समासविषये प्रश्नौ

79 views
Skip to first unread message

Deepro Chakraborty

unread,
Mar 14, 2019, 2:54:01 AM3/14/19
to भारतीयविद्वत्परिषत्
नमस्कारः,

समासविषये मम अधो लिखितौ प्रश्नौ जञ्जन्येते। अनुग्रहेण काचिद् विदुषी कश्चिद् विद्वान् वा समादधाति चेद् भृशमुपकाराय मे कल्पेत।

(१) "किमर्थं करोषि?" "पाकार्थं गच्छति" चेत्यादिषु वाक्येषु अर्थपदस्य उत्तरपदत्वं कथं सिध्यति। तत्र द्वितीया विभक्तिरपि वा केन सूत्रेण स्यात्। यदि क्रियाविशेषणत्वेन भवेत्, तर्हि तदपि वा कथमेषु पदेषु प्रयुज्यते?

२) "विघ्नभूता यदा रोगाः प्रादुर्भूताः शरीरिणाम्।..." (चरकसंहिता १.१.६) इह विघ्नभूता इति पदे कर्मधारयसमासः केन पाणिनीयेन सूत्रेण सिध्यति? "मयूरव्यंसकादयश्च" इति सूत्रेण वा? 

धन्यवादाः,
इति
दीप्रः

Subrahmanyam Korada

unread,
Mar 14, 2019, 12:45:11 PM3/14/19
to bvpar...@googlegroups.com
नमो विद्वद्भ्यः

(१) "किमर्थं करोषि?" "पाकार्थं गच्छति" चेत्यादिषु वाक्येषु अर्थपदस्य उत्तरपदत्वं कथं सिध्यति। तत्र द्वितीया विभक्तिरपि वा केन सूत्रेण स्यात्। यदि क्रियाविशेषणत्वेन भवेत्, तर्हि तदपि वा कथमेषु पदेषु प्रयुज्यते?  


तदस्यास्त्यस्मिन्निति मतुप् (5-2-94)

भाष्यम् --

किमर्थम् इमौ अर्थौ उभौ  निर्दिश्येते .....

प्रदीपः -

किमर्थमिति । कस्मा इदं किमर्थम् । को’र्थो’स्येति वा  किमर्थम् । एतच्च निर्देशक्रियाविशेषणं न तु निर्दिश्यमानक्रियाविशेषणम् इति नपुंसकैकवचननिर्देशः ।

(यौ अर्थौ -  इत्यस्य विशेषणत्वे द्विवचनपुंलिङ्गतापत्तिः इत्यर्थः)

यू स्त्र्याख्यौ नदी ( 1-4-3)

भाष्यम् --

कैमर्थक्यात् नियमो भवति ।

प्रदीपः -

को’र्थो’स्येति किमर्थकम् । तस्य भावः कैमर्थक्यम् ।

एवं पाकार्थं गच्छति - क्रियाविशेषणत्वात् द्वितीया नपुंसकलिङ्गता च  -- ’ धर्मं चरति , परिपन्थं च तिष्ठति ’ (पा. सू ) इत्यादिप्रयोगात् ।
तत्र न  द्वितीया  किन्तु प्रथमा इति नागेशः

किमर्थम् - इतिमात्रप्रयोगे तु सामान्ये नपुंसकम् इति बोध्यम् ।


२) "विघ्नभूता यदा रोगाः प्रादुर्भूताः शरीरिणाम्।..." (चरकसंहिता १.१.६) इह विघ्नभूता इति पदे कर्मधारयसमासः केन पाणिनीयेन सूत्रेण सिध्यति? "मयूरव्यंसकादयश्च" इति सूत्रेण वा?  

पितृभूतः इतिवत् विघ्नसदृशाः इत्यर्थः । वृद्धिसंज्ञासूत्रे भाष्ये -- ’प्रमाणभूतः आचार्यः’  इति । भू प्राप्तौ इति धातोः आधृषाद्वा इति णिजभावे रूपम् । प्रामाण्यं प्राप्त इत्यर्थः । विघ्नत्वं प्राप्ताः विघ्नभूताः - मयूरव्यंसकादिः पृषोदरादित्वं वा कल्प्यम् ।

धन्यो’स्मि







Dr.Korada Subrahmanyam
Professor of Sanskrit, CALTS,
University of Hyderabad,
Ph:09866110741(M),91-40-23010741(R),040-23133660(O)
Skype Id: Subrahmanyam Korada


--
You received this message because you are subscribed to the Google Groups "भारतीयविद्वत्परिषत्" group.
To unsubscribe from this group and stop receiving emails from it, send an email to bvparishat+...@googlegroups.com.
To post to this group, send email to bvpar...@googlegroups.com.
For more options, visit https://groups.google.com/d/optout.

Sivakumari Katuri

unread,
Mar 14, 2019, 1:04:53 PM3/14/19
to bvparishat@googlegroups com

On Mar 14, 2019 12:24 PM, "Deepro Chakraborty" <chakrabo...@gmail.com> wrote:
>
> नमस्कारः,
>
> समासविषये मम अधो लिखितौ प्रश्नौ जञ्जन्येते। अनुग्रहेण काचिद् विदुषी कश्चिद् विद्वान् वा समादधाति चेद् भृशमुपकाराय मे कल्पेत।
>
> (१) "किमर्थं करोषि?" "पाकार्थं गच्छति" चेत्यादिषु वाक्येषु अर्थपदस्य उत्तरपदत्वं कथं सिध्यति। तत्र द्वितीया विभक्तिरपि वा केन सूत्रेण स्यात्। यदि क्रियाविशेषणत्वेन भवेत्, तर्हि तदपि वा कथमेषु पदेषु प्रयुज्यते?

