Jihvamuliya & Upadhmaniya

287 views
Skip to first unread message

narayanan er

unread,
Nov 22, 2010, 2:42:46 AM11/22/10
to bvpar...@googlegroups.com
Respected Scholars,
I am eager to know where from the naming जिह्वामूलीयः and उपध्मानीयः etc. come. In अष्टाध्यायी we see an indication that जिह्वामूलाङ्गुलेश्छः ४.३.६२,
कुप्वोः पौ च ८..३७, अतकृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य ८..४६, etc. We see पाणिनीयशिक्षा also: अनुस्वारो विसर्गश्च पौ चापि पराश्रितौ।(५) (Ref: The Ashtadhyayi Sutrapatha Edited by C. Sankararama Sastri, Reprint, Sharada Publishing House, Delhi, 1994).
Apart from अनुस्वारो विसर्गश्च पौ चापि पराश्रितौ।(५),  पाणिनीयशिक्षा (१४) speaks that जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः।
Is there any discussion on जिह्वामूलीयः and उपध्मानीयः by in the case of कवर्ग and पवर्ग apart from कुप्वोः पौ च ८..३७? How do we know the symbols (प, etc.) are to be treated as जिह्वामूलीयः and उपध्मानीयः?
I am sorry, if I ask an irrelevant doubt.
Narayanan



iragavarapu narasimhacharya

unread,
Nov 23, 2010, 7:18:13 PM11/23/10
to bvpar...@googlegroups.com
प्रिय विद्वत्सुहृदः,
प्रणम्य।विसर्गस्य गतिरष्टविधेत्युक्तं खलु।विसर्ग एव जिह्वामूलीयत्वेन
उपध्मानीयत्वेन च परिणमते।अत्र
विसर्गो नाम अर्धविसर्गः। विसर्गस्य अर्धभाग एव। विसर्गस्य अपरं नाम
ऊष्मा।ऊष्मा एव जिह्वामूलीयत्वेन उपध्मानीयत्वेन च परिणमतेत्युक्तं
श्लोके। श्लोकस्त्वेवम्।"ओभावश्च विवृतिश्च शषसा रेफ
एव च। जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः॥" "आध्मात"इत्यस्य शब्दितः
पवनः इत्यर्थद्वयमस्ति।
उपध्मानीयो नाम समीपे वायुरूपेण शब्दितो भवति। जिह्वामूलं नाम जिह्वायाः
प्रथमो भागः। जिह्वामूलेपि
अर्धविसर्गः वायुरूपेण शब्दितो भवति।" अष्टौ स्थानानि वर्णानामुरः(अत्र
अर्धविसर्गोट्टङ्कनं न जाने)कण्ठः
शिरस्तथा। जिह्वामूलं च दन्ताश्च नासिकौष्ठौ च तालु च॥"इत्येष श्लोकोपि
स्मर्तव्यो भवति। विसर्गस्य(ऊष्मणः) जिह्वामूलीयत्वेन परिणामस्योदाहरणं
तु, कः+करोति=क(अर्धविसर्गः)करोति। तथा उपध्मानीयस्य
च।"कः+पचति"=क(अर्धविसर्गः)पचति"इत्युदाहरणं भवति।
अर्धविसर्गस्योट्टङ्कनं कथं भॊः? कृपया बोधयन्तु।
नारायणन् महोदयस्य वाक्यानि यथामति समाहितानीति मन्ये। सम्यक्समाहितं वा
न वेत्यत्र विद्वत्सुहृद एव प्रमाणम्।
अभिवाद्य,
ऐवियनाचार्यः।

2010/11/22 narayanan er <drerna...@yahoo.com>:

> --
> अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।
> ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।।
> तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।
> निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
>

S P Narang

unread,
Nov 23, 2010, 8:05:23 PM11/23/10
to bvpar...@googlegroups.com
It is not a question of ardhavisarga but a matter of pronunciation which is
changed before kavarga and pavarga only. For Kavarga, it is equivalent to Q in
English and Kwaf in Persian and Urdu which are mixed with K and difficult to be
known even by experts. Similar is Pavarga. Perhaps, once they were spoken
similar. That is why Pippilikaa in Sanskrit changes to Kippilikaa in Prakrit. Go
in English and Po in Tamil have some connections. for details: : Wackernagel:
Altindische Grammatik. Vol. I. To a number of Sanskrit grammarians, it was only
a form written before k and p. Regards, spnarang

iragavarapu narasimhacharya

unread,
Nov 24, 2010, 1:06:19 AM11/24/10
to bvpar...@googlegroups.com
महोदयाः,
प्रणम्य।"प्रमाणव्यवहाराभ्यामर्थनिर्णयः"इति संप्रदायमनुसृत्य
जिह्वामूलीयं रूढ्यर्थेन अर्धविसर्गसहितककारं बोधयति। जिह्वामूलस्य
समीपतः उच्चार्यमाणत्वात् अर्धविसर्गसहितरूपं भवति।
श्रान्तस्य पुरुषस्य शुनकस्य वा मुखतः आविर्भूतध्वनिरत्रोदाहर्तुं
शक्यते। भट्टोजीदीक्षितः "अकुहविसर्जनीयानां
कण्ठः"इत्युक्तवान्।"जिह्वामूलेतु कुः प्रोक्तः"इत्यन्यत्र कथनेन
कण्ठपदस्य तत्समीपवर्ति जिह्वामूलमपि परिगण्यतेति भाव्यते।
एवमनेकस्थानकवर्णानि सङ्गृहीतानि स्युरिति
भावयेत्। अर्धविसर्गसहितपकारस्यापि ओष्ठद्वयसमीपत्वेन उपध्मानीयतया
तादृशोच्चारणं भवति। धमन्याः आध्मानेन तस्यां यादृशी ध्वनिः श्रूयते
तादृशी फूत्काररूपा अनुभूयते। उच्चारणं तु अनुभवैकवेद्यम्।
जिह्वामूलीय,उपध्मानीयपदद्वयं सार्धकमेव। उच्चारणविषये एतदतिरिच्य
किमप्यन्यदस्तीति न तर्कयामि। भवदुक्तरीत्या भाषान्तरीय
शब्दार्थविपरिणामरूपसंदर्भोऽत्र नास्तीति मन्ये। As you said how can the
Kavarga be an equivalent to "Q" in English? The "Q" is
pronounced in Sanskrit as "क्यु". The "Quo"in English becomes in
Sanskrit as "को".I do not think the science of semantics has any
context here.

अभिवाद्य,
ऐवियनाचार्यः।

2010/11/24 S P Narang <spna...@yahoo.com>:

Dipak Bhattacharya

unread,
Nov 24, 2010, 1:07:27 AM11/24/10
to bvpar...@googlegroups.com
२४ ११.१०
मान्याः विद्वद्वराः,
साधु निवेदितं नरसिंहाचार्यमहोदयैः यद् वैयाकरणसम्प्रदायमतं सुतरां परिष्कृतवत्। यद्यपि जिह्वामूलीयोपध्मानीयौ पाणिनिपादैर्न लक्षणपुरःसरं निर्दिष्टौ ४.३.६२सूत्रे जिह्वामूलीयशब्दप्रक्रिया निर्दिष्टा। तेन सा संज्ञा तत्काले एव तमेव संज्ञिनमभिदधाति स्मेति प्रतीयते। अस्य उच्चारणमपि उदाहरणसहकारेण प्रदर्शनीयम्। तदेवम्
उपध्मानीयः Greek x, German ch, यथा Bach इति शब्दे शर्मण्यभाषायाम्|
जिह्वामूलीयः English f,
एतौ ’affricate’ घृष्ट इति विशेष्येते। जिह्वामूलीयः कण्ठ्यो घृष्टः, उपध्मानीयः ओष्ठ्यो घृष्टः।
इति दी.भ.

 

--- On Wed, 24/11/10, iragavarapu narasimhacharya <insac...@gmail.com> wrote:

From: iragavarapu narasimhacharya <insac...@gmail.com>
Subject: Re: {भारतीयविद्वत्परिषत्} Jihvamuliya & Upadhmaniya

narayanan er

unread,
Nov 24, 2010, 1:57:25 AM11/24/10
to bvpar...@googlegroups.com
Respected Scholars,
I sincerely express my happiness to all the scholars like Professor Narasimhacharya, Professor Narang and Professor Bhattacharya for their appropriate advice on Jihvamuliya & Upadhmaniya. Thank you very much.
Narayanan



From: Dipak Bhattacharya <dbhattach...@yahoo.com>
To: bvpar...@googlegroups.com
Sent: Wed, 24 November, 2010 11:37:27 AM
Reply all
Reply to author
Forward
0 new messages