More or less it is accurate. You may use the terminology used by Prof. Rama Natha Sharma in Chapter 6 (Types of Rules) of the first volume of his brilliant work The Aṣṭādhyāyī of Pāṇini (ISBN 81-215-0051-6, Volume I, 2002, Second Edition, pages 89 to 120):
संज्ञा – technical rules: rules which assign a particular term to a given entity
परिभाषा – interpretive rules: rules which regulate proper interpretation of a given rule or its application
विधि – operation rules: rules which state a given operation to be performed on a given input
नियम – restriction rules: rules which restrict the scope of a given rule
अतिदेश – extension rules: rules which expand the scope of a given rule, usually by allowing the transfer of certain properties which were otherwise not available
अधिकार – heading rules: rules which introduce a domain of rules sharing a common topic, operation, input, physical arrangement
प्रतिषेध – negation rules: rules which counter an otherwise positive provision of a given rule
विभाषा – optional rules: rules which render the provision of a given rule optional
निपातन – ad hoc rules: rules which provide forms to be treated as derived even though derivational details are missing.
And while we are at it, here are Sanskrit definitions of the same terms by my Guru (From प्रस्तावना of अध्यात्मरामायणेऽपाणिनीयप्रयोगाणां विमर्शः) –
(१) सञ्ज्ञासूत्रत्वं नाम साक्षाच्छक्तिग्राहकत्वे सति पाणिन्युच्चरितत्वम्।
(२) परिभाषासूत्रत्वं नामानियमे नियमकारित्वम्।
(३) विधिसूत्रं नाम मुख्यलक्ष्यसंस्कारकमर्थाल्लक्ष्यसंस्कारे मुख्यतया सहायकतावच्छेदकम्।
(४) नियमो विधौ संशोधनरूपः।
(५) अतिदेशत्वं नाम वतिघटितत्वम्। अर्थाद्वतिघटितत्वे सति समारोपितधर्मप्रतिपादकतावच्छेदकतावत्त्वम्।
(६) अधिकारत्वं नाम स्वदेशे वाक्यार्थजनकताशून्यत्वे सति परदेशे बोधकत्वमुत्तरोत्तरसम्बन्धत्वं वा।
And this is the detailed explanation from where the above definitions are –
इमानि सूत्राणि षड्विधानि। सञ्ज्ञासूत्रं परिभाषासूत्रं विधिसूत्रं नियमसूत्रमतिदेशसूत्रमधिकारसूत्रञ्च। सञ्ज्ञासूत्रत्वं नाम साक्षाच्छक्तिग्राहकत्वे सति पाणिन्युच्चरितत्वम्। यथा वृद्धिरादैच् (पा.सू. १-१-१) अदेङ्गुणः (पा.सू. १-१-२) इत्यादि। अत्रादैचि वृद्धिरूपा साक्षाच्छक्तिर्ग्राहिता। आदैज्वृद्धिनिष्ठशक्तिमान् भवत्विति। परिभाषासूत्रत्वं नामानियमे नियमकारित्वं यथा सुधी उपास्य इति स्थिते इको यणचि (पा.सू. ६-१-७७) इत्यनेन यणि विधीयमानेऽनियमः। अचि इकः यण् स्यात् इत्येव सूत्रार्थः। अत्र षष्ठ्याः कोऽर्थः कोऽनुयोगी कः प्रतियोगी यतो हीक्शब्दस्य व्यवहारजडस्य केन सम्बन्ध इत्यनियमे षष्ठी स्थानेयोगा (पा.सू. १-१-४९) इति परिभाषासूत्रमागतम्। स्थानेयोगा इत्यत्र स्थानेन प्रसङ्गेन योगो यस्याः सा। एकार आर्षः। अथवा कण्ठेकाल इतिवत्स्थाने योगो यस्याः सेति सप्तम्या अलुक्। अनिर्धारितसम्बन्धविशेषा षष्ठी स्थानानुयोगिकसम्बन्धार्थवती भवेदिति तात्पर्यम्। सम्बन्धश्च विषयविषयि भावः। इत्थं स्थाने इति पदेन इकः स्थाने यण् इत्यर्थः। अचि पुनरनियमः। अचि इत्यत्र सप्तमी। सा च सप्तम्यधिकरणे च (पा.सू. २-३-३६) इति सूत्रेणाधिकरणे। अधिकरणं नाम आधारोऽधिकरणम् (पा.