Sri Sunil Ji,
Namaste.
Please observe the following slokas from Varahamihira and Brhaspati as found in all the standard and popular texts on Vastu.
१. अथ वास्तुस्वरूपमाह वराहमिहिर:
किमपि किल भूतमभवद्रुन्धानं रोदसी शरीरेण।
तदमरगणेन सहसा विनिगृह्याथोमुखं न्यस्तम्॥
यत्र च येन गृहीतं विबुधेनाधिष्ठितं स तत्रैव ।
तदमरमयं विधाता वास्तुनरं कल्पयामास ॥
२. बृहस्पतिवचनम्
पुरा कृतयुगे
ह्यास्तीन्महदद्भुतमुपस्थितम्।
व्याप्यमानं शरीरेण स्कलं भुवनं तत:॥
तद्दृष्ट्वा विस्मयं देवा गता: सेन्द्रा: भयावृता:।
ततस्तै: क्रोधसंतप्तैर्गृहीत्वा तं महासुरम्।
विनिक्षिप्तमधोवक्त्रं स्थितास्तत्रैव ते सुरा:।
तमेव वास्तुपुरुषं ब्रह्मा समभिकल्पयत्॥
तथा प्रथममसुर: तत: ब्रह्मण: प्रभावेण सुरत्वं प्राप्त: वास्तुपुरुष: त्रिमूर्तीनां प्रियो जात:। तस्य
दिव्यं शरीरं समस्तदेवतानामाश्रयो.अभवत्। इति वास्तुशास्त्रग्रन्थेषु बहुत्र प्रोक्त:।
Dr. Rani Sadasiva Murty
From: sunil bhattacharjya <skbhatt...@gmail.com>
To: BHARATIYA VIDVAT <bvpar...@googlegroups.com>
Sent: Friday, 30 August 2013 1:32 AM
Subject: Re: {भारतीयविद्वत्परिषत्} Vastu Purusha Ashtottara Shatanamavali stotram and Namavali.