{भारतीयविद्वत्परिषत्} श्रीरामपरमायणम् - A Poetic Summary of the Ramayana

45 views
Skip to first unread message

Kushagra Aniket

unread,
Dec 29, 2024, 1:01:51 PM12/29/24
to BHARATIYA VIDVAT
सर्वेभ्यो नमः,

गढ़वा दुर्ग, प्रयागराज के समीप मिले १०९५ ई॰ (वि॰सं॰ ११५२) के महत्त्वपूर्ण राम-प्रशस्ति-शिलालेख पर आज हमारा शोध-प्रबंध सम्पूर्ण हुआ। 

आज कवि शिवप्रसाद-विरचित "लक्ष्मीश्वर-भूषणालंकार-प्रबंध" के निम्नलिखित मङ्गल-श्लोक और देवी सीता की प्रसिद्ध उक्ति "यथैतत्सत्यमुक्तं मे वेद्मि रामात्परं न च" से प्रेरणा लेकर प्रस्तुत है एक रचना "श्रीरामपरमायणम्", जिसमें सात श्लोकों में सम्पूर्ण रामायण की संक्षिप्त कथा है -

कोदण्डभूषितकरान्मणिनीलरूपात्
सत्कञ्जलोचनवराद्भरताग्रजातात् ।
सौमित्रिसेवितपदात्परमाभिरामात्
रामात्परं किमपि तत्त्वमहं न मन्ये ॥
(इति शिवप्रसादस्य)

श्रीरामपरमायणम्
(कुशाग्र-विरचितम्)

बालकाण्डः

इक्ष्वाकुवंशतनयान्नवनीरजाभात्
सौमित्रपूजितपदान्मुनियज्ञपालात्।
वैदेहराजसुखदादरविन्दनेत्राद्
रामात् परं किमपि तत्त्वमहं न जाने॥१

अयोध्याकाण्डः

सीतोपगूढहृदयादमिताभिरामात्
साकेतनागरविलोचनपुण्यलाभात्।
तातानुशासनतृणीकृतयौवराज्याद्
रामात् परं किमपि तत्त्वमहं न जाने॥२

अरण्यकाण्डः

श्रीदण्डकावनतपोधनवीक्ष्यमाणात्
कोदण्डभूषितकरान्मृगमार्गमाणात्।
सीतावियोगविकलादनुजावलम्बाद्
रामात् परं किमपि तत्त्वमहं न जाने॥३

किष्किन्धाकाण्डः

वातात्मजोपचरिताद् वनचारिवीरात्
सुग्रीवजीवनधनादुपकारनिष्ठात्।
सङ्ग्रामभूपतितवालिविलोकितास्याद्
रामात् परं किमपि तत्त्वमहं न जाने॥४

सुन्दरकाण्डः

रत्नाङ्गुलीयवरदात् प्रहितेष्टदूतात्
सिन्धोर्विलङ्घनरतानिलसूनुचिन्त्यात्।
चूडामणिच्छविविलीनमनश्चकोराद्
रामात् परं किमपि तत्त्वमहं न जाने॥५

युद्धकाण्डः

पाथोधिसेतुगतसैन्यपरीतयानाद्
रक्षोमृगार्दनपराटविकाग्रगण्यात्।
युद्धे दशाननशिरोऽर्चितदिक्प्रधानाद्
रामात् परं किमपि तत्त्वमहं न जाने॥६

उत्तरकाण्डः

राजाधिराजमहिताज्जनपूज्यमानाद्
धर्मानुशासनपरिष्कृतमर्त्यलोकात्।
भूनन्दिनीसहचरादनिकेतनाथाद्
रामात् परं किमपि तत्त्वमहं न जाने॥७

*पूर्वपदात् संज्ञायामगः (पा॰सू॰ ८.४.३) इत्यनेन संज्ञायां णत्वं भवति। काव्यस्य नामत्वादत्र णत्वं च।

Kushagra Aniket
Economist and Management Consultant
Columbia University'21
Cornell University'15
New York, NY, U.S.A.

Reply all
Reply to author
Forward
0 new messages