सू. १-४-४५) इति सूत्रेणाधारनामकम्। आधारश्च यथाऽभिव्यापक औपश्लेषिको वैषयिकश्च। यत्र सम्पूर्णमाधेयमाधारो व्याप्नोति तत्रैवाभिव्यापकः। यथा दध्नि घृतम्। सर्वस्मिन् आत्मा। वैषयिको यदाऽऽधार आधेयं विषयतया गृह्णाति। यथा मोक्ष इच्छा। रामे प्रेम। गुरौ श्रद्धा। चरित्रे निष्ठा। सिद्धान्ते दृढता। भक्तौ हठः। संसारे नीरसतेत्यादि। औपश्लेषिको यदाऽऽधार आधेयमुपश्लिष्यति तेन सह सम्बद्धो भवति। उपश्लेषश्च संयोगेन समवायेन सामीप्येन। संयोगे यथा कटे शेते गुरौ वसतीत्यादि। अतः अचि इत्यत्रौपश्लेषिकी। सा च संयोगात्मिका। इत्थम् अजुपश्लिष्टस्येकः स्थाने यण् स्यात् इत्यर्थः। पुनरनियमः सम्बन्धस्तु संयोगात्मकः पूर्वेण परेण च भवति तदा कुत्र यण् यथा सुधी उपास्य इत्यत्र सुघटक उकार इत्यच्पुनर्धीघटक ईकारोऽच्पुनर्धीघटक ईकार इगुपास्यघटक उकारोऽच्पुनरुपास्यघटक उकार इक् पाकारघटक आकारोऽजित्थं व्यवहितेऽव्यवहिते पूर्वत्र परत्र च यणि प्रसक्ते नियमः कृतः परिभाषया। अच्यव्यवहित उच्चरिते पूर्वस्याव्यवहितस्यैव। यथा सूत्रं तस्मिन्निति निर्दिष्टे पूर्वस्य (पा.सू. १-१-६६)। अस्यार्थः सप्तमीनिर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहितस्य पूर्वस्य बोध्यम्। पुनरनियमश्चतुर्षु यण्सु को भवेत्तदा परिभाषासूत्रं न्ययमयत्। स्थानेऽन्तरतमः (पा.सू. १-१-५०)। स्थानञ्च प्रसङ्गः। तस्मिन् सत्यन्तरतम आदेशः स्यात्। यद्यप्यान्तरतम्यं साधयितुं शक्यम्। तत्र हि स्थानकृतमान्तर्यं यथा कृष्णैकत्वम्। अत्राकारैकारयोः स्थानिनोः सदृशतमः कण्ठतालुस्थानि ऐ इति। द्वितीयमर्थकृतमान्तर्यम्। क्रोष्टुशब्दोऽर्थद्वये प्रसिद्ध ऋषौ वृके च। तत्र तृज्वत्क्रोष्टुः (पा.सू. ७-१-९५) इत्यत्रार्थकृतान्तर्यानुरोधेन शृगालवाचकक्रोष्टुशब्द एवाऽदेशत्वेन जातः। गुणकृतमान्तर्यं यथा वाग्घरिः इत्यत्र वाग् हरिः इत्यवस्थायां झयो होऽन्यतरस्याम् (पा.सू. ८-४-६२) इत्यनेन हकारस्य पूर्वसवर्णे प्राप्ते पूर्वत्र गकारस्तस्य सन्ति चत्वारः सवर्णाः स्वयं च मिलित्वा पञ्च हकारस्य स्थाने पञ्चसु को भवेत्तदा गुणकृतान्तर्यानुरोधेन नादघोषसंवारमहाप्राणवतः हकारस्य स्थाने पूर्वत्र पञ्चसु तादृङ्नादघोषसंवारमहाप्राणवाञ्चतुर्थो घकारः। प्रमाणकृतमान्तर्यं यथा अदसोऽसेर्दादु दो मः (पा.सू. ८-२-८०)। अत्र क्रमशः ह्रस्वस्य स्थाने ह्रस्व उकारः दीर्घस्य स्थाने दीर्घः अमू इति सिद्धमिदं प्रमाणकृतमान्तर्यम्। एषु दर्शितेषु चतुर्विधेष्वान्तर्येषु सुधी उपास्य इत्यत्र किं स्यादित्यपेक्षायां यत्रानेकविधमान्तर्यं तत्र स्थानत आन्तर्यं बलीयः (वै.सि.कौ. ३९) इति परिभाषया। इतरेषु व्यावर्तितेषु स्थानकृतमान्तरमालम्ब्य चतुर्षु यण्स्विकारसदृशतालुस्थानवान् यकारः। इत्थं परिभाषात्रययोगदानेन इको यणचि (पा.सू. ६-१-७७) इत्यस्य निष्कृष्टोऽर्थः अजुपश्लिष्टपूर्वत्वविशिष्टस्येकः स्थानेऽन्तरतमो यण् स्यात्स च प्रयोक्तव्यः स्यात्स च साधु स्यात्। एवमिग्घटितस्थाने यण्घटितः स्यात्स च प्रयोक्तव्यः स च साधु इति शब्दनित्यत्वपक्षीयोऽर्थः। विधिसूत्रं नाम मुख्यलक्ष्यसंस्कारकमर्थाल्लक्ष्यसंस्कारे मुख्यतया सहायकतावच्छेदकम्। यथा इको यणचि (पा.सू. ६-१-७७) आद्गुणः (पा.सू. ६-१-८७) वृद्धिरेचि (पा.सू. ६-१-८८) अकः सवर्णे दीर्घः (पा.सू. ६-१-१०१) मोऽनुस्वारः (पा.सू. ८-३-२३) इति।
एवमेव नियमो विधौ संशोधनरूपः। यथा कृत्तद्धितसमासाश्च (पा.सू. १-२-४६) धातोस्तन्निमित्तस्यैव (पा.सू. ६-१-८०) इत्यादि। अयं प्रायशो लक्ष्यं नियमयति यथा एचोऽयवायावः (पा.सू. ६-१-७८) इत्यनेन सर्वत्रैच्ययादौ प्राप्ते नियमो जातो धातुघटकैचो यद्यवावादेशस्तर्हि धातुनिमित्तस्यैव। तेन लव्यमित्यत्र लूञ् छेदने (धा.पा. १४८३) इतिधातोः अचो यत् (पा.सू. ३-१-९७) इत्यनेन यति सार्वधातुकार्धधातुकयोः (पा.सू. ७-३-८४) इत्यनेन गुणे धातुनिमित्तकस्यौकारस्यैवावादेश एवमन्यत्रापि। अतिदेशत्वं नाम वतिघटितत्वम्। अर्थाद्वतिघटितत्वे सति समारोपितधर्मप्रतिपादकतावच्छेदकतावत्त्वं यथा स्थानिवदादेशोऽनल्विधौ (पा.सू. १-१-५६) अचः परस्मिन् पूर्वविधौ (पा.सू. १-१-५७) आद्यन्तवदेकस्मिन् (पा.सू. १-१-२१) इत्यादि। इदं स्थान आदेशे स्थानधर्ममारोपयति। अधिकारत्वं नाम स्वदेशे वाक्यार्थजनकताशून्यत्वे सति परदेशे बोधकत्वमुत्तरोत्तरसम्बन्धत्वं वा। यथा संहितायाम् (पा.सू. ६-१-७२, ६-३-११४) धातोः (पा.सू. ३-१-९१) प्रत्ययः (पा.सू. ३-१-१) परश्च (पा.सू. ३-१-२) इत्यादि। सङ्ग्रहश्चामीषां सूत्रप्रकाराणामित्थम् –
सञ्ज्ञा च परिभाषा च विधिर्नियम एव च।
अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम्॥
Namaste
1. The post deliberation below is much more than a < mere / another translation issue> in the ordinary sense. This is a masked discussion on serious techno-linguistic issues.
This debate is a < technical Vocabulary concept mapping > .
It is seeking a free solution on the technology challenge of < Human Language modeling for Computer applications> . i.e .< Vedanga Vyakarana Shaastra bhashaa /paribhashaa pada –vyutpatti –vyaapti> is the core issue.
2. The translations like < संज्ञा – definition; परिभाषा – operative;विधि-executive;नियम – restrictive;अतिदेश- extended;अधिकार – header/domain > come up in programming language modeling debate.
The translation like < संज्ञा – technical rules: rules which assign a particular term to a given entity;परिभाषा – interpretive rules: rules which regulate proper interpretation of a given rule or its application;विधि – operation rules: rules which state a given operation to be performed on a given input;नियम – restriction rules: rules which restrict the scope of a given rule ;अतिदेश – extension rules: rules which expand the scope of a given rule, usually by allowing the transfer of certain properties which were otherwise not available;अधिकार – heading rules: rules which introduce a domain of rules sharing a common topic, operation, input, physical arrangement > come in the human language grammar analytics.
The technical-words can not be mapped just like that. The domains are different.
The human mind processes languages of different nature (Prakrutham /Samskrutham) differently. Within Samskrutham also, the modeling of Chandas and Bhasha are technically handled differently. This is the Panini –paramaparaa as ‘Vedanga Vyakarana’ and ‘Pada-Shaastra’, leading towards ‘ Shabda –Brahma /Sphota>.
Shifting out this frame and pushing the discussions in the undeclared backdrop of machine programming language development is not ‘ accurate’ model of studying the ‘Shaastra’.
4. Put the question differently and pursue the same as ‘ How can Paninian rules be inspirationally used for modeling a Natural language programming’ ? Then the dialogue partners need to be linguists and techno-linguists. The goal has to be the primacy of human language linguist over techno-linguist.
Regards
BVK Sastry
Techno-linguist fits the human language in to available technology arte-fact. Human language –lingusit demands technologist to develop a human language appropriate technology. The modus operandi and goals and outcomes are totally different.
Regards
BVK Sastry
--
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
---
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To post to this group, send email to bvpar...@googlegroups.com.
Visit this group at http://groups.google.com/group/bvparishat.
For more options, visit https://groups.google.com/d/optout.
No virus found in this message.
Checked by AVG - www.avg.com
Version: 2014.0.4354 / Virus Database: 3722/7241 - Release Date: 03/24/14