Following the recent discussions on Sanskrit names, I asked several learned individuals to suggest names for a house. Out of a list of more than 100 suggestions, we named our newly built house "ईशावास्यम्," inspired by the first verse of the ईशोपनिषद्. I can compile and share this list of suggested Sanskrit names, if anyone is interested. Subsequently, I composed the following प्रशस्ति for the house on the occasion of गृह-प्रवेश:
अस्माकं नूतनं गृहम्ईशावास्यमिदं कलिन्दतनयाकूलस्थितं प्रोन्नत-
मर्वाचीनसमस्तयन्त्रसहितं भव्यं प्रियं सुन्दरम्।
उद्यानोत्सवरङ्गमण्डपसरःस्वाध्यायशालायुतं
गेहं नो नवनिर्मितं प्रविशतान्नत्वा गणाधीश्वरम्॥१
मध्ये पूजनमन्दिरं विरचितं श्वेताश्मयुक्तं बृहच्-
छत्रं यस्य मरुप्रदेशकलितं स्तम्भौ च कर्णाटके।
नानाधातुभिरस्ति यत्र महितः श्रीविग्रहः स्थापितो
वासः स्यात् करुणानिधेश्च भवने नव्ये सदा श्रीहरेः॥२
यस्याधो भुवि कोष्ठके सुविपुले रङ्गालयो निर्मितश्
चित्रं यत्र चलिष्यति स्वचलितं नित्यं मनोरञ्जकम्।
गुर्वी दर्शकदीर्घिका च रचिता शिष्टप्रसादार्थिनी
मोदन्तामनिकेतकेतनगतास् तस्मिन् सदाभ्यागताः॥३
कक्षस्तत्र कवेश्च हर्म्यशिखरे प्रासादतुल्यः पृथुर्
यत्र स्यात् तरणाय कुण्डमपरं पूर्णं जलैर् निर्मलैः।
वृक्षाणां परितश्च राजिरमृतच्छायावती राजते
स्थातुं तत्र निजावकाशसमये वाञ्छन्ति के नो जनाः॥४
ग्रन्थानामपि यत्र धाम विहितं भिन्नासु भाषास्वपि
सृष्टा ये विविधैर्बुधैर् निजधिया देश्यैश्च वैदेशिकैः।
वेदादारभते पुराणसहितो यत्पुस्तकानां चयो
यूयं तत्र सबन्धवो विलसत ग्रन्थालये पाठकाः॥५
मन्दोष्णं सलिलं स्वतः प्रवहति ज्योतिः स्वयं दीप्यते
प्रग्रीवे पतति स्वतो यवनिका पात्रं च सम्मार्ज्यते।
वातो यत्र नियन्त्र्यते स्वयमिह प्रत्यग्रता वर्धते
ऐन्द्रं जालमयं मयस्य भवनं तन्नो द्वितीयं स्थितम्॥६
स्नातुं स्नानगृहं महानसगृहं भोक्तुं सुपक्वं रसं
रन्तुं पुष्पवनं मुदा प्रपठितुं ग्रन्थालयो विस्तृतः।
भृत्यानां वसतिः समुच्चपटलं सौरोर्जया द्योतितं
सर्वं चित्तविनोदसाधनयुतं नव्यं गृहं मङ्गलम्॥७
क्षेत्रं पालयतु प्रवञ्चनपरान्नो भैरवो दण्डभृत्
तेजो वर्धयतु प्रभञ्जनसुतो वास्तव्यवंशावलेः।
आरोग्यं दिननायकोऽवतु शशी तापं हरेद् व्याविधं
स्तेनात् पातु समर्जितं गृहमिदं यक्षेश्वरः प्रार्थितः॥८
नाधीतं यदि पुस्तकं न लिखितं काव्यं न भुक्तं पयो
नाघ्रातं कुसुमं वने न च सरस्तीर्णं न रङ्गेऽटितम्।
व्यर्थस्तेन कृतो गृहे स्वसमयः प्रामादिकैः कर्मभिर्
भृङ्गः प्रेत्य च वाटिकामपि यथा पातुं रसं नोद्यतः॥९
शान्तिर्या दिवि चान्तरिक्षनिलये पृथ्वीतले या जले
या सर्वौषधिषु स्थिता च विपिने वृक्षेषु या संवृता।
विश्वे दैवतशान्तिरेव निखले या ब्रह्मशान्तिः परा
शान्तौ शान्तिरुपैतु नो निवसतिं सस्निग्धमित्रान्वयाम्॥१०
Best,
Kushagra
Kushagra Aniket
Economist and Management Consultant
Columbia University'21
Cornell University'15
New York, NY, U.S.A.