तेन दत्तानि उत्तराणीमानि-
१ यानि दर्शनानि अभावं स्वतन्त्रप्रमेयत्वेन नाभ्युपगच्छन्ति तेषां परिगणनमहं न जानामि।अद्वैतमते तावदभाव: स्वतन्त्रपदार्थत्वेन न गण्यते।
२'भूतले घटो नास्ति' इति प्रतीते: विषय: अस्मन्मते भूतलमेव ।यतो हि अभावोऽस्मन्मते अधिकरणरूप: भवति।
३ज्ञानेनाविद्यानाशे सति मोक्षोऽस्माभिरङ्गीक्रियते।यदि अभावं पृथक्पदार्थं वयं गणयाम: तर्हि मोक्षे परं ब्रह्म तथा अविद्याध्वंस: इति द्वौ पदार्थौ अवशिष्येते। न चैतदद्वैतमतानुकूलम्। अभावमधिकरणरूपं वयं मन्यामहे।तेन अविद्याध्वंस: परब्रह्मरूप: एव भवति।यतो हि ब्रह्मणि अधिकरणे एव अविद्या उज्जृम्भते। अविद्याध्वंस: परब्रह्मरूप: चेद् न अद्वैतहानि:।
एतै: उत्तरै: मम समाधानं जातम्।एवमेव साङ्ख्यादिदर्शनविद्भ्य: उत्तराणि अपेक्ष्यन्ते।
चन्द्रकान्त:
Hi chandrakant,
I am replying in English with some Sanskrit words meaning to respected gods mentioned in Veda and Sankhya and nyaya.
Here word "ghata" means "ghata-akash"
Our Brahmand shape is made of pot shape.
There "Mahada-akash" made of Mahat tatva.
Para-brahm is laying on top of mahad-akash.
And param-brahma is situated in bindu.
So at " atyantic" pralay , ghata-akash got smallest or lay in para-brahm ( hiranya-gharbh) or Narayan ( not Vishnu but Narayan of mahaNarayan Upanishad). See Vishnu puran ansh-6 , adhaya-3, Shloka-2,5,6,36-46,64-87.
Narayan(para-brahm) got lay ( dissolve like salt in sea) in param-brahm (parameshwar) .
See shiv- Gita ( word sindhav which says about moksha as dissolving in parmatmA or param-brahm).
To get more detail please read "Panglopnishad" and "mahanarayan Upanishad", "Brahman-mandal- Upanishad" , with nyaya shastra and sankhyA .
Hope this will helps you.
Thanks,
Glade