नमो विद्वद्भ्यः
This is a peculier problem especially in terms of Research Methodology - a verse or मन्त्र or quotation may have different sourses - this is mostly in Sanskrit literature.
Let us take a brief survey (none of the following is comprehensive - just an example ) --
1. वेदः / उपनिषत् --
नानुध्यायात् बहून् शब्दान् वाचो विग्लापनं हि तत् -- 4-4-21 , बृहदारण्यकोपनिषत् ।
तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ।
नानुध्यायेत् बहून् शब्दान् वाचो विग्लापनं हि तत् ॥ 4-47 , पञ्चदशी ।
पुरुषसूक्तम् -
श्वेताश्वतरोपनिषत् -- 3-14 ; यजुर्वेदः - तैत्तिरीयारण्यकम् - 3 ,चित्तिप्रश्नः । सर्वेषु वेदेषु वर्तते ।
Many मन्त्राः are seen in 2 or 3 वेदाः ।
वेदाङ्गानि / दर्शनानि --
1.लोके ह्यर्थवन्ति चानर्थकानि च वाक्यानि दृश्यन्ते । ... अनर्थकानि -- दश दाडिमानि षडपूपाः ... अर्धोरुकं कुमार्याः ...। 1-1-1 , वृद्धिरादैच् , महाभाष्यम् ।
अपार्थकं यथा -- दश दाडिमानि षडपूपाः ... अधरोरुकमेतत् कुमार्याः ...। 5-2-10, पौर्यापर्यायोगात् अप्रतिबद्धार्थकम् अपार्थकम् , न्यायभाष्यम् ।
लौकिकानि वचनानि उपपन्नार्थानि अनुपपन्नार्थानि च दृश्यन्ते । यथा .... दश दाडिमानि षडपूपा इत्येवमादीनि च । 1-1-5-5 , औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धः तस्य ज्ञानमुपदेशः अव्यतिरेकश्चार्थे’नुपलब्धे अप्रमाणं बादरायणस्यानपेक्षत्वात् , शाबरभाष्यम् ।
(In चित्सुखी the lines are quoted from न्यायभाष्यम्) ।
2. अनादिनिधनं ब्रह्म -- शान्तिपर्व , महाभारतम् -- ब्रह्मकाण्डः , वाक्यपदीयम् ।
3. द्वे ब्रह्मणी वेदितव्ये -- मैत्रायण्युपनिषत् - शन्तिपर्व , महाभारतम् - विष्णुपुराणाम् ।
4. संयोगो विप्रयोगश्च -- वाक्यकाण्डः, वाक्यपदीयम् (मूलम् - तस्य मूलम् ’अर्थात् प्रकरणाद्वा’ महाभाष्यम् ’ स्थाने’न्तरतमः ’ ) all major works in अलङ्कारशास्त्रम् ।
5. ’अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हि’ -- मूलम् - 6,चोदनासूत्रम् , श्लोकवार्तिकम् - many scholars (especially वेदान्तिनः , 99 per cent of them did not study
पूर्वमीमांसा , my गुरु in वेदान्त , कीर्तिशेषाः श्री राणी नरसिंहशास्त्रिणः , used to remark -- अत्यन्तासति .. इति खण्डनकारः । It is a fact that the line is quoted by श्रीहर्ष in खण्डनखण्ड्खाद्यम् and many other works across वेदाङ्गs and दर्शनs ( this should not be taken as गुरोः दोषः ) . Even in चित्सुखी , not touched by many . शशशृङ्गम् , वन्ध्यापुत्रः etc are examples.
6. इद्ं पुण्यमिदं पापमित्येतस्मिन् पदद्वये ।
आचण्डालं मनुष्याणाम् अल्पं शास्त्रप्रयोजनम् ॥ ब्रह्मकाण्डः , वाक्यपदीयम् - उपोद्घातः , श्लोकवार्तिकम् ।
The author of काशिका (a commentary on श्लोकवार्तिकम् ) says 'व्यासस्य श्लोकः’ ।
7. शब्दोत्पत्तिः --
आत्मा बुद्ध्या समेत्यार्थान् मनो युङ्ते विवक्षया ....-- पाणिनीयशिक्षा -- 1-3-25 शाबरभाष्यम् -- 1-3-3,4 सङ्गीतरत्नाकरः , गान्धर्ववेदः (not exact wording - but भावः} ।
8. कलां नार्हन्ति षोडशीम् -- 26-3 वसिष्ठस्मृतिः -- भृगुसंहितायाम् / शारदातिलकम् p389 .
अश्वमेधसहस्राणि वाजपेयशतानि च ।
ज्ञानयज्ञस्य सर्वाणि कलां नार्हन्ति षोडशीम् ॥ 229 - 12 , गरुडपुराणम
काव्यानि --
भवन्ति नम्रास्तरवः फलोद्गमैः -- अभिज्ञानशाकुन्तलम् -- भर्तृहरिनीतिशतकम् ।
धन्यो’स्मि
Dr.Korada Subrahmanyam
Adju.Professor , Dept of Heritage Science and Technology, IIT, Hyderabad
299 Doyen , Serilingampally, Hyderabad 500 019
Ph:09866110741