One of the vaiyakarana's comment on rishi rajpopat news item

370 views
Skip to first unread message

Jammalamadaka Srinivas

unread,
Dec 16, 2022, 6:02:39 AM12/16/22
to Nagaraj Paturi, bvpar...@googlegroups.com
Namaste,

Kartik bhagwat is a traditional scholar of vyakarana. Here is his response - 

नमस्ते
लेखकेन विप्रतिषेधे परं कार्यमित्यत्र परशब्दस्य उत्तरवर्ति (right side) इति व्याख्यायते । परं तु तथा स्वीकृते रामेभ्यः इत्येव साधनं कष्टाय । राम + भ्यस् इत्यत्र *बहुवचने झल्येत्, सुपि च * इत्यनयोः सूत्रयोः प्रसक्तिः । अत्र अत्र right side वर्तमानं कार्यं करणीयमिति नासम्भवम् । (विप्रतिषेधसूत्रेण कार्यमेव न भवतीति तदाशयः)
तेन यत् मन्त्रैः इति उदाहरणं (video) प्रदर्शितं तत्र तु निरवकाशत्वात् विभक्त्यादेशस्य प्राबल्यं स्वीक्रियते, अत्र विप्रतिषेधस्य प्रसक्तिरेव नास्ति । यतो हि परस्पराप्राप्तियोग्येऽन्यत्रान्यत्र चरितार्थयोरुभयोश्शास्त्रयोरेकत्र प्राप्तिः विप्रतिषेधः इति । अत एव कर्मण्यण्, आतोनुपसर्गे कः इत्यनयोर्नास्ति विप्रतिषेधः । अणः काप्राप्तियोग्ये चारितार्थ्येऽपि कस्य तथात्वाभावात् । अत एव वापवादता । विरोधस्त्वनयोरस्त्येव नासौ विप्रतिषेधः। तस्मात् न सर्वो विरोधः विप्रतिषेधशास्त्रोपयोगी । अयम् आशयः लेखकेनापि रामेभ्यः इत्यस्य रूपसिद्धौ आदृतः । (page – 72) यः एतस्य मतानुरोधेन अपाणिनीयः स्यात् । यतो हि अनेन विरोधे सति व्यवस्थापकमेकमेव विप्रतिषेधे परं कार्यमित्युच्यते । 
किञ्चात्र बहुधा उदाहरणानि विभक्तेः अङ्गस्य च कार्यसम्बन्धीनि । तत्रापि उदाहरणानि नपुंसकलिङ्गानि यत्र विभक्तेः लुग्भवति (लुकः प्राबल्यादेव इष्टसिद्धिः) । तत्र च सर्वत्रापि विप्रतिषेधः नासम्भवि । यत्रास्ति तत्र परशब्दस्य भाष्यकारोक्तदिशा इष्टवाचकत्वेन कार्यसिद्धिः । अतः एव विभक्तेः कार्यं सर्वापेक्षया प्रबलम् ।
वारिणे इति रूपसिद्धौ वारि ङे इत्यत्र इकोचि विभक्तौ, घेर्ङिति इति सूत्रद्वयं प्राप्नोति । तत्र परः गुणः तस्मिन् सति रूपासिद्धिः । अतः पूर्वविप्रतिषेधः आदृतः वास्तविकतया । लेखकः अत्र परशब्दस्य right hand side इत्यर्थमादाय आदौ नुमं साधयति । परन्तु अत्र ङे प्रत्ययस्य कार्यं न वर्तते । सूत्राभ्यां वारीति अङ्गस्यैव कार्यं विशीयत इति इदं right hand side कार्यमेव नास्ति । (page no 59)
त्रि आम् इत्यत्र ह्रस्वनद्यापो नुट्, त्रेस्त्रयः इति सूत्रद्वयं प्राप्नोति । तत्र परः नुट् । यथाश्रुतार्थे स्वीकृते त्रयाणामिति रूपं न भवतीति, अस्य विषये समाधानं केनापि एतावता साम्प्रदायिकेन नोक्तम्, अतः पाणिनिकालात् पूर्वं त्रीणामित्येव रूपमासीत् । निजां त्रयाणां गुणः श्लौ इति पाणिनिप्रयोगस्य साधनाय अन्येन केनचित् त्रेस्त्रयः इति सूत्रम् अष्टाध्याय्यां योजितम् । अथवा पाणिनिना त्रीणामित्येवोक्तं परन्तु केनचित् तस्य त्रयणामिति विपरिणामः कृतः इति लेखकः (page – 83-84) । परन्तु अत्र विशेषविहितत्वेनापि आदौ त्रयादेशः शक्यः कर्तुम् । अथवा आदौ नुटि कृते यदागमपरिभाषया त्रयादेशः सिध्यत्येव । 
किञ्च लेखकेन मया नूतनः मार्गोन्विष्टः, वार्तिककारादिभिः सूत्रस्य सुष्ठु व्याख्यानं न विहितमित्यप्युक्तम् । तत्सर्वं नीरसम् । शब्दपरविप्रतिषेध इति पक्षः तु अचः परस्मिन् पूर्वविधौ सूत्रे भाष्ये एव अस्ति । पट्व्या मृद्व्या इत्यत्र पटु ई आ इति स्थिते कुत्र आदौ यणादेशः इति संशयमुद्भाव्य चर्चा विहिता । अतः शब्दपरविप्रतिषेधः इत्यंशोपि न नूतनः ।  वार्तिककारेण परशब्दस्य व्यवस्थावाचकत्वमादाय दोषपरिमार्जनाय पूर्वविप्रतिषेधवार्तिकानि आरब्धानि । तानि लक्ष्याणि भाष्यकारः परशब्दस्य इष्टवाचकत्वमादाय साधितवान् । अत्र बहुधा लेखकेन तादृशान्येवोदाहरणानि स्वीकृतानि यत्र पूर्वविप्रतिषेधोस्ति । सूत्रस्यास्य सम्पूर्णाष्टाध्यायीमभिव्याप्य प्रवृत्तिः इति लेखकप्रतिज्ञा (page 31)। तथा सति तु बहूपप्लवः ।  
सिद्धस्यैव अंशस्य भाषान्तरेण वक्तुं तेन प्रयासः कृतः । क्वचिदन्यथापि । तत्रापि बहवो दोषाः वर्तन्त इति मम भाति ।
-कार्तिकभागवत्।

Nagaraj Paturi

unread,
Dec 16, 2022, 6:25:09 AM12/16/22
to bvpar...@googlegroups.com
Thanks for sharing this Dr Jammalamadaka Srinivas garu. 

We have a long and strong such tradition of rigorous critical review of positions taken by scholars of shaastras. 


--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/bvparishat/CAOCH_queENdjAhaX%2Bvvv2oaBrushG9ktvWSOyf9bZyWjw8swjw%40mail.gmail.com.


--
Nagaraj Paturi
 
Hyderabad, Telangana, INDIA.


Senior Director, IndicA
BoS, MIT School of Vedic Sciences, Pune, Maharashtra
BoS Kavikulaguru Kalidasa Sanskrit University, Ramtek, Maharashtra
BoS Veda Vijnana Gurukula, Bengaluru.
Member, Advisory Council, Veda Vijnana Shodha Samsthanam, Bengaluru
BoS Rashtram School of Public Leadership
Editor-in-Chief, International Journal of Studies in Public Leadership
Former Senior Professor of Cultural Studies, 
FLAME School of Communication and FLAME School of  Liberal Education, 
Hyderabad, Telangana, INDIA.
 
 
 

S. Kalyanaraman

unread,
Dec 16, 2022, 11:34:48 AM12/16/22
to bvpar...@googlegroups.com
The link to the PhD thesis of Dr. Rishi Rajopat full text (250 pages)
Citation
Rajpopat, R. (2021). In Pāṇini We Trust: Discovering the Algorithm for Rule Conflict Resolution in the Aṣṭādhyāyī (Doctoral thesis). https://doi.org/10.17863/CAM.80099

Congrats to Dr. Rishi Rajopat for the splendid achievement.



Ramesh Rao

unread,
Dec 16, 2022, 2:37:44 PM12/16/22
to bvpar...@googlegroups.com
Prof. Paturi,

Is it possible to offer an English translation of Prof. Jammalamadaka Srinivas garu's response in Sanskrit?

I tried Google translate and it messes up majorly -- though I could begin to get a bit of the thrust of Prof. Srinivas garu's response.

With regards,

Ramesh Rao

Nagaraj Paturi

unread,
Dec 16, 2022, 10:50:35 PM12/16/22
to bvpar...@googlegroups.com
It is not a response from Dr Jammalamadaka Srinivas garu. Dr Jammalamadaka shared a response given by Dr Karthik Bhagavat.

Now, that response is getting wide circulation. 

Dr Sivasenani Nori too shared response from the same Kartik Bhagavat mahodaya. 

Yes, there is a heavy demand on social media too for an English translation of the same. 

I would request Dr Jammalamadaka to help with an English translation or I myself will attempt one. 

sivakumari katuri

unread,
Dec 17, 2022, 3:41:16 AM12/17/22
to भारतीयविद्वत्परिषत्
नमस्सर्वेभ्यः, 
विप्रतिषेधे परं कार्यम् इति सूत्रं केवलं प्रक्रियायामेव न, अपि तु कारके, समासे, सूत्रार्थनिर्णये च उपयपज्यते।
कारकम् - स्पृहेरूप्सितः इति सूत्रे ईप्सिततमत्वे स्पृहेरीप्सितः इति प्राप्तां सम्प्रदानसंज्ञां बाधित्वा परत्वात् कर्मसंज्ञा भवतीति वदति, तेन पुष्पाणि स्पृहयतीति प्रयोगोपि सिध्यति। अस्य मते तत्र का व्यवस्था स्यात्।
समासः - श्रेणीकृतम्। श्रेण्यादयः कृतादिभिः इति तत्पुरुषः विकल्पेन, च्व्यन्तस्य तु गतित्वात् अनेन विकल्पेन समासः प्राप्तः कुगतिप्रादयः इति नित्यसमासः प्राप्तः, परत्वात् नित्यसमासः इति साधन्ति। तत्र का व्यवस्था स्यात्।
सूत्रार्थनिर्णयः - डः सि धुट् इति सूत्रे सप्तमीनिर्देशः वर्तते, पञ्चमीनिर्देशोपि तत्र तस्मादित्युत्तरस्य इति सूत्रस्य परत्वात् पञ्चमीनिर्देशः बलवान् इति वदन्ति। तत्र कथं सूत्रार्थं निर्णयेदयमिति संशयः।
प्रक्रियायाम् - वारि ङे, अत्र नुमागमस्य स्थानी इकारः, गुणस्यापि स्थानी  इकारः एव कथं तर्हि परत्वं निर्णेति अस्पष्टम्। 
धन्यास्मि।
Reply all
Reply to author
Forward
0 new messages