>चतुर्थीतदर्थार्थबलिहितसुखरक्षितैः इति चतुर्थीविभक्तिः, अर्थेननित्यसमासः विशेष्यलिङ्गता च इति वार्तिकेन विशेष्यस्य यल्लिङ्गं तदेव समस्तस्यापि।
यथा - द्विजाय अयम् = द्विजार्थः सूपः।
द्विजाय इयम् = द्विजार्था यवागूः।
द्विजाय इदम् = द्विजार्थं पयः। इति।


> २) "विघ्नभूता यदा रोगाः प्रादुर्भूताः शरीरिणाम्।..." (चरकसंहिता १.१.६) इह विघ्नभूता इति पदे कर्मधारयसमासः केन पाणिनीयेन सूत्रेण सिध्यति? "मयूरव्यंसकादयश्च" इति सूत्रेण वा? 
>
> धन्यवादाः,
> इति
> दीप्रः
>

Deepro Chakraborty

unread,
Mar 17, 2019, 11:09:57 PM3/17/19
to भारतीयविद्वत्परिषत्
कोरदमहाभागाः शिवकुमारीमहोदयाश्च,

भृशमनुगृहीतोऽस्मि भवतां भवतीनाञ्च शास्त्रीयव्याख्याभ्याम्। कोरदमहाभागेभ्यः कश्चित् पुनः प्रश्नोऽस्ति। भवद्भिरुक्तं पदद्वयं निर्देशक्रियाविशेषणं निर्दिश्यमानक्रियाविशेषणं च न मया समगवगम्यते। अपिच भवद्भिरुक्तं "तत्र न  द्वितीया  किन्तु प्रथमा इति नागेशः।" इति। एवं वा कथं सम्भाव्यत इति प्रश्नः। 

सविनयं,
दीप्रः


Subrahmanyam Korada

unread,
Mar 18, 2019, 1:54:39 PM3/18/19
to bvpar...@googlegroups.com
नमो विद्वद्भ्यः

(कोराड इति लिखतु )

>भवद्भिरुक्तं पदद्वयं निर्देशक्रियाविशेषणं निर्दिश्यमानक्रियाविशेषणं च न मया समगवगम्यते।  < ------

तदस्यास्त्यस्मिन्निति मतुप् ( 5-2-94) 

भाष्यम् ---

किमर्थम् इमौ अर्थौ उभौ निर्दिश्येते -----

here is the question -- there are two विशेष्यौ --

"इमौ उभौ अर्थौ " -- this is निर्दिश्यमानम् - in पुंलिङ्ग and द्विवचन -- if the term किमर्थ is the विशेषणम् of  the said phrase then it should be किमर्थौ  and not किमर्थम्  --- so किमर्थम् इति  न निर्दिश्यमानविशेषणम् ।

"निर्दिश्येते" - this is निर्देशक्रिया - since it is a क्रिया - the विशेषणम् , i e क्रियाविशेषणम् , किमर्थम्  is नपुंसकैकवचनम् ।

******************
>"तत्र न  द्वितीया  किन्तु प्रथमा इति नागेशः।" इति। एवं वा कथं सम्भाव्यत इति प्रश्नः।  < 

क्रियाविशेषणानाम्  कर्मत्वं नपुंसकत्वम् च - इति नियमः ।

पचति = पाकं करोति , गच्छति = गमनं करोति etc..  

" करणे च स्तोकाल्पकृच्छ्रकतिपयस्य असत्त्ववचनस्य " (पा 2-3-33)

काशिका --
करणे किम् ? क्रियाविशॆषणे कर्मणि माभूत् , स्तोकं मुञ्चति ।

पदमञ्जरी --
क्रियाविशेषणे कर्मणीति । आख्यातेन हि क्रिया साध्यमानावस्था उच्यते - चलति चलनं करोतीति । अतः तद्विशेषणं कर्म भवतीति । स्तोकं चलनं करोतीति ।
न्यास-प्रौढमनोरमा-शब्दरत्न-शब्देन्दुशेखर - बृहच्छब्देन्दुशेखरादिषु एवमेव वर्तते - एकस्मिन् सूत्रे तु नागेशः प्रथमा इति वक्ति - द्वितीया इत्येव साधु इति मे भाति ।

धन्यो’स्मि







 


Dr.Korada Subrahmanyam
Professor of Sanskrit, CALTS,
University of Hyderabad,
Ph:09866110741(M),91-40-23010741(R),040-23133660(O)
Skype Id: Subrahmanyam Korada

Subrahmanyam Korada

unread,
Mar 19, 2019, 11:23:13 AM3/19/19
to bvpar...@googlegroups.com
नमो विद्वद्भ्यः

under सार्वधातुके यक् (3-1-67) , नागेश says -- एवं च आसिका इत्यादि क्रियाविशेषणं प्रथमान्तम्
Here नागेश is simply giving the fact and nothing else .

This is regarding the भावे प्रयोग in बहुवचनम्  -- उष्ट्रासिका आस्यन्ते , हतशायिकाः शय्यन्ते (महाभाष्यम् ) ।

This does not mean that नागेश differs from others regarding - क्रियाविशेषणानां कर्मत्वनपुंसकत्वे द्वितीया च ।
In any one of his other books did he say this . The author of शाब्दतरङ्गिणी might have seen this .

Under करणे यजः (3-2-85) also there is discussion by हरदत्त ।

Deepro Chakraborty

unread,
Mar 24, 2019, 3:49:26 AM3/24/19
to भारतीयविद्वत्परिषत्
कोराडमहाभागाः,

भवद्भ्यः भृशं धन्यवादाः।।

इति विनीतः,
दीप्रः
Reply all
Reply to author
Forward
0 new messages