{भारतीयविद्वत्परिषत्} Science Of The Horses (Contd)

1 view
Skip to first unread message

I V Nacharya I

unread,
May 3, 2010, 5:41:38 AM5/3/10
to bvpar...@googlegroups.com

Dear Scholar Friends,

praNamyA."Eka ssvaadu na bhuNjeeta"The Science of the Horses is continued.You can raad and enjoy the the scholarship of our ancient scholars.अश्वान् प्रति प्राचीन भारतीयानां विज्ञानम्। (पूर्वतः अनुवर्तते)

मुखान्तः अरुणाब्ज दळाकारा जिह्वा। ऊर्ध्वं स्थितं तालु। अध स्स्थितं सूनम्।(सूनम्=अन्त र्जिह्वा)दन्तेषु व्यञ्जन दन्ताः द्वादश। दंष्ट्राङ्कुरा श्चत्वारः। हनुजा श्चतुर्विंशति। उत्तरॊष्ठोऽधरॊष्ठ श्चेति द्वावॊष्ठौ। ऒष्ठ संधी सृक्विणी। एवं रीत्या शरीरे सर्वावयवाः नामभिः कथिता स्सन्ति।

अश्वाना मष्टौ लक्षणानि द्रष्टव्यानि। शरीरम्।वर्णः। गंधः। स्वरः। सत्त्वम्। छाया। गतिः। आवर्त श्चेति।

तत्र शरीर लक्षणं यथा:-ऒष्टौ मृदु त्वचौ,आताम्रौ च शुभौ। जिह्वा रक्ता तन्वी च। तालु रक्तम्। दन्ता स्स्निग्धा स्सुबद्धा स्समा श्च। हनू नाति दीर्घौ नाति पृधू। नेत्रे तु सुबद्धे सुस्निग्धे, मृदु पक्ष्मणी विशाले,

मधुपिङ्गे प्रसन्ने च, कपिञ्जल,कुरङ्ग,गज,क्रौञ्च,टिट्टिभॊष्ट्र मयूर नेत्र सदृशे। ललाटं स्वावर्तं विशालम्।

शिर स्समवृत्त मावर्त द्वय युक्तम्। कर्णौ ह्रस्वौ। तीक्ष्णा तनू, ग्रीवा सुदृढा,कुञ्चिता,दीर्घा च। एवं सर्वेषां लक्षणा न्युक्तानि। सामुद्रिक शास्त्र रीत्या द्रष्टव्यानि।

अथ उत्तम,मध्यम,अधमा श्वानां क्रमेण प्रमाणा न्यप्युक्तानि। मुखस्य अंगुळानि द्वात्रिंशत्, त्रिंशत्,अष्टाविंशति श्च। ग्रीवायाः षट्पञ्चाशत्,षट्चत्वारिंशत्, षट्त्रिंश च्च। उरः,पृष्ठं,कटिश्च मुख तुल्यानि ज्ञेयानि। खुरस्य सप्त,

षट्,पञ्च। एवं रीत्या सर्वेषां प्रमाणान्युक्तानि।

वर्ण लक्षणानि यथा:-श्वेतः,कृष्णः,अरुणः पीतः इति चत्वार श्शुद्धवर्णाः। मिश्रा स्तु बहुविधाः। केश,वाल,रॊम

चर्म,खुरा यस्य श्वेता स्स शङ्ख वर्णः ब्राह्मण जाति रित्युच्यते। एवं गुण,कर्म,विभागशः अश्वेष्वपि चातुर्वर्ण्य मस्ति।

अश्वाना मायुःप्रमाण परिज्ञानं यथा:-मनुष्याणां यथा करतले रेखाभि रायु र्ज्ञायते तथा अश्वानां प्रोथ (नासा

पुट द्वयं,कटिः,गर्भः) रेखाभि र्ज्ञायते। प्रॊथ मध्ये यस्य एका ऊर्ध्वरेखा भवति तस्य प्रथम वर्षे मृतिः।एवं

रीत्या लिखित मस्ति।अश्वानां स्रुक्,स्वस्तिक,वर्धमान,नन्द्यावर्त,श्रीवृक्षाकार रेखा श्चेत् त्रिंशद्वर्षायुः।चक्र,वज्राकृति श्चेत् एकत्रिंशद्वर्ष,मर्ध चंद्राकारा,सुर्याकारा वा चेत् द्वात्रिंशद्वर्ष मायुः।

अश्वानां वयःपरिमाणज्ञानं यथा:- शुक्लै षड्भि र्दन्तै रेक वर्ष श्शिशुः। ते कषाया श्चेत् द्विवर्षः,संदंशै स्त्रिवर्षः,मध्य दन्तै श्चतु र्वर्षः,अन्तदन्तैः पञ्चवर्षः,षष्ठ वर्ष प्रभृतिषु नवसु वर्ष त्रिकेषु संदंशादिषु नव व्यञ्जनानि क्रमेण जायन्ते। तानि च कालिका,हरिणिका,शुक्लः,काचः,माक्षिकः,शंङ्खः,उलूखलं, चलनं,पतनं चेति।अश्वानां द्वात्रिंश द्वर्ष पर्यन्तं वयःपरिमाणम्।(लघु शब्दार्थ सर्वस्वम्) अनुवर्तते च अग्रे।) Regards,

I.V.Nacharya.ivi...@yahoo.co.in


--
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
Reply all
Reply to author
Forward
0 new messages