सङ्कर्षकाण्डः

100 views
Skip to first unread message

subrahmanyam korada

unread,
Apr 11, 2013, 11:30:26 AM4/11/13
to bvpar...@googlegroups.com
नमोविद्वद्भ्यः


1. Samkaracarya and Ramanujacarya quoted सङ्कर्ष(ण)काण्डसूत्रम् in प्रदानाधिकरणम् - सू . प्रदानवदेव तदुक्तम् (3-3-28-43) - 

शां भा - तदुक्तं सङ्कर्षे - नना वा देवतापृथकग्ज्ञानात् इति ।

भाष्यरत्नप्रभा -
 संकर्षो देवताकाण्डम् ।

न्यायनिर्णयः -
 संकृष्यते कर्मकाण्डस्थमेव अवशिष्टं कर्म संक्षिप्य उच्यते इति संकर्षो देवताकाण्डम् , तस्मिन्निति यावत् ।

अप्पय्यदीक्षिताः परिमळे -
  यद्यपि संकर्षकाण्डो न देवताविचारार्थं प्रवर्तितः । किन्तु द्वादशलक्षण्यविचारितनानाविषयन्यायविचारात्मकः तत्परिशिष्टः , तन्त्रप्रसङ्गवत् उपदेशातिदेशसाधारण्येन प्रकीर्णकः प्रवर्तितः । न हि तत्र देवताविचारेण उपक्रम उपसंहारो वास्ति । ...... तथापि संकर्षे देवताविधानरहितेषु उपांशुयाजादिषु देवता अस्ति न वा , प्रयाजादिषु देवतावाचिनः समिद्बर्हिरादिशब्दाः दर्शपूर्णमासाङ्गप्रसिद्धसमिद्बर्हिरादिपराः तदन्यपरा वा ..... इत्यादिदेवताविचारभूयस्त्वात् भूम्ना संकर्षकाण्डस्यैव देवताकाण्डा इत्यपि व्यवहारो’स्तीति तस्य  तेनोपादानम् ।

श्रीभाष्ये --
1. तदुक्तं संकर्षणे - नाना वा देवतापृथक्त्वात् ।

2.तदाह वृत्तिकारः - वृत्तात् कर्माधिगमादनन्तरं ब्रह्मविविदिषेति ।

3.संहितमेतच्छारीरकं जैमिनीयेन षोडशलक्षणेनेति (कर्मब्रह्मशास्त्रयोः ऐकशास्र्यम् - see महावाक्यविचारः for details)

निगमान्तदेशिकाः - शतदूषणी --

देवताकाण्डशेषतया श्रीभाष्यकारैः परिगृहीतम् । ’तदुक्तं संकर्षे’ इति हि सूत्राण्युदाहरन्ति।

वेदान्तसारः - श्रीरामानुजाः --

अधीतवेदस्य हि पुरुषस्य कर्मप्रतिपादनोपक्रमत्वात् वेदानां कर्मविचारः प्रथमं कार्य इति ’अथातो धर्मजिज्ञासा’ इत्युक्तम् । कर्मणां च प्रकृतिविकृतिरूपाणां धर्मार्थकामरूपपुरुषार्थसाधनतानिश्चयः , ’प्रभुत्वादार्त्विज्यम् इत्यन्तेन’ ।

प्रस्थानभेदे मधुसूदनसरस्वती --

तथा सङ्कर्षकाण्डमध्यायचतुष्टयात्मकं जैमिनिप्रणीतम् । तच्च देवताकाण्डसंज्ञया प्रसिद्धमपि उपासनाख्यकर्मप्रतिपादकत्वात् कर्ममीमांसार्गतमेव ।

शबरस्वामी (10-4-32) --

स्विष्टकृद्विकारश्च वनस्पतिरिति संकर्षे वक्ष्यते ।

द्वादशाध्याये --

ननु नैव पशोर्हविष्कृदस्ति औषधार्था अवहननार्था वा यथा पत्नी तुल्यवच्छ्रूयते इति संकर्षे वक्ष्यति ।

So here , Sriramanuja , by quoting the first Sutra of पूर्वमीमांसा and the last Sutra (प्रभुत्वात्...) of Samkarsanakanda , it can be surmised that - according to Ramanuja the षोडशलक्षणी is applicable to कर्म ।

वेदार्थसंग्रहे रामानुजाः --

अश्रुतवेदान्तानां कर्मण्यश्रद्धा मा भूदिति देवताधिकरणे अतिवादाः कृताः, कर्ममात्रे यथा श्रद्धां कुर्यादिति सर्वमेकं शास्त्रमिति वेदवित्सिद्धान्तः।

आगमप्रामाण्ये यामुनाचार्याः -

भगवतो जैमिनेः कर्मणः फलोपन्यासःकर्मश्रद्धासंवर्धनाय ।

Scholars feel that - it is विंशतिलक्षणी मीमांसा - षोडशलक्षणी शबरस्वामिप्रणीता , चतुर्लक्ष्णी बादरायणप्रणीता ।
Even present day Visistadvaitins feel that Kasakrtsna was not at all the author of Sankarsakanda.
प्रस्तावना (p xx) by  समुद्राल वेन्कटरङ्गरामानुजाचार्युलु (Editor) - Samkarsakanda of Jaimini Muni (Sri Venkateswara Vedic Uni , Tirupati, 2009 --

एवंच सङ्कर्षकाण्डकर्तृत्वविषये जैमिनिकर्तृत्वं काशकृत्स्नकर्तृत्वमिति द्विधा अभिप्रायभेदे सति , कृत्स्नस्य देवताकाण्डस्य षोडशाध्यायस्य जैमिनिप्रणीतत्वकथनमेव समुचितं प्रतिभाति । 
श्रीभाष्यकारादिवचनानुसारेण , तत्पूर्वतनशाङ्करवचनानुसारेण , पूर्वतन्त्रभाष्यादिवचनेन च तथैव प्र्तिपन्नत्वात् ।

विशिष्टाद्वैत does not have any special interest in सङ्कर्षणकाण्ड । 

The only thing to note is they have too much of respect for वेदान्तदेशिक / निगमान्तदेशिक ।

I have a copy of सङ्कर्षकाण्ड  with a commenत्ary , भाट्टदीपिका (भाट्टच्न्द्रिका), of  भास्करराय ( S S V Vedic Uni, Tirupati, 2009).

Since Devatakanda is in the middle of  विंशतिशलक्षणी , some may style it - मध्यमकाण्ड also .

There are two available commentaries on Samkarsakanda - by Devaswami and by Bhaskararaya.
The later mostly depends on the former  and follows भाट्टचन्द्रिका of Khandadeva . 

Any more doubts are welcomed

धन्यो’स्मि




--
Prof.Korada Subrahmanyam
Professor of Sanskrit,
CALTS,
University of Hyderabad 500046
Ph:09866110741(R),91-40-23010741,040-23133660(O)




Reply all
Reply to author
Forward
0 new messages