Namaste,
Kartik bhagwat is a traditional scholar of vyakarana. Here is his response -
नमस्ते
लेखकेन विप्रतिषेधे परं कार्यमित्यत्र परशब्दस्य उत्तरवर्ति (right side) इति व्याख्यायते । परं तु तथा स्वीकृते रामेभ्यः इत्येव साधनं कष्टाय । राम + भ्यस् इत्यत्र *बहुवचने झल्येत्, सुपि च * इत्यनयोः सूत्रयोः प्रसक्तिः । अत्र अत्र right side वर्तमानं कार्यं करणीयमिति नासम्भवम् । (विप्रतिषेधसूत्रेण कार्यमेव न भवतीति तदाशयः)
तेन यत् मन्त्रैः इति उदाहरणं (video) प्रदर्शितं तत्र तु निरवकाशत्वात् विभक्त्यादेशस्य प्राबल्यं स्वीक्रियते, अत्र विप्रतिषेधस्य प्रसक्तिरेव नास्ति । यतो हि परस्पराप्राप्तियोग्येऽन्यत्रान्यत्र चरितार्थयोरुभयोश्शास्त्रयोरेकत्र प्राप्तिः विप्रतिषेधः इति । अत एव कर्मण्यण्, आतोनुपसर्गे कः इत्यनयोर्नास्ति विप्रतिषेधः । अणः काप्राप्तियोग्ये चारितार्थ्येऽपि कस्य तथात्वाभावात् । अत एव वापवादता । विरोधस्त्वनयोरस्त्येव नासौ विप्रतिषेधः। तस्मात् न सर्वो विरोधः विप्रतिषेधशास्त्रोपयोगी । अयम् आशयः लेखकेनापि रामेभ्यः इत्यस्य रूपसिद्धौ आदृतः । (page – 72) यः एतस्य मतानुरोधेन अपाणिनीयः स्यात् । यतो हि अनेन विरोधे सति व्यवस्थापकमेकमेव विप्रतिषेधे परं कार्यमित्युच्यते ।
किञ्चात्र बहुधा उदाहरणानि विभक्तेः अङ्गस्य च कार्यसम्बन्धीनि । तत्रापि उदाहरणानि नपुंसकलिङ्गानि यत्र विभक्तेः लुग्भवति (लुकः प्राबल्यादेव इष्टसिद्धिः) । तत्र च सर्वत्रापि विप्रतिषेधः नासम्भवि । यत्रास्ति तत्र परशब्दस्य भाष्यकारोक्तदिशा इष्टवाचकत्वेन कार्यसिद्धिः । अतः एव विभक्तेः कार्यं सर्वापेक्षया प्रबलम् ।
वारिणे इति रूपसिद्धौ वारि ङे इत्यत्र इकोचि विभक्तौ, घेर्ङिति इति सूत्रद्वयं प्राप्नोति । तत्र परः गुणः तस्मिन् सति रूपासिद्धिः । अतः पूर्वविप्रतिषेधः आदृतः वास्तविकतया । लेखकः अत्र परशब्दस्य right hand side इत्यर्थमादाय आदौ नुमं साधयति । परन्तु अत्र ङे प्रत्ययस्य कार्यं न वर्तते । सूत्राभ्यां वारीति अङ्गस्यैव कार्यं विशीयत इति इदं right hand side कार्यमेव नास्ति । (page no 59)
त्रि आम् इत्यत्र ह्रस्वनद्यापो नुट्, त्रेस्त्रयः इति सूत्रद्वयं प्राप्नोति । तत्र परः नुट् । यथाश्रुतार्थे स्वीकृते त्रयाणामिति रूपं न भवतीति, अस्य विषये समाधानं केनापि एतावता साम्प्रदायिकेन नोक्तम्, अतः पाणिनिकालात् पूर्वं त्रीणामित्येव रूपमासीत् । निजां त्रयाणां गुणः श्लौ इति पाणिनिप्रयोगस्य साधनाय अन्येन केनचित् त्रेस्त्रयः इति सूत्रम् अष्टाध्याय्यां योजितम् । अथवा पाणिनिना त्रीणामित्येवोक्तं परन्तु केनचित् तस्य त्रयणामिति विपरिणामः कृतः इति लेखकः (page – 83-84) । परन्तु अत्र विशेषविहितत्वेनापि आदौ त्रयादेशः शक्यः कर्तुम् । अथवा आदौ नुटि कृते यदागमपरिभाषया त्रयादेशः सिध्यत्येव ।
किञ्च लेखकेन मया नूतनः मार्गोन्विष्टः, वार्तिककारादिभिः सूत्रस्य सुष्ठु व्याख्यानं न विहितमित्यप्युक्तम् । तत्सर्वं नीरसम् । शब्दपरविप्रतिषेध इति पक्षः तु अचः परस्मिन् पूर्वविधौ सूत्रे भाष्ये एव अस्ति । पट्व्या मृद्व्या इत्यत्र पटु ई आ इति स्थिते कुत्र आदौ यणादेशः इति संशयमुद्भाव्य चर्चा विहिता । अतः शब्दपरविप्रतिषेधः इत्यंशोपि न नूतनः । वार्तिककारेण परशब्दस्य व्यवस्थावाचकत्वमादाय दोषपरिमार्जनाय पूर्वविप्रतिषेधवार्तिकानि आरब्धानि । तानि लक्ष्याणि भाष्यकारः परशब्दस्य इष्टवाचकत्वमादाय साधितवान् । अत्र बहुधा लेखकेन तादृशान्येवोदाहरणानि स्वीकृतानि यत्र पूर्वविप्रतिषेधोस्ति । सूत्रस्यास्य सम्पूर्णाष्टाध्यायीमभिव्याप्य प्रवृत्तिः इति लेखकप्रतिज्ञा (page 31)। तथा सति तु बहूपप्लवः ।
सिद्धस्यैव अंशस्य भाषान्तरेण वक्तुं तेन प्रयासः कृतः । क्वचिदन्यथापि । तत्रापि बहवो दोषाः वर्तन्त इति मम भाति ।
-कार्तिकभागवत्।