धनगणं लब्धा॥ ४।४।८४. काशिका-वृत्तिः. धनगणं लब्धा ४।४।८४. तदित्येव। धनगणशब्दाभ्यां द्वितीयासमर्थाभ्याम् लब्धा इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। "धन्यः। गण्यः" इति पाणिनिः।
सुकृती पुण्यवान् धन्यः महेच्छस्तु महाशयः ( ३. १. ७)
"धन्या धात्र्यामलक्योः स्यात् धन्यं पुण्यवति त्रिषु" इति मेदिनी।
धन्यः [अस्मि] इति वादः - धन्यवादः - इति व्युत्पत्तिः। उद्यते इति वादः, धन्य इति वादः धन्यवादः इति मयूरव्यंसकादिः समासः। मध्यमपदलोपी वा शाकपार्थिवादिः।
--
Dr. Hari Narayana Bhat B.R. M.A., Ph.D.,
Research Scholar,
Ecole française d'Extrême-OrientCentre de Pondichéry
16 & 19, Rue Dumas
Pondichéry - 605 001