समस्यायाः तात्पर्यन्त्विदमस्ति,यत् वेदान्ते प्रसिद्धः श्लोकः भवति -
श्लोकार्थेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः।
ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः।। इति।
भो भो श्रीजितमहोदय,
भवता केवलं वेदान्ते प्रसिद्धोऽयं श्लोक इत्युच्यते, किं तु नोच्यते कुत्रायं श्लोकः प्रसिद्ध इति। यथा द्वाभ्यामाचार्याभ्यां ग्रन्थनिर्देशपुरःसरं निर्दिष्टं वेदान्तडिण्डिम-नामके ग्रन्थेऽयं प्रसिद्धः श्लोकार्ध इति ----
-Pub.in Vedaantasandarbha by Mahesh Anusandhana Sansthanam,Varanasi,Mt Abu
Published in 1990 , by Sri Sitarama adisamkara trust , 24/141 , Anandabagh , Malkajgiri , Hyderabad - 500 047 , Rs 40/
The Publishers claim that the commentaries on all the six Prakaranagranthas were there in the adhyatmikamasapatrika , viz. samkarakripa of Sringeripithadhipati .
(Prof.Subrahmanyam Korada)
भवता इदानीमुच्यते,
अपि च अत्रैव कृतौ
इति वेदान्तडिण्डम इति श्लोकान्ते दृश्यते,किन्तुवेदान्तडिण्डिम इति पृथक् काचित् कृतिः नास्तीति ज्ञायते च।
इति। प्रमाणं तु नोपन्यस्यते, भवता कुत्रापि यदा तत्रभवद्भ्यां द्वाभ्यां सप्रमाणमुक्तम्, न केवलं कपोलकल्पितम्।
केवलं वेदान्ते प्रसिद्धः श्लोकार्धस्तु -
ब्रह्मसत्यं जगन्मिथ्या जीवोब्रह्मैव नापरः।
इति। तस्य भवता उपन्यस्तपूर्वार्धेन पाठः कुत्र प्रसिद्धः, कुत्र दृष्ट इति भवतैव निरूपणीयम्।
ब्रह्मज्ञानावल्ल्यामपि भिन्नश्लोकर्धेनेते श्लोकाः पठिताः, ये तु सच्चिदानन्दसरस्वतीभिः प्रक्षिप्तत्वेन निरूपिताः, न तद्ग्रन्थभागत्वेन स्वीकृताः इति जगन्नाथमहोदयेन स्वप्रतिक्रियायां निरूपितम् -
Part of San.karAcAryara granthagal.u, prakaran.agal.u samput.a- 4.(Adhyatma prakasha karyalaya, Holenarasipura 1961)Pp 16-19.
इदानीं मयाप्येतदुच्यते, वेदान्तडिण्डिम इति प्रकरणग्रन्थः, शङ्करग्रन्थावलीप्रकाशनयोः, पूना-श्रीरङ्ग-प्रदेशाभ्यां प्रकाशितयोर्नान्तर्गतः अयं प्रकरणग्रन्थः इति।
The Works of Sri Shankaracharya, Sri VaniVilas Edition, Vol.15 and 16 (Minor Works in two Parts)
अत्र द्वितीये भाते, पृ.२२१-२२६ पर्यन्ते भागे, श्लोकसंख्याः १८-२० वेदान्तडिण्डिमः इत्यन्ताः दृश्यन्ते ब्रह्मज्ञानावलीमालायाम्।
Poona Oriental Series No.8 .Ed. H R Bhagavat, श्रीशङ्कराचार्यविरचिताः प्रकरणग्रन्थाः नैव वेदान्तडिण्डिम-ग्रन्थमन्तर्भावयन्ति, यत्र ५. ब्रह्मज्ञानावली-मालायाम्, पृ.३०-३१ श्लोकाः १७-२० वेदान्तडिण्डिमः इत्यन्ता दृश्यन्ते.
भवता कुत्र अनेन पूर्वापरीभावेनार्धयोः क्रमेण दृष्टः प्रसिद्धः कुत्राप्युद्धृतो वा कस्मिन् ग्रन्थे इति प्रथमं निरूप्यताम